आयुर्वेदमहोदधौ अन्नपानविधि · अध्याय 38
मया सुषेण कृतं हिताय प्राणं प्रसादं तनयेच् च (?) शीघ्रम् ॥
इत्य् आयुर्वेदमहोदधौ सुषेणकृते भोजनविधिवर्गः ॥
अथ ताम्बूलगुणाः कथ्यन्ते ॥
कर्पूरकङ्कोललवङ्गपूगाजातीफलैर् नागरखण्डपर्णैः ।
सुधाश्मचूर्णं खदिरस्य सारं कस्तूरिकाचन्दनचूर्णमिश्रम्
ताम्बूलम् एतत् प्रवरं वदन्ति सौभाग्यदं कान्तिसुखप्रदं च ।
आरोग्यमेधास्मृतिबुद्धिवृद्धिं करोति वह्नेर् अपि दीपनं च
अनङ्गसंदीपनभावमध्ये प्रधानम् एतत् समुदाहरन्ति ।
अतो हि सर्वं(र्वे) सुखिनो मनुष्या अहर्निशं प्रीतिकरं भजन्ते
ताम्बूलपत्राणि हरन्ति वातं पूगीफलं हन्ति कफप्रसेकम् ।
चूर्णं निहन्यात् कफवातम् उच्चैर् हन्याच् च पित्तं खदिरस्य सारः
इत्थं हि ताम्बूलम् उदाहरन्ति दोषत्रयस्यापि निवारणाय ।
अतो ऽत्र सेवेत नरः कथञ्चिद् विचक्षणः प्राकृतमानुषो ऽपि
अथ ताम्बूलवर्ज्याः ॥
न नेत्ररोगे न च रक्तपित्ते क्षते च दीपे न विषे न शोषे ।
मदात्यये नापि न मोहमूर्छाश्वासेषु ताम्बूलम् उशन्ति वैद्याः
अथ ताम्बूलकालनियमः ॥
भुक्त्वान्नं सलिलं पीत्वा भुक्त्वा च बहु भोजनम् ।
प्रतीक्ष्य घटिकाम् एकां ताम्बूलं भक्षयेन् नरः
अथ जातीफलगुणाः ॥
वातश्लेष्मप्रशमनं हृद्यं वह्नेश् च दीपनम् ।
मुखवैरस्यहरणं सद्यो भुक्तविपाचनम्
जातीफलं पाचनम् अग्निदीपनं कफापहं कण्ठरुजापहं च ।
रसेकदुः (प्रसेकह) श्रेष्ठम् अजीर्णनाशे अजीर्णनामु (?) च पथ्यम् एतत्
कलिका दीपनी रुच्या पाके चातितरां हिमा ।
वातपित्तकफान् हन्ति ज्वरच्छर्दिनिबर्हणी
अथैलागुणाः ॥
एलाद्वयं छर्दिषु मूत्रकृच्छ्रे मदे च वै पथ्यम् अरोचके च ।
अथ जातिपत्रीगुणाः ॥
स्वादुः सुशीता मधुरा च पाके अरोचकं हन्ति च जातिपत्री
अथ क्रमुकपाककालनियमः ॥
ताम्बूलयोग्यं क्रमुकं तु तज्ज्ञा मासत्रयाद् ऊर्ध्वम् उदाहरन्ति ।
मासे व्यतीते तु भवन्ति पूर्णान्य् अतीव हृद्यानि मनोहराणि
अथ क्रमुकताम्बूलविशेषाणां गुणविशेषाः ॥
स्थूलं क्रमुकताम्बूलं श्लेष्मलं कृमिवर्धनम् ।
तदन्ते शुक्लवर्णाद्यं श्लेष्मलं कृमिनाशनम्
अथ कर्पूरगुणाः ॥
तीक्ष्णोष्णः परिणामशीतलतरः कण्डुप्रमेहापहः
नासास्रावजलापहः कृमिहरस् तृट्श्वासकासं जयेत् ।
श्लेष्मघ्नश् च गलग्रहापहरणः संसुप्तजिह्वाग्रजित्
कर्पूरः खलु दीप्यसौरभगुणः पित्तामयः स्फाटिकः ॥
गलग्रहे सुप्तजिह्वे नाना श्राव (नासास्राव) जलाधिके ।
श्लेष्ममेहकृमीन् हन्ति कर्पूरश् चाक्षुषो ऽपरः ॥
प्रमेहतृइड्विदाहघ्नो लक्ष्मीसौभाग्यवर्धनः
अथ कस्तूरिगुणाः ॥
कस्तूरी सौरभाढ्या कटुकरसयुता क्षारतिक्ता कषाया
शोकाटोपापहन्त्री कफपवनहरा पित्तकृच्चाक्षुषी च ।
चित्तप्रोल्लासहेतुर् विषमविषगरान् गात्रदौर्गन्ध्यहन्त्री
क्षुत्तृष्णापित्तकोपं प्रशमयति भृशं क्लैब्यशोषं विषं च
अथानुलेपनवर्गः ॥
चन्दनं रक्तपित्तघ्नं दाहमूर्छातिसारनुत् ।
शीतलं श्लेष्मलं हृद्यं किंचिद् वातप्रकोपणम्
पित्तास्रं हरते सदाहदवनं व्यायादयत्तः (?) सदा
मूर्च्छामोहतृषाविषप्रशमनं दुर्गन्धिनिर्णाशनम् ।
कण्डूकुष्ठभगन्दरस्य सदनं मूर्छां छिनत्ति स्फुटं
मेहं कृच्छ्रम् अपि व्यपोहति सदा दुर्नामनिर्णाशनम्
रोगानीकविधा व्यपोहति सदा मोषाश्रयः (?) सौरभः ॥
मलयाद्रिर्मोहदोषघ्नो रक्तपित्तनिबर्हणः ।
मूर्छाशोषप्रशमनौ वक्त्रदौर्गन्ध्यनाशनः
शीतं पित्तविनाशनं समधुरं किंचित् सतिक्तं तथा
कण्डूशोफविषापहं क्रिमिहरं सौभाग्यकान्तिप्रदम् ।
सौगन्ध्यं कुरुते किम् अप्य् अभिनवं गात्रेषु पुष्टिप्रदं
संतोषं विदधाति चेतसि परं स्निग्धं च तृष्णाहरम् ।
ऋतुषु समययोज्यं चन्दनं कुङ्कुमं वा
मृगमदधनलेपः सेव्यते सर्वदैव ।
सुरतकुसुमदामस्फारकर्पूरचूर्णो
विमलधवलवासः सर्वकालोपयोग्यः
मूल पाठ: Āyurvedamahodadhau annapānavidhi · Edition: S. Venkatasubrahmanya Sastri: Sushena's Ayurveda Mahodadhi-annapanavidhi, Madras 1950 (Madras Government Oriental Series, 60). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0