आयुर्वेदमहोदधौ अन्नपानविधि · अध्याय 39
॥ इत्य् आयुर्वेदमहोदधौ सुषेणकृते ऽनुलेपनवर्गः ॥
अथातो वस्त्रगुणाः कथ्यन्ते ॥
श्वेतं दुकूलं विमलं कफवातानुलोमनम् ।
यद् वा सूत्रम् अयं वस्त्रं त्रिदोषशमनं विदुः
सुश्वेतं तु दुकूलम् अत्र बलकृत्पित्तप्रशान्तिप्रदम्
ओजोदीप्तिविवर्धनं रतिकरं मर्मातिदाहच्छिदं ।
तृष्णादोषविभेदनं धृतिकरं कान्तिप्रदं श्लेष्मलं
क्षौमं शुक्लम् अतीव हृद्यम् अमलं पित्तामयध्वंसकम्
माञ्जिष्ठं च विदाहि तत् कफहरं पथ्यं च वातामय-
ध्वंसं चारुतरंसदैव कुरुते श्लेष्मप्रकोपं जयेत् ।
उष्णं शीतविघातकं मलहरं सश्लेष्मवातापहं
विद्याघ ..... (?) मयहरं माञ्जिष्ठवस्त्रं सदा
मूल पाठ: Āyurvedamahodadhau annapānavidhi · Edition: S. Venkatasubrahmanya Sastri: Sushena's Ayurveda Mahodadhi-annapanavidhi, Madras 1950 (Madras Government Oriental Series, 60). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0