भाषा

ENहिગુ
ग्रंथ पाठ

आयुर्वेदमहोदधौ अन्नपानविधि · अध्याय 34

34.2

॥ इत्य् आयुर्वेदमहोदधौ सुषेणकृते फलशाकवर्गः ॥
॥ अथेदानीं शिखरिणी कथ्यते ॥
अर्धाढकं सुचिरपर्युषितस्य दध्नः
खण्डस्य षोडश पलानि शशिप्रभस्य ।
सर्पिः पलं मधु पलं मरिचं द्विकर्षं
शुण्ठ्याः पलार्धम् अपि चार्धपलं चतुर्णाम् (चतुर्जातकस्य) ॥
श्लक्ष्णे पटे ललनया मृदुपाणिघृष्टा कर्पूरचूर्णसुरभीकृतचारुसंस्था ।
एषा वृकोदरकृता मु (सु)रसा रसाला चास्वादिता भगवता मधुसूदनेन

34.3

त्रिंशत्पलानि दध्नश् च त्व् अगेलार्धपलं तथा ।
मध्वाज्यस्य पलार्धं च (र्धार्धं) मरीचानां (चैला) पलार्धकम्

34.4

पलान्य् अष्टौ च खण्डस्य पटे शुद्धे ऽवधार (गाल)येत् ।
कर्पूरवासिते भाण्डे छायायां स्थापयेद् इदम्

34.5

एषा शिखरिणीत्य् उक्ता प्रदीप्ता बलवर्धनी ।
आयुःप्रवर्धनी चैव सर्वरोगप्रमर्दनी

34.7

(नाश) सान श्येत् तृड्रुजास्थौल्यं नराणां सर्वदा हिता ।
॥ द्वितीया शिखरिणी ॥
कपित्थमातुलुङ्गैलासारिवार्धक (?) बीजकैः ।
शर्कराशुण्ठिसामुद्रमुद्गचूर्णैः सुसंयुतैः ॥
सदा पथ्या नियुञ्जयाच् च (द्धाध्व) क्षीणे देहे च पुष्टिदा

34.8

सुजातं दध्नि भेदं च (निक्षिप्तं) वस्त्रे बद्ध्वा सुपीडितम् ।
नानापुष्पफलारम्भं कुर्याद् दध्नि मनोहरम्

34.9

सूक्तं दधिरसं श्रेष्ठं तद् धृतं शोधिते पटे ।
लवणेन समं युक्त्या शिखरिण्यमृतोपमा

34.10

रसाला सर्वदोषघ्नी रक्तपित्तनिबर्हणी ।
॥ अन्या शिखरिणी ॥
सन्मातुलिङ्गस्य दलं त्व् अगेलां सरंगपिप्पल्यी ससमं (?) सितया समेतम् ॥
व्योषाच् च गद्याणयुगप्रयुक्तं स्याद् वार्तकं (?) दृष्टिसमं सितवस्त्रबद्धम्

34.11

कर्पूरवासाच् च तथैव पश्चाद् युक्त्या च संमर्द्म कृता रसाला ।
एषा कृता शिखरिणी सुरसा रसाला सुषेणदेवेन रथाश्वहेतोः

34.12

आस्वादिता शिखरिणी परमेश्वरेण दोषांश् च सर्वान् विनिहन्ति वोग्रान् ।
पित्तास्ररक्ता (सृगुत्था)न् अपि हन्ति सर्वान् भोज्यानि सर्वाण्य् अपि जारयन्ति

34.13

॥ अमृतप्राशशिखरिणी ॥
नारङ्गं दाडिमं स्यात् पलमधुकयुतं मातुलुङ्गस्य तोयं
द्राक्षातोयं समांशं गुडदधिसहितं शर्कराजाजिमिश्रम् ।
(श्रेष्ठा पानेषु वृष्या सित) श्रेष्ठो पादे च वृष्यात् सम रिचयुता सैन्धवैर् वापितं तन्
निष्पीड्य सर्वम् एतत् कुरु (रचय) शिखरिणां राजयोग्या यतस् ताः

34.14

अन्यच् च ।
मातुलुङ्गसिताजाजीमरीचार्द्रकनागरैः ।
कर्पूरसहितैर् युक्त्या दधिपर्युषिताः समाः

34.15

रसं योगेषु सर्वेषु बदरस्य समस्य च ।
नागरं रससंमिश्रं रसालैषामृतोपमा

34.16

अच्छे पटे च संघृष्टा रक्तपित्तनिबर्हिणी ॥
॥ चन्द्रामृतस्राविणी नाम शिखरिणी ॥
मातुलिङ्गकपित्थाम्लतित्तिडीकाम्लदाडिमैः ।
शर्करासहितैर् युक्तं दधिपिष्टं शुचौ पटे

34.17

योजितं मरिचाजाजीचातुर्जातकभूस् तृणैः ।
भुक्ता चार्द्रकसंयुक्ता रसालामृतसंभवा

34.18

सर्वरोगप्रशमनी दाहपित्तनिबर्हणी ।
रक्तोद्रेकहरी पथ्या सर्ववातानुलोमनी

34.19

एषा शिखरिणी प्रोक्ता सुषेणेन विनिर्मिता ।
॥ अन्यच् च ॥
अग्र्या दधिगुडाजाजीनागरार्द्रकयोजिता

34.20

सुचतुर्जातघृष्टा च रसालैषामृतोपमा ।
सर्वकृच्छ्रप्रशमनी सर्वातीसारनाशनी

34.21

पित्तोद्रेकहरी पथ्या पित्तातीसारनाशनी ।
सुषेणदेवेन कृता रसाला ह्य् अमृतोपमा

मूल पाठ: Āyurvedamahodadhau annapānavidhi · Edition: S. Venkatasubrahmanya Sastri: Sushena's Ayurveda Mahodadhi-annapanavidhi, Madras 1950 (Madras Government Oriental Series, 60). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc