भाषा

ENहिગુ
ग्रंथ पाठ

आयुर्वेदमहोदधौ अन्नपानविधि · अध्याय 35

35.1

॥ इति सुषेणकृते शिखरिणीवर्गः ॥
अथ व्यञ्जनवर्गः ॥
हिड्गूषणाजाजिमहौषधानि चूर्णीकृतानि त्रिगुणं क्रमाच् च ।
सदीप्यकं सूरणपूष (?) मांसरसप्रयोगेषु च नित्यम् इष्टम्

35.2

यवानिजीरके तुल्ये तयोर् द्विगुणसूरणम् ।
ईषत्युष (?) समायुक्तं ततो व्यञ्जनसौरभम्

35.3

सर्वरोगहरं पथ्यं वातदुर्नामनाशनम् ।
शुण्ठीमरीचपिप्पल्यः समं नागविचूर्णिताः

35.4

चव्यचित्रककापित्थसारयुक्तं सुसंस्कृतम् ।
सैन्धवेन ममोपेतं तक्रपीतं च यत्र चित्

35.5

एतद् वै व्यञ्जनं श्रेष्ठं सर्ववातनिवारणम् ।
महागुल्मप्रशमनं सुषेणेन कृतं नृणाम्

35.6

सर्ववातामये शस्तं नृणां भेषजम् उत्तमम् ।
॥ अन्यच् च ॥
मरीचं दीप्यकं शुण्ठी चव्यं चित्रकम् एव च

35.7

पिप्पलीपिप्पलीमूलधान्याकाजाजिसैन्धवम् ।
जीरकं दाडिमं पथ्या चामलं हृद्यगन्धकम्

35.8

एतत् कल्पसमं मिश्रं पक्त्वा तक्रे सपिण्डके ।
वातश्लेष्महरा हृद्या परमा रुचिवर्धिनी

35.10

आमातीसारशूलघ्नी वातगुल्मनिकृन्तनी ।
कासश्वासहरा चोग्रा मन्दा मेदायिनी (?) परा ।
उक्ता चैव सदा पथ्या सोत्तमा कठिना स्मृता

35.11

क्वथिका (भा-) ॥
मरिचजरणशुण्ठीं पिप्पलीमूलचव्यं
दहनरुचकधान्यं पिप्पली सैन्धवं च ।
अत्रपकपित्थसारं दाडिमिकाजि (?) हिंगुर्
युवतिकरसुपक्वं आमलक्यं सुतक्रम्

35.12

हरति पवनमाद्यं श्लेष्मदाहं सकृच्छ्रं
अरुचिजठरशूलं चामवातातिसारम् ।
विदितसकलवेद्यो वैद्यराजः सुषेणोः
विरचयति कपित्थव्यञ्जनं राजगोप्यम्

35.13

॥ अन्यच् च ॥
त्रिकटुकम् अजमोदा सैन्धवं जीरके द्वे
करमथितकपित्थं चित्रकं पिप्पली च ।
समधृतकृतचूर्णे तत्र संयोजितव्यं
क्वथितम् इह समानं योजितं रामठेन

35.14

कृतलवणसुधान्यं मातुलुङ्गस्य सारं
कफपवनविकारे सर्वदा व्यञ्जनं स्यात् ।
वाते ऽग्निमान्द्ये ऽपि च शूलमान्द्ये मूर्छां निगृह्णाति चिरप्रवृद्धाम् ॥
सुषेणदेवेन कृता रसाला सुसौरभा रोगहरापि पथ्या

मूल पाठ: Āyurvedamahodadhau annapānavidhi · Edition: S. Venkatasubrahmanya Sastri: Sushena's Ayurveda Mahodadhi-annapanavidhi, Madras 1950 (Madras Government Oriental Series, 60). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc