आयुर्वेदमहोदधौ अन्नपानविधि · अध्याय 33
इत्य् आयुर्वेदमहोदधौ सुषेणकृते फलवर्गः ॥
अथ शाकवगः ॥
फलं पर्थ्यागतं शाकम् आशुष्कं तरुणं नवम् ।
पत्रं पुष्पं फलं नालं कन्दं संस्वेदजं तथा
शाकं षड्विधम् उद्दिष्टं सर्वं विद्याद् यथोत्तरम् ।
सर्वशाकम् अजाह्येयमबकजूषम पैरुषम् [?]
अन्यत्रैव सुमध्यस्थकालशाकपुनर्नवा [?] ॥
अथ तण्डुलीयकगुणाः ॥
शीतो रूक्षो लघुरतितरां पित्तरक्तापहन्ता
स्वादुः पाके भवति च रसे स्वादुर् एवातिहृद्यः ।
हन्ति व्याधीन् विषमविषजान् श्लेष्मवातप्रकोपं
सद्यो मञ्जामयविघटनस् तण्डुलीयो ऽतिपथ्यः
रसे विपाके मधुरो ऽतिशीतो रूक्षस् तुषारः कफनाशनश् च ।
सदाहपित्तं रुधिरं विषं च विशेषतो हन्ति च तण्डुलीयः ॥
अथ वास्तुकचिल्लीशाकं ॥
वास्तुको ऽग्निकरो रसे च मधुरः पित्तापहश् चाक्षुषः
स्निग्धो वातविनाशनः कृमिहरः कुष्ठादिदोषापहः ।
[व] चर्चोमूत्रविशोधनः प्रमथनः श्लेष्मामयानां तथा
शाकानाम् अपि यो [चो]त्तमो लघुतरः पथ्यः सदा प्राणीनाम्
वास्तुकेषु च सर्वेषु शस्यते कठवास्तुकः ।
चिल्लिर् वास्तुकवज्ञेया ततो न्यूना च किंचन
सक्षारः क्रिमिजित् त्रिदोषशमनः संदीपनः पाचनः
चाक्षुष्यो मधुरः सरो रुचिकरो विष्टम्भिशूलापहः ।
वर्चोमूत्रविशोधनः स्वरकरः स्निग्धो विपाके कटुः
वास्तुकः सकलामयप्रशमनी चिल्ली तथैवोत्तमा
चिल्लिताकवला (भा-) ॥
अथ शिग्रुशाकं ॥
कफस्य वातस्य शमं करोति उष्णं च पित्तं कुरुते ऽग्निदीप्तिम् ।
हृद्यं क्रिमिघ्नं च सुरोचकं च आध्मानविड्बन्धविनाशनं च
[शिग्रुशाकं]
अथ राजका ॥
राजिका कफसमीरणहन्त्री रोचनाग्निजननी च विहृद्या ।
कंव हृद्यम् इव [कण्ठरुक्क्रिमिवि]नाशनकर्त्री उष्णवीर्यम् उपहन्ति च शूलम्
मद्गरीया [भा-] ॥
अथ शतपुष्पा ॥
शतपुष्पामवातघ्नी शूलगुल्मोदरापहा ।
दीपनी च विशेषेण किंचित् पित्तप्रकोपिनी
अथ कुस्तुम्बरी ॥
सुगन्धिर् वातपित्तघ्नी लघ्वी रुच्या ज्वरे हिता ।
व्यञ्जनालङ्कृतिः शीता सार्द्रा कुस्तुम्बरी स्मृता
अथ राजवल्ली ॥
बल्या वृष्या च कण्ठ्या कफपवनहरा स्यात् त्रिदोषे प्रशस्ता
लघ्वी मूत्रातिघातप्रशमनवमनी स्यात् तथा कृच्छ्रहन्त्री ।
पित्तोद्रेके च रक्ते विषमविषहरी दीपनी शाकश्रेष्ठा [वर्या]
पत्राणां राजवल्ली फलमरुलसलानाप्रवृद्धिं [?] करोति
अथ कुसुम्भी ॥
दृष्टिप्रसादं कुरुते विशेषाद् रुचिप्रदं दीप्तिकरं च वह्नेः ।
विण्मूत्रदोषापहरं मलघ्नं कौसुम्भशाकं प्रवरं वदन्ति
अथ सार्षपम् ॥
अत्युष्णवीर्य कुरुते ऽग्निदीप्तिं रक्तं सपित्तं त्व् अथ कण्ठरोगम् ।
अचाक्षुषं शुक्रकरं विदाहि न सार्षपं शाकम् इदं हि पथ्यम्
अथ वार्ताकम् ॥
॥ सदाशिवम् (?) ॥
सक्षारं कफपित्त (वात) हारि मलकृद्वह्नेस् तु संदीपनं
तिक्तोष्णं मधुरं तथा कटुरसं त्व् ईषच् च पित्तप्रदम् ।
हृद्यं वातविकिं न मद्यपथ्यम् अपि तत् द्रव्ये व सर्वे पुनः (?)
(हृद्यं रुच्यम् अपित्तलं कफम् अरुञ्जित्सर्वशाकोत्तमं)
वार्ताकं परिपूर्णजातसरसं बालं न पक्वं हितम्
।
वार्ताकं कफवातघ्नं किंचित् पित्तप्रकोपनम् ।
सरसं मूत्रलं प्रोक्तं बलकृद्बालम् एव तत्
लवणमरिचचूर्णेनादृतं रामठाढ्यं दहनवदनपक्वं जम्बुकान्तं नितान्तम् ।
हरति पवनमाद्यं श्लेष्महन्तृ प्रसिद्धं जठरभरणयोज्यं चारु भोज्यं भरीतम्
वृन्ताक भरित
अथ बिंबीफलम् ॥
बिम्बीफलं स्वादु शीतं स्तम्भेन लेप(ख)नं गुरु ।
पित्तास्रदाहशोफघ्नं वाताध्मानविबन्धकृत्
बिम्बीफलम् ॥
अथ फर्कोटीफलम् ॥
तिक्तं सुतीव्रं मधुरं तथाम्लं वातापहं पित्तविनाशनं च ।
श्लेष्माकरं चेतनपातनं (दीपनपाचनं) च कोटीभवं चाग्निकरं नराणाम्
कर्कोटिकाफलं गुल्मशूलपित्तकफापहम् ।
त्रिदोषमेहकुष्ठघ्नम् ईषन्मधुरतिक्तकम्
कासश्वासज्वरं हन्ति मारुतघ्नं परं लघु ॥
कंकोडा भा- ॥
अथ मूलकगुणाः ॥
किंचित् क्षारं सतिक्तं कटुकरसयुतं मूत्रलं दोषहारि
श्रेष्ठं गुल्मक्षये च प्रबलतरमहाश्वासकासामयेषु ।
कण्ठ्यं श्रेष्ठं स्वराणाम् अपहरति रुजं नेत्ररोगापहारि
स्याद् एवं बालमूलं महद् अपि च हितं स्निग्धपाकं (पक्वं) समीरे
॥ मूला भा- ॥
अथ सूरणः ॥
रुच्यो दीपनपाचनः क्रिमिहरो मन्दानलोद्दीपनो
हृद्यः श्लेष्मकरो लघुर् बलकरो दुर्नामनिर्नाशनः ।
अक्षाणाम् अपि पाटवं प्रकुरुते सश्वासकासापहश्
चाक्षुष्यो ऽपि च (सू) स् तरणः स्मृतिकरो हृत्पार्श्वशूलापहः ॥
सूरणः ॥
अथ भूकन्दः पिण्डालुश् च ॥
भूकन्दस् त्व् अतिवातलो बलकरः श्लेष्माणम् अत्यर्थकृत्
विष्टम्भी गुरुमेदसो ऽपि विषमो वातामयान् कारकः ।
मेहं कुष्ठरुजं करोति सततं तद् वातरक्तं हरेत्
पिण्डालुः कृमिकोष्ठकृच्छ्रम् अपहृत् पित्तामयध्वंसकः (योत्तेजनः)
॥ पिंडालुः ॥
अथार्द्रकं ॥
आर्द्रं दीपनपाचनं रुचिकरं वृष्यं कदुष्णं वरं
सर्वं मेदकरं कफामयहरं शोफापहं शूलजित् ।
जिह्वाकण्ठविशोधनं सलवणं पथ्यं सदा भोजने
निम्बूतोयविमर्दितं कफहरं संदीपनं सारणम्
निम्बुसामुद्रसंयुक्तम् आर्द्रकं त्व् अस्रपित्तनुत् ।
दीयनीयं रुचिकरं हृद्यं दोषत्रयापहम्
॥ आर्द्रकम् ॥
अथ कुमुदोत्पलपद्मकन्दगुणाः ॥
कुमुदोत्पलपद्मानां कन्दा मारुतकोपनाः ।
कषायाः पित्तशमनाः विपाके मधुरा हिमाः
हृद्याः कफहराः कन्दाः कटुकाः पित्तकोपनाः ।
मेहकुष्ठकृमिहरा वृष्या बल्या रसायनाः
कुमुदोत्पलपद्मानां कन्दा गुणकरा हिमाः ।
मधुराश् च कषायाश् च पित्तासृग्दाहनेरिताः (नाशनाः)
पद्मकन्दः ॥
अथ मृणालगुणाः ॥
शीतलं रक्तपित्तघ्नं दाहज्वरहरं परम् ।
मृणालनालं वृष्यं च तृष्णाछर्दिविनाशनम्
कमलनालः ॥
अथ शृङ्गाटकगुणाः ॥
शृङ्गाटकः शोणितपित्तहारी लघुः सरो वृष्यतमो विशेषात् ।
नृ (त्रि)दो(ष) तापत्रयशोषहन्ता रुचिप्रदो मेहनदाहहेतुः
अथ वारिकशेरुकगुणाः ॥
हन्त्य् अस्रपित्तमरुचिं वमिमोहदाहं तृष्णामदक्लमहरं मधुरं च शीतम् ।
कण्ठास्यशोषशमनं गुरु रक्तपित्ते क्षीणे च पथ्यमति वारिकशेरि (रु)कं स्यात्
अथ वर्जनीयकन्दकीर्तनं ॥
बालं ह्य् अनार्तवं जीर्णं विद्धं तु कृमिभक्षितम् ।
कन्दं च वर्जयेत् सर्वं यो वा सम्यङ् न रोहति
अथ कलिङ्गगुणाः ॥
सर्वदोषहरं हृद्यं पथ्यं रेतोविकारिणाम् ।
दृष्टिशुक्रक्षयकरं कलिङ्गं कफवातजित्
॥ कलिङ्गं ॥
अथ कूष्माण्डगुणाः ॥
वृष्यं वर्णकरं बलोपजननं पित्तापहं वातजित्*
मूत्राघातहरं प्रमेहशमनं कृच्छ्राश्मरीछेदनम् ।
विण्मूत्रग्लपनं (?) तृषार्तिशमनं क्षीणाङ्गपुष्टिप्रदं
कूष्माण्डं प्रवरं वदन्ति भिषजो वल्लीफलानां पुनः
मूत्रावरोधशमनो बहुमूत्रकारी कृच्छ्राश्मरीप्रशमनो विनिहन्ति पित्तम् ।
पथ्यः संशोणितसमूबल (सशोणितसमुल्बण) पित्ररोगे
तृष्णापहं त्रिषु शमन (समं त)म् उदाहरन्ति
अथोर्वारुकगुणाः ॥
ए (उ) र्वारुकं पित्तहरं शुशीतं मूत्रामयघ्नं रुचिकारकं च ।
सुस्वादु दाहोपशमं प्रशस्तं पित्ते च रोगे कफरोगवर्ज्यम्
वालुकानि च सर्वाणि दुर्जराणि गूजणि (गुरूणि) च ।
मन्दाग्निं च प्रकुर्वन्ति रक्तपित्तकराणि च
वालुक भा- ॥
अथ सिन्धणी ॥
सिंधणी वातशमनी वृष्या मधुरशीतला ।
रक्तपित्ते च दाहे च पित्तार्तीनां प्रशस्यते
सिन्धणी भा- ॥
अथ चिल्लीकाकमाचीप्रभृतीनां गुणाः ॥
चिप्ली (ल्ली) वास्तुकवद् हृघ्ना (द्या) संग्राही गुरुवातला ।
काकमाची त्रिदोषघ्नी चाङ्गेरी कफवातहृत्
वातहृद् दीपनी पंजी भारंगी नालिचाष्टकौ (?) ।
मधुरौ कफपित्तघ्नौ कौसुम्भं सर्वरोगहृत्
मूलकं दोषकृच् चामं पक्वं वातकफापहम् ।
राजिका पित्तला वातकफघ्नस् तण्डुलीयकः
चर्षाभूर् वातपित्तघ्नी सिद्धार्थः कफवातहृत् ।
कृमिपित्तकफध्वंसी दीपनः कासमर्दकः
कर्कोटकं सवार्ताकां पटोलं कारवेल्लकम् ।
अष्ट (कुष्ठ) मेहज्वरश्वासकासमेदःकफापहम्
सर्वदोषहरं ज्ञेयं कूष्माण्डं बस्तिशोधनम् ।
राजकोशातकीतुम्बीफलम् अत्युग्रपित्तहृत्
त्रपुसं वातलं वातश्लेष्मलं पित्तनाशनम् ।
कालिङ्गं तुच्छकं वातपित्तहृच् च कशेरुकम्
अथ शाकसंस्कारकद्रव्यनिरूपणम् ॥
शुंबी (शुण्ठी) मरीचपिप्पल्यः कफवातहरा मताः ।
गुल्मशूलविबन्धघ्नो हिङ्गुर् वातकफापहः
पचानी (यवानी) धान्यकं जीवं (बीजं) वातपित्तकफापहम् ।
सौवर्चनं (लं) विबन्धघ्नं सैन्धवं च त्रिदोषहृत्
एतैस् तु संस्रुतं पक्वं भृष्टं व्यञ्जनसौरभम् ।
पेयादिकं च कम्पादीन् सर्वदोषान् व्यपोहति
मूल पाठ: Āyurvedamahodadhau annapānavidhi · Edition: S. Venkatasubrahmanya Sastri: Sushena's Ayurveda Mahodadhi-annapanavidhi, Madras 1950 (Madras Government Oriental Series, 60). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0