भाषा

ENहिગુ
ग्रंथ पाठ

आयुर्वेदमहोदधौ अन्नपानविधि · अध्याय 37

37.1

॥ इति मात्स्याः ॥
॥ इत्य् आयुर्वेदमहोदधौ सुषेणकृते मांसवर्गः ॥
॥ इदानीं व्यायामोद्वर्तनाभ्यङ्गविधिगुणाः कथ्यन्ते ॥
श्रीनारायणतैलचम्पकजपातैलेन चान्येन वा
कार्यं मर्दनकोविदैः क्षितिभुजां मल्लैः सदा मर्दनम् ।
चातुर्जातलवङ्गकुङ्कुमनिशामुस्तासुमांसीभवैश्
चूर्णो (र्णैः) भृष्टमसूरमुद्गसहितैर् उद्वर्तनं कारयेत्

37.2

वातघ्नौषधसिद्धेन तैलेनाभ्यज्य मर्दयेत् ।
न रूक्षमर्दनं कुर्यात् तद् धि वातप्रकोपणम्

37.3

अधिगतसुखनिद्रः सुप्रसन्नेन्द्रियात्मा
सुलघुजठरवृत्तिर् भुक्तयङ्क्तिं दधानः ।
श्रमभरपरिखिन्नः स्नेहसंमर्दिताङ्गः
सवनगुरुम् उपेयाद् भूपातिर् मर्दनाय (?)

37.4

अभ्यङ्गः श्रमवातहा बलकरः कायस्य दार्ढ्यावहः
स्याद् उद्वर्तनम् अङ्गकान्तिकरणं मेदःकफालस्यजित् ।
आयुष्यं हृदयप्रसादि वपुषः कण्डूक्लमच्छर्दिकृत् (छेदकृत्)
स्नानाद् एव यथर्तु सेवितम् इदं शीतैर् अशीतैर् जलैः

37.5

अथ व्यायामगुणाः ॥
सामर्थ्यं सकलक्रियासु लघुताम् अङ्गेषु दीप्तिं परां
अग्नेः पाटवम् इन्द्रियेषु लघुतां छेदं परं मेदसः ।
उत्साहं मनसः शरीरदृढतां शान्तिं बलाद् व्यापदां
च्यायामः शिशिरे वसन्तसमये कुर्याद् धिमे सेवितः

37.6

अथ व्यायामवर्ज्योः ॥
वातामयः पित्तरुजान्विताश् च बालो ऽतिवृद्धो ऽपि कृशो ऽतिजीर्णः (प्य् अर्जार्णी) ।
मन्दानलः स्निग्धरसान्नवर्जी व्यामामकालेषु विवर्जनीयाः

37.7

स्थाल्यां यथानावरणीकृतायां असंहितायां न च साधुपाकः ।
अनाप्तनिद्रस्य तथा नरेन्द्राः व्यायामहीनस्य न चानुपाकः

37.8

अथ पादमर्दनगुणाः ॥
वातव्याधिहरं कफप्रशमनं कान्तिप्रसादावहं
त्वग्वैवर्ण्यविनाशनं रुचिकरं सर्वाङ्गदार्ढ्यप्रदम् ।
अग्नेर् दीप्तिकरं बलोपजननं प्रस्वेदमेदो ऽपहं
पद्भयां मर्दनम् आदिशन्ति मुनयः श्रेष्ठं सदा प्राणिनाम्

37.9

अथ पादमर्दनवर्ज्याः ॥
सुकुमारस्य मन्दाग्नेः किंचित् क्षीणबलस्य च ।
पित्तलस्यापि नो कार्यं कदाचित् पादमर्दननम्

37.10

व्यायामस्विन्नगात्रस्य पद्भयां मर्दनितस्य च ।
व्याधयो नोपसर्पन्ति वैनतेयम् इवोरगाः

37.11

सुवर्णवर्णं कुरुते शरीरं दृढत्वम् अङ्गे च ददाति सद्यः ।
सर्वक्रियालाघवम् आतनोति संमर्दनं मल्लवरैः कृतं यत्

37.12

वातव्याधिं जयति कुरुते .......... ।
सर्वपते मम चैष सग्रस् तस्या स एव समयः क्षुधितो पदैव

37.13

यः क्षौध्यलोभ्यभावेन कुर्याद् आह च भोजनम् ।
सुप्तव्यालां निलाव्याधीन् ध्यादीन् सो ऽन्यथा यः प्रबोधतेत्

37.14

यः कोकवन्यमद्गाकामि स नक्तं भोक्तुम् अर्हति ।
संभोक्ता वासरेयश् च रात्रौर् एताश् चकोरवत् (?)

37.15

अथ भोजननियमाः ॥
हृन्नाभिपद्मसंकोचश् चण्डरोचेर् अपायतः ।
अतो नक्तं न भोक्तव्यं वैद्यविद्याविदां वरैः

37.16

देवार्चां भोजनं निद्राम् आकाशे न प्रकल्पयेत् ।
नान्धकारे च सन्ध्यायां नाविताने निकेतने

37.18

भुक्तौ स्वादे मलोत्सर्गे यः संबाधासमाकुलः ।
निःशङ्कत्वात्ययात् तस्य कोकनस्यूर्मदापमाः (?) ॥
विवर्णास्विन्नविक्लिन्नविगन्धिविरसस्थिति ।
अतिजीर्णम् असात्म्यं च नाद्याद् अन्नं च वारितम्

37.19

भुक्त्वा वर्ज्यानि ॥
का (भा) सकापोतपायसयानवाहबहुपयः (हूदकम्) ।
भोजनानन्तरं सेव्यं न जातु हितम् इच्छता

37.20

भोजनविधिः ॥
हितं परिमितं पक्वं नेत्रनासारसप्रियम् ।
परीक्षितं च भुञ्जीत न द्रुतं न विलम्बितम्

37.21

अत्यशनमध्यशनं
शमनमशतं (समशनविषम् आशनं) च संत्याज्यम् ।
कुर्याद् यच् छोक्तशमनं
बलजीवितपेशलं क्रमशः (?)

37.22

भोजनक्रमः ॥
आदौ स्वादु स्निग्धं तन्मध्ये लवलमलापू (लवणम् अम्लम् उ)पभोज्यम् ।
रूक्षं द्रवं च पश्चान् न च भुक्ते भक्षयेत् क्वचित् किंचित्

37.23

अग्नेश् चातुर्विध्यम् ॥
मधुस् तिक्तो (मन्दस् तीक्ष्णो) विषमः
समश् च वह्निश् चतुर्विधः पुंसाम् ।
लघु मन्दे गुरुस् तिक्तं (तीक्ष्णे)
त्वद् याद् विषमे समं समे ऽप्य् अद्यात्

37.24

अथ भोजनसङ्खयाप्रस्तावः ॥
जीर्यत्य् अन्नं सुखं भुक्तम् एकवारं यद् ऋच्छया ।
द्विकालम् अपि भुञ्जीत समाग्निस् त्व् अर्धमात्रया

37.25

कठिनं दुर्जरं यच् च यद् विदाहकां भवेत् ।
तत् सर्वं निशि वर्ज्यं स्याद् द्रवं लघु च शीलयेत्

37.26

अथ विषदूषितान्नपरीक्षा ॥
ध्वाङ्क्षः स्वरान् विकुरुते ऽत्र पिकांत्यकश् च (?)
बभ्रुः शिखण्डितनयः प्रभवेत् प्रहृष्टः ।
क्रौञ्चः प्रमोदति विरौति च ताम्रचूडः
छर्दिं शुकः प्रतनुते दहते कपिश् च

37.27

रक्तश्वेते चकोरस्य लोचने विषदर्शनात् ।
गतिश् च लक्षि (स्खलति) हंसस्य लीयन्ते चात्र मक्षिकाः

37.28

यथा लवणसंपर्कात् स्फुटस्फुटति पावकः ।
केषु (विष) दुष्टान्नसंपर्कस् तथा च सुप्रतीयते

मूल पाठ: Āyurvedamahodadhau annapānavidhi · Edition: S. Venkatasubrahmanya Sastri: Sushena's Ayurveda Mahodadhi-annapanavidhi, Madras 1950 (Madras Government Oriental Series, 60). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc