भाषा

ENहिગુ
ग्रंथ पाठ

आयुर्वेदमहोदधौ अन्नपानविधि · अध्याय 32

32.1

इति द्राक्षा ॥
अथ मातुलिङ्गगुणाः ॥
चकृ (त्वक्) तिक्ता कटुका कफक्रिमिहरा स्निग्धानिलध्वंसिनी
मांसं बृंहणवातपित्तशमनं वृष्यं महादुर्जरम् ।
अम्लं केसरम् अग्निवृद्धिजननं सश्वासकासापहं
हिध्माच्छर्दितृषास्यजाड्यहरणं तन् मातुलिङ्गोद्भवम्

32.10

तिक्ता स्निग्धा भवति कटुका मातुलिंगस्य सा त्वक्
मध्यं स्निग्धं च (हरति) मधुरं बृंहणं वातपित्ते ।
मांसं भिन्नं (स्निग्धं) भवति लघु तत् केसरं कासहिध्मा-
श्वासश्लेष्मानिल जठरजिद् गुल्मशूल्मा (ला) निलघ्नम्

32.11

सिन्धू (त्थे) च्छेन घनागमे (च) वसितया काले शरत्संज्ञके
हेमन्ते लवणार्द्रहिङ्गुमरिचैः सिद्धार्थचूर्णान्वितम् ।
एतैस् तैः शिशिरे मधाव् अपि युतं ग्रीष्मे गुडेनान्वितं
वैद्यैर् भूमिप सालु (मातु) लिंगम् उदितं सर्वर्तुसाधारणम्

32.12

अथ जम्बीरम् ॥
जम्बीरम् अम्लं रसतो विपाके वातापहं पित्तकफप्रदं च ।
अन्नस्य पार्वन्व (कं त्व) चिरेण कुर्यात् सुरोचनं वह्निविवर्धनं च

32.13

कटुकमधुरम् अम्लं सुप्रतीतं रसेषु रुचिकरम् उदराग्नेर् दीपनं वातहारि ।
निहत (हरति) कफसमीरौ पित्तम् आहन्ति वीर्यं करणफलम् इतीदं वातपित्तं विपक्वम्

32.14

(करणम् अपि न हृद्यं रक्तपित्तं तनोति ।)
निम्बूफलं रोचकम् अग्निवृद्धिं करोति पित्तं च सवातरक्तम् ।
अचाक्षुषं श्लेष्मकरं विशेषात् भुक्तान्नपाकं कुरुते च सद्यः

32.15

निम्बुकं क्रिमिसमूहनाशनं तीक्ष्णम् अम्लमुदरापहं स्मृतम् ।
वातपित्तकफशूलताहितं नष्टधान्यरुचिरोचकप्रदम्

32.16

अथ नारङ्गफलम् ॥
नारङ्गस्य फलं बलं च कुरुते सुस्वादु हृद्यं लघु
श्रेष्ठं वह्निकरं विदाहशमनं भुक्तान्नपक्तिप्रदम् ।
सर्वारोचकनाशनं श्रमहरं वातापहं पुष्टिदं
भुक्त्वापि प्रतिभक्षितं न कुरुते किंचिद् विकारं नृणाम्

32.17

ईषद्रसे मधुरशीतलम् अम्लतिक्तं वीर्योद्गमाच् छमनदीपनपाचनं च
आर्वेदयति (?) कफपित्तहरं विपाके नारङ्गकं फलम् उदारधियो मुनीन्द्राः

32.18

अथ मधुकर्कटी ॥
सुस्वादु पाके रसतश् च रक्तपित्तप्रकोपं विलयन्ति मान्द्ये (?) ।
दाहज्वरं नाशयतीति नित्यं प्राहुश् च वैद्या मधुकर्कटी च

32.19

अथ मोचाफलम् ॥
मोचं स्वादुरसं विपाकमधुरं वीर्येण शीतं जडं
पित्तघ्नं त्व् अनिलापहं गुरुतरं पथ्यं न मन्दे ऽनले ।
सद्यो भुक्तविवर्धनं क्लमहरं तृष्णापहं शान्तिदं
दीप्ताग्नेः सुखदं कफामयहरं संतर्पणं प्राणिनाम्

32.20

अथ नालिकेरीफलम् ॥
स्निग्धं स्वादुरसं विपाकमधुरं हृद्यं जरं(ड) दुर्जरं
पित्तघ्नं क्रिमिवर्धनं मदकरं वातामयध्वंसनम् ।
आमश्लेष्मविकोपनं प्रशमनं वह्नेर् भ्रमध्वंसनं
कन्दर्पस्य बलं ददाति नितरां तन् नालिकेरीफलम्
नालिकेरोदकम् ॥
सुस्वादुवृष्यलघुदीपनरूक्षशीतं तद्वातपित्तहरवस्तिविशुद्धिहेतुः ।
स्यान् नारिकेलसलिलं शशिकान्ति पथ्यं पित्तज्वरस्य विषहारि वदन्ति वैद्याः

32.21

अथ भव्यफलम् ॥
भव्यं भव्यतरं स्वादु किञ्चिद् अम्लं सुरोचनम् ।
वातघ्नं सुखवैरस्यनाशनं वह्निदीपनम्

32.22

अथ आमलकीफलम ॥
करमर (?) हन्ति (वातं तद् अम्लत्वात्) वातदम्लं चात्पित्तं माधुर्यशैत्य् अतः ।
कफं रुक्षकपायं (यत्वात् फलं धात्र्यास् त्रिदोषजित्)

32.23

{च्f. भावमिश्र: भावप्रकाशः 41}
.................. तथा
किंचित् स्वादुरसं विपाकमधुरं दोषत्रयध्वंसनम् ।
मूत्रव्याधिहरं प्रमेहशमनं विष्टम्भविच्छेदनम्
भुक्ताभूक्तहितं सदामृतरसं पथ्यं च धात्रीफलम्

32.24

रूक्षं स्वादु कषायम् अम्लकटुकं स्निग्धं सुसे (?) रोचनं
चक्षुष्यं बलवर्णदं धृतिकरं वृष्यं च बुद्धिप्रदम् ।
कण्डूकुष्ठविनाशनं ज्वरहरं तृड्दाहतापापहं
जातं किंबहुना त्रिदोषशमनं धात्रीफलं प्राणिनाम्

32.25

त्रिधाफले (धात्रीफलं) दिनं (तद्विनि) हन्ति मेहान् अरोचकादीन् विविधान् विकारान् ।
अम्लं च (म्लत्व) माधुर्यकषायतः क्रमात् दोषत्रयघ्नं लघु शीतवीर्यम्

32.26

प्राचीनामलकफलम् ॥
पानी य (?) मलकं (प्राचीनामलकं) वृष्यं स्वादु हृद्यं कफापहम् ।
शीतलं वृष(ष्य)म् आयुष्यं दाहज्वरहरं परम्

32.27

अथ आम्रफलम् ॥
बालं पित्तकफास्रवातजननं बधा (द्धा)स्थि तादृग्विधं
पक्वं स्वादुरसं त्रिदोषशमनं क्षीणाङ्गपुष्टिप्रदम् ।
धातोर् वृद्धिकरं विपाकमधुरं संतर्पणं कान्तिदं
तृष्णाशोषनिवारणं रुचिकरं आप्लं (म्रं) फलेषूत्तमम्

32.28

सन्तर्पणीयः सकलेन्द्रियाणां बलप्रदो वृष्यतमश् च हृद्यः ।
स्त्रीषु प्रहर्षं विपुलं ददाति फलाधिराजः सहकार एव

32.29

आम्रं पाकस्य काले मधुरम् इह रसेनेषद् अम्लं च हृद्यं
रेतोवृद्धिं विधत्ते शमयति पवनं पाचनं दीपनं च ।
आनन्दं संदधाति प्रतिदिशति बलं वीर्यतः सुश्रुताद्याः
विख्याताः सर्वलोके ह्य् अतिजनितकफं दुर्जरं कीर्तयन्ति

32.30

यत् कामिन्यधरोवृषं (ष्ठसं)भृतम् इति ख्यातं विशिष्टैर् बुद्धैः
यद् दैत्यप्रमुखैः प्रयत्ननिरतैः कृष्टं सुरैः सागरात् ।
यन् नानारुचिभिः स्वभावसदृशं ख्यातं च मिथ्यैव तत्
पीयूषं विधिनाथ संशयहरं सृष्टं रसालात्मकम्

32.31

अथ कपित्थफलम् ॥
आमं कण्ठहरं कपित्थम् अधिकं जिह्वाजडत्वप्रदं
तद् दोषत्रयकोपनं विषहरं संग्राहकं रोचकम् ।
पक्वं श्वासवमिक्लमश्रमतृषाहिध्मापनोदक्षमं
सर्वं ग्राहि विषापहं च कथितं सेव्यं ततः सर्वदा

32.32

फणास (भा-) ॥
दुर्जरो मधुराम्लश् च वातपित्तप्रणाशनः ।
वातपित्तहरश् चैव गुरुर् मन्दाग्निकारकः

32.33

मधुरा बृंहणी वृष्या पित्तला त्वक् त्रुटिप्रदा ।
पित्तघ्नी स्वादुहृद्या च मञ्जेत्य् आहुर् गुणोत्तमाः

32.34

कषायमधुरो रूक्षः कटुकः श्लेष्मकारकः ।
संग्राहिदुर्जरो जिह्वाग्राह्यकारी जडो गरुः

32.65

टेंबरु (भा-) ॥
अथ करमर्दगुणाः ॥
करमर्दो ऽतिमधुरः सुपक्वो ऽम्लरसस् तथा ।
वातपित्तप्रशमनः श्लेष्मक्रिमिविनाशनः

32.36

करवेदं (भा-) ॥
अथ चिञ्चागुणाः ॥
अम्लिकायाः फलं पक्वं रक्तपित्तकरं परम् ।
त्वग्भस्म स्यात् कषायोष्ण कफजन्त्व् अनिलापहम्

32.37

चिंचा ॥
अथ भल्लातकगुणाः ॥
भल्लातकस्य त्वग्मांसं बृंहणं स्वादु शीतलम् ।
तद् अस्थ्यग्निसमं मेध्यं कफवातहरं परम्

32.38

बिंबदाम् (भा-) ॥
अथ खर्जूरम् ॥
खर्जूरो रक्तपित्तं शमयति मधुरः स्वादुपाको ऽतिशीतः
तृष्णाशोषापहर्ता विषममदरुजाश्वासहिध्मापनोदी ।
स्निग्धो वृष्यो बलासं जनयति नितरां वह्निमान्द्यं विधत्ते
कान्तिं वै पुष्टियुत्त्या वपुषि समधिकं मूत्रकृच्छ्रं निहन्ति

32.39

पिण्डखर्जूरमध्यं च तादृग् एव निगद्यते ।
विशेषाद् ऊर्ध्वगे रक्ते दाहे पित्ते च शस्यते

32.40

अथ सिंदीफलम् ॥
सिन्दोलं कफवातपित्तशमनं रक्तातिसारापहं
यामाकृष्ट (पामाकुष्ठ) भगन्दरामशमनं तीव्राश्मरीछेदनम् ।
हृद्रोगेषु हितं सदा बलकरं कामाग्निसंदीपनं
कासे क्षीणविरेचने ज्वरगते (दे) शस्तं च सिन्दीफलम्

32.41

अथ सुवर्णकदलीफलम् ॥
सुवर्णमोचा कफपित्त [वात] हारिणी विष्टम्भिनी दीपनकारिणी च ।
स्तदुर्जरं [सुदुजरा] दाहविधातनं [तिनी] च
रक्तं सपित्तं प्रशमं च [शमयेत] निश्चितम्

32.49

उतती (भा-) ॥
ईषत्कषाया मधुरा वातपित्तनिबर्हणी ।
बल्या वृष्या च हृद्या च विशेषाद् उतती गुरुः

32.43

अथ पिप्पलफलं ॥
अश्ववत्थवृक्षस्य फलानि पथ्यान्य् अतीव हृद्यानि सुशीतलानि ।
निघ्नन्ति पित्तं सह शोणितेन दाहं तृषां छर्दिम् अरोचकं च

32.44

[कुर्वन्ति पित्तास्रविषार्तिदाहतृट्छर्दिशोपारुचिदोषनाशं)
उदुंबरफलम् ॥
औदुम्बरं फलम् अतीव सुशीतलं च सद्यो निवारयति शोणितपित्तम् उग्रम्

32.45

अथ उम्बीफलम् ॥
मूत्रावरोधं कुरुते ऽतितीव्रं विशेषतो रक्तसमीरणं च ॥
अथ राजकोशातकीफलम् ॥
सुराजकोशातकि पित्तघाति महागदे शोषमदात्यये च ।
श्रमक्लमे मेहभगन्दरे च व्रणेषु पित्तेष्व् अपि नित्यपथ्यम्

32.46

अथ सिराकोशातकीफलम् ॥
सिराकोशातकी पित्तहरी क्षुत्तृड्विनाशनी ।
मेहे हिता सदोष्णापि पित्तच्छर्दिविनाशनी

मूल पाठ: Āyurvedamahodadhau annapānavidhi · Edition: S. Venkatasubrahmanya Sastri: Sushena's Ayurveda Mahodadhi-annapanavidhi, Madras 1950 (Madras Government Oriental Series, 60). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc