भाषा

ENहिગુ
ग्रंथ पाठ

आयुर्वेदमहोदधौ अन्नपानविधि · अध्याय 31

31.1

तण्डुलपीढ (भा-) ॥
॥ इत्य् आयुर्वेदमहोदधौ सुषेणकृते कृतान्नवर्गः ॥
॥ अथ फलानां गुणाः कथ्यन्ते ॥
तत्रादौ दाडिमस्य गुणाः ॥
त्रिदोषशमनं पथ्यं वृष्यं मधुरशीतलम् ।
छर्द्यरोचकतृष्णाघ्नं शोफपित्तज्वरापहम्

31.2

दाहशिक्तस्त (पित्तप्र)शमनं सर्वरोगविनाशनम् ।
बलवर्णकरं हृद्यं सुपक्वं दाडिनीफलम्

31.3

अत्यम्लं मधुरं कषायगुणभृद्विद्वद्भिर् उक्तं रसे
वीर्ये संशमनं समीरणहरं पित्तापहं दीपनम् ।
किंचित् संग्रहणं कफस्य हरणं प्रायो ऽपि पाके पुनः
प्रख्यातं रसवीर्यपाकविभवैर् एवं गुणं दाडिमम्

31.4

दाडिमं द्विविधम् ईडितभार्यैर् अम्लम् एकम् अपरं मदुरं च ।
तत्र वातकफहारि किलाम्लं तापहारि मधुरं लघु पथ्यम्

31.5

दाडिमं मधुरम् अम्लकषायं कासवातकफपित्तविनाशि ।
ग्राहि दीपनकरं च लघूष्णं शीतलं भ्रमहर रुचिदायि

31.6

इति दाडिमम् ॥
अथ द्राक्षागुणाः ॥
चक्षुष्या रक्तपित्तं शमयति मधुरा शीतवीर्या विपाके
स्वादुः स्निग्धा कषाया गुरुरति च तृषाशोषदोषापहन्त्री ।
द्राक्षा क्षीणरु (क्ष)तानाम् अपहरति वमीश्वासकासज्वरार्तीस्
तिक्तास्यत्वं मदं च प्रवरतरफलेषूत्तमा संप्रदिष्टा

31.7

।
सुपक्वा ॥
द्राक्षा सैव नु धातुवृद्धिजननी संतर्पणी दोषहत्
तृष्णार्तिच्यवनी समीरशमनी छर्द्यामयध्वंसिनी ।
पाके ऽअम्ला सुरसा रसे च मधुरा (शीता) शान्ता च वीर्येण सा
सा पक्वा विहिता ज्वरे च कफजे विण्मूत्रसंशोधनी

31.8

शीता पितास्त(स्र) दोषं शमयति मधुरा स्वादुपाकादि (ति) रुच्या
चक्षुष्या श्वासकासश्रमवमित्र (श)मनी शोषतृष्णाज्वरघ्नी ॥
दाहाध्मानश्रमादीन् अपनयति परा तर्पणी पक्वशुष्का
द्राक्षा सुक्षीणवीर्यान् अपि मदनकरा कोला (कलाकेलि) दक्षान् विधत्ते

मूल पाठ: Āyurvedamahodadhau annapānavidhi · Edition: S. Venkatasubrahmanya Sastri: Sushena's Ayurveda Mahodadhi-annapanavidhi, Madras 1950 (Madras Government Oriental Series, 60). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc