आयुर्वेदमहोदधौ अन्नपानविधि · अध्याय 9
॥ इत्य् आयुर्वेदमहोदधौ सुखेन(षेण)कृते तक्रवर्गः ॥
॥ अथ नवनीतवर्गः कथ्यते ॥
शीतं वर्णबलप्रदं समधुरं वृष्यं च संग्राहकं
वातघ्नं कफ (का)हारकं रुचिकरं हृद्यं त्रिदोषापहम् (सर्वाङ्गशूलापहम्) ।
कासाध्वश्रमशान्तिदं रतिकरं कान्तिप्रदं पुष्टिदं
{च्f. राजनिघण्टु 15.63: कासघ्नं श्रमनाशनं}
सद्यस्कं नवनीतम् उद्धृतम् इदं स्यात् सर्वरोगापहम् ।
(चक्षुष्यं नवनीतम् उद्धृतनवं गोः सर्वदोषापहम्) च्f. राजनिघण्टु 15.63} ॥
शीतं बलाढर्यं मधुराम्लवृष्यं श्लेष्मा (व) पहं पित्तमरुत्प्रणाशम् ।
शोकक्षयक्षीणकृशान्ति (ति) वृद्धबालेषु पथ्यं नवनीतम् उष्ण(क्त)म्
गव्यं वा माहिषं वापि नवनीतं नवोद्धृतम् ।
शस्यते बालवृद्धानां बलकृद्धातुवर्धनम्
शीतं वर्णबलप्रदं समधुरं वृष्यं हि संग्राहकं
हृद्यं श्वासजरापहं क्षयहरं पित्ताम्लवातापहम् ।
कासार्शोदिन (ताप) शोफशमनं स्रस्ताङ्गपीडापहं
सद्यस्कं नवनीतमाहिषम् इदं स्यात् सर्वरोगापहम्
मूल पाठ: Āyurvedamahodadhau annapānavidhi · Edition: S. Venkatasubrahmanya Sastri: Sushena's Ayurveda Mahodadhi-annapanavidhi, Madras 1950 (Madras Government Oriental Series, 60). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0