आयुर्वेदमहोदधौ अन्नपानविधि · अध्याय 36
॥ इति श्रीसुषेणकृते व्यञ्जनवर्गः ॥
॥ इदानीं मांसगुणाः कथ्यन्ते ॥
मांसं स्वादुमतां वरं सुबलकृत् स्नेहाधिकं देहिनो
नित्यं धातुषु साम्यकृच् च कथितं तद् वर्णकृद् बृंहणम् ॥
भुक्तं तृप्तिकरं च कामकरणं वातादिदोषान् हरेत्
तस्माद् आङ्गिकदोषशान्तिकृतये भुञ्जीत मांसं सदा
अथ लावमांसगुणाः ॥
लावा हिमस्वादुकषाययुक्ता वृष्याग्निकृत् स्निग्धलटी (?) प्रहृद्याः ।
संग्राहिका वै कटुपाचिताश् च ते संनिपातेषु हिताः समस्ताः
॥ लावरू (भा-) ॥
अथ कृष्णतित्तिरिगुणाः ॥
ईषद्गुरूष्णो मधुरो ऽतिवृष्यो मेधाग्निसंवर्धनकारकश् च ।
बल्यो विहन्यात् स कफज्वरांश् च वातामयाद्यान् शितितित्तिरिश् च
॥ कृष्णतित्तिर (भा-) ॥
अथ गौरतित्तिरिः ॥
गौरस् तित्तिरिको ऽग्निकृत् कफहरो रूक्षो ऽतिपित्तापहः
श्लेष्माणं विनिहन्ति चैव बलवान् रक्तं च पित्तं जयेत् ।
अथ कापिञ्जलः ॥
सो ऽसृक्पित्तहरो ऽतिशीतललघुर् बल्यो ऽतिवृष्यः सदा
वाते स्यान् मृदुकुष्ठहृत् कृमिहरो मेहामयध्वंसनः ।
क्षीणे रेतसि मेदसाग्निजननः कापिञ्जलः शस्यते
वातासृग्विलयं करोति तरसा पित्तामयध्वंसकः
अथ वार्तकगुणाः ॥
पाण्डुप्रमेहपिडिकाकृमिसंभवेषु रोगेषु वातबहुलेषु च शस्यते च ।
वातास्रपित्तकफजान् विनिहन्ति कीलान् गुल्माग्निमान्द्यम् अरुचिं लघु वार्तकं च
अथ क्रकरोपचक्रिकागुणाः ॥
लघुश् च वृष्या च बलोपबृंहणी
हृद्या तथा क्रकरोरुचिक्रिया (सक्रकरोपचक्रिका) ॥
अथ मयूरमांसगुणाः ॥
काषायं कटुकातिवृष्यजननं सुस्वादु केप्यं (कण्ठ्यं) तथा
सक्षारं रुचिकारकं विषहरं मन्दानलध्वंसकम् ।
(स्वर्यं) श्वर्ये मेध्यम् अतीव हृष्टिजननं श्रोत्रेन्द्रिये दार्ढ्यकृत्
स्निग्धोष्णानिलहास्रपित्तशमनं मायूरमांसं सदा
हेमन्तकाले शिशिरे वसन्ते सेव्यं हि मायुरम् उशन्ति मांसम् ।
अथ कुक्कुटमांसगुणाः ॥
उष्णः स्वादुतरो बलस्वरकरो वृष्यः सदा बृंहणः
पाके स्निग्धतरो महानिलहरो मेदःकफालस्यकृत् ।
आयुष्यं कुरुते क्षयेषु विषमे मेहे वमौ शस्यते
प्रोक्तः कुक्कुटको हि दोषशमनः सर्वामयध्वंसकः
अथ कपोतादिगुणाः ॥
कपोतपारावतभृङ्गराजा जटी कुलिङ्गं गृहजं पिकश् च ।
भेदाशिडिंडीशुकसारिवालूकाखञ्जरीटा हरिताः प्रशस्ताः
कषाया मारुता रूक्षाः फलाहारा मरुचराः ।
पित्तश्लेष्महराः पित्ता (प्रोक्ता) बद्धमूत्राल्पवर्चसः
सदा दोषकरस् तेषां भेदाशी मलदूषकः ।
काषाया लवणा हिमाः कफकरा वृष्याः सदा दुर्जरा
विष्टम्भं जनयन्ति मूत्रबहुलं पित्तास्यदाहान् किल ।
आमाध्मानकरास् त्रिदोषजनना मोहास्यवैरस्यकाः
कृच्छ्राग्नेर् बलकारकाः श्रमहराः दौर्गन्ध्यदाः स्लेष्मलाः
एते प्रावृषि सेविताः प्रतिदिनं दोषव्रजघ्नाः खलु ।
आकाशगामिनः सर्वे बल्या वृष्याः सुदुर्जराः
कौलिङ्गगुणाः ॥
कौलिङ्गो मधुरो ऽतिवृष्यकफकृच्छुक्राश्मरीछेदनः
पित्तास्रातिहरो ऽतिशुक्रजननः स्निग्धास्यमाधुर्यकृत् ।
बल्यो मारुतनाशनः कृमिहरो वार्यश् च नेत्रामये
दुर्नामप्रशमी विशेषपवनध्वंसी सदा दुर्जरः
ग्राम्याणां गुणाः ॥
ग्राम्या वातहराः सर्वे बृंहणाः कफपित्तलाः ।
मधुरा रसपाकाभ्यां दीपना बलवर्धनाः
कपोतगुणाः ॥
कापोतः स्याद् गुरुरतिहिमः स्निग्धमन्दः प्रकोपी
श्लेष्मा पित्ते प्रणयविजरा जर्जरा चं चदनात् [?] ।
रेतःक्षीणे श्रमहरवरः कृच्छ्रमूत्रे निदाघे
मोहे योज्यः स भवति नृणां कायकारी बलाय
अथ जाङ्गलमासगुणाः ॥
जाङ्गलं वस्तिदोषघ्नं गुरु पीनसनाशनम् ।
लघुपाकं न शीतं च नातिस्निग्धमदाहि च
अथाजाविमांसगुणाः ॥
[नातिशीतं गुरु स्निग्धं मांसमाजमदोषलम्]
शरीरधातुसामान्याद् अनभिष्यन्दि बृंहणम् ।
बृंहणं मांससौरभ्रं पित्तश्लेष्मावहं गुरु
अथैणमांसगुणाः ॥
ऐणं मांसं च हृद्यं बलकरम् अपि तत् पित्तरक्तं निहन्ति
पाण्डुक्षीणे सदाहे कफपवनरुजो नाशयत्य् आशु कीलान् ।
प्लीहानाहौ विबन्धं ज्वरहरणपरं मेदसो ऽन्तं करोति
रेतःक्षीणेषु योज्यं रुचिकरणलघु श्वासकासं छिनत्ति
मेदः पुच्छोद्भवं स्यात् कफपवनहरं कान्तिदं पुष्टिदं स्यात्
वातासृक् पित्तकृत् स्यान् मदहरविषहृच् छ्वासकासं छिनत्ति ।
अथ शशकमांसगुणाः
(बल्यं वि) बलाभिष्यन्दि तत् स्यात् ज्वरहरणपरं क्षीणरेतःप्रधानं
शस्तं वातामयानां शशकजपिशितं हन्ति कुष्ठामयांश् च
अथौष्ट्रादिमांसगुणाः ॥
औष्ट्रं सलवणं मांसं मांसम् एकशफोद्भवम् ।
अल्पाभिष्यन्दि वर्गो ऽयं जाङ्गलः समुदाहृतः
दुलेः (?) जलपातनिलयादूरपानीयगोचराः ।
ये मृगाश् च विहङ्गाश् च महाभिष्यन्दना मताः
अथ वनचारिणां गुणाः ॥
माधुर्याद् गुरुवो ऽतिरूक्षदहनाः शोषे मदोत्थे विषे
श्रेष्ठा मूत्रपुरीषला बलकराः कासार्शनाशप्रदाः ।
वातं पित्तरुजो हरन्ति सततं स्निग्धाश् च कार्श्यापहाः
सर्वे ते वनचारिणः कफहरा मेहे हिताः सर्वदा
अथ मांसानां गौरवलाघवविचारः ॥
नादेया गुरवो मध्ये यस्मात् पुच्छास्यचारिणः ।
सरस् तडागजानां तु विशेषात् सारसो लघुः
अदूरगोचरा यस्मात् तस्माद् उत्सोद पादलाः (?) ।
किंचिन् मुक्ताः शिरोदेशे अत्यर्थं गुरवस् तु ते
अधस्ताद् गुरवो ज्ञेया मत्स्याः सरसिजाः स्मृताः ।
उरोविचारणास् तेषां पूर्वम् अङ्गं लघु स्मृतम्
शिरः स्कन्धः कटिः पृष्ठं सक्थिनी चाम आशयः ।
गुरु पूर्वं विजानीयाद् वातस् तुपथात्तरम् (लघवस् तु यथोत्तरं)
सर्वश् च प्राणिनां देहे मध्यो गुरुर् उदाहृतः ।
पूर्वभागो गुरुः पुंसाम् अधोभागस् तु योषिताम्
उरोग्रीवं विहङ्गानां विशेषेण गुरु स्मृतम् ।
पक्ष्योक्ष्ये पाश्यमाहृष्टो (?) मध्यभागस् तु पक्षिणाम्
अतीव मांसं रूक्षं च विहङ्गानां पलाशिनाम् ।
बृंहणं मांसम् अत्यर्थं खगानां पिशिताशिनाम्
मत्स्याशिनां पित्तकरं वातघ्नं धान्यचारिणाम् ।
जाङ्गलानूपगा ग्राम्याः क्रव्यादैकशफास् तथा
प्रसहा बिलवासाश् च यथासंघातसंशिताः (?) ।
प्रतुदा विष्किराश् चैव लघवः स्युर् यथोत्तरम्
अथ वाराहमांसगुणाः ॥
दुर्नामानिलदोषहं कृमिहरं वाराहमांसं सदा
स्निग्धं स्वेदनवृष्यशीतबलकृद् हृद्रोगसंवर्धकम् ।
कासश्वासहरं प्रमेहशमनं हिक्कानिलध्वंसकं
चाक्षुष्य तु विदाहि च भ्रमहरं वाराहमांसं सदा
अथ शङ्खकूर्मादिगुणाः ॥
शङ्खकूर्मादयः स्वादुरसपाका मरुत्प्रदाः ।
स्निग्धाः शीता हिताः पित्ते वर्चःश्लेष्मविवर्धनाः
कृष्णकर्कटकस् तेषां बल्यः को (सो)ष्णो ऽनिलापहः ।
शुक्लः सन्धानकृत्सृष्टविण्मूत्रो ऽनिलपित्तहा
अथ मत्स्यगुणाः ॥
नादेया मधुरा मत्स्या गुरवो मान्द्यतापहाः ।
रक्तपित्तकराः सोष्णा वृष्याः स्निग्धाल्पवर्चसः
कषायानुरसस् तेषां शिष्यः (श्रेष्ठः) शैवालभोजनः ।
रोहितो मारुतहरो नात्यर्थं पित्तकोपनः
मत्स्या द्वेधा दुद्वपन्नेद्वम्बु (?) जातास्
तस्मात् पूर्वे पञ्चधा कल्पनीयाः ॥
नद्याः कौपाः सारसा वैद्युतोत्थास् ताडागोत्थाः सागरोत्थास् तथा स्युः
अथ ऋतुभेदेन मत्स्यविशेषाणां हितत्वम् ॥
ऋतुः प्रभै (ऋतौ मधौ) निर्झरिषु प्रजाता
मत्स्या हिता ग्रीष्मऋतौ च चौद्याः ।
तडागजाः प्रावृषि सर्व एव स्निग्धा बलिष्टाश् च सृजन्ति दोषान्
शरद्य् ऋतौ निर्जरि (र्झर ?) जाश् च कूपजा
हिता हि मत्स्याः शिशिरे ऽब्धिजाताः ॥
(शिशिरे सारसा मत्स्या वसन्ते हृदसंभवाः ।
ग्रीष्मे तु चौण्ड्यजा मत्स्याः प्रावृट्काले तडागजाः
शरदि नैर्झरा मत्स्याः हेमन्ते कूपसंभवाः)
षट्कुलो नदिकावर्तो ग्रही लघुतरः स्मृतः (?) ।
अथ स्थानानुसारेण मत्स्यानां गुणाः ॥
सरस् तडागसंभूताः स्निग्धाः स्वादुरसाः स्मृताः
कौष्या वृष्या वातहृच्छ्लेष्मलाश् च गुल्माष्ठीलानाहकुष्ठप्रदाः स्युः ।
ताडागमत्स्यो गुरुबृहणीयः तथा च शीतो वृषदो ऽतिमूत्रः ।
ताडागवन्निर्झरजाश् च मेध्या चत्तू (?) स्थिरायुष्यबलप्रदाश् च
मम तदश्रु (महासरस्सु) बलिनः स्वल्पाम्भस् स्वबला मताः ।
सामुद्रो गुरुर् उष्णरूक्षमधुरः श्लेष्मलो वातहा स्यात् (श्लेष्माघिको वातहा)
स स्नेहाभिविवर्धनो ब(ल)करो विष्टम्भकाध्मानकृत् ।
पित्तोद्रेककफात्ययेषु विहितो मेध्यो ऽतिहृद्यः सदा
विष्टम्भं जनयेच् च शीतपवनव्यापादम् अत्यग्रतः
त्रिदोषशमनो हृद्यः पित्तघ्नः पवनापहः ।
सामुद्रो रोहितः शस्तः सर्वरोगेषु दीपनः
सामुद्रा गुरवः स्निग्धा मधुरा नातिपित्तलाः ।
उष्णा वातहरा वृष्या वर्चस्या श्लेष्मवर्धनाः
बलावहा विशेषेण मांसाशित्रा (त्वात्) त् समुद्रजाः ।
सामुद्रजेभ्यो नादेयाः स्युर् लघुत्वाद् गुणोत्तराः
ततो ऽप्य् अत्यनलत्वाच् च चौद्यकौप्यौ गुणोत्तरौ ।
स्निग्धत्वात् स्वादुपाकत्वात् ततो वाप्या गुणाधिकाः
अथ क्रकरादीनां गुणाः ॥
विष्टम्भाध्मानमेहघ्नः क्रकरः कफवातहृत् ।
मेदःश्लेष्मानिलहरो हिध्माध्मानविकारहा
प्रवरो रोहितो मत्स्यः पित्तघ्नः पवनापहः ।
बृंहणो वातशमनो वातघ्नो दीपनो लघुः ॥ 50 ।
मत्स्यानां च गुरुः श्रेष्ठो दीपनो वातनाशनः ।
रुचिप्रदः शुक्रकर आश्मरीदोषनाशनः
गुरुमत्स्यः ॥
शृङ्गी वातविनाशनो रुचिकरो वृष्यः कफघ्नो मतः
कण्टाको विशदो वृषानलकरो वाते कफे पूजितः ।
पाठीनो बलवृष्यशुक्रजननः श्लेष्माकरो नित्यशः
तस्माद् रोहितको हितो बलकरो वातात्मकः श्लेष्मलः
मूल पाठ: Āyurvedamahodadhau annapānavidhi · Edition: S. Venkatasubrahmanya Sastri: Sushena's Ayurveda Mahodadhi-annapanavidhi, Madras 1950 (Madras Government Oriental Series, 60). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0