आयुर्वेदमहोदधौ अन्नपानविधि · अध्याय 30
॥ इति धान्यवर्गः ॥
॥ शुभं भवतु लेखकवाचकयोः ॥ श्रीसाम्बसदाशिवाय नमः ॥
॥ श्रीर् अस्तु ॥
अथ पक्वान्नगुणाः ॥
गोधूमफेणिका ।
सलघुरुचिरकामा फेणिकातिप्रशस्ता बलयति लघुजीरा छर्दिनाशं करोति ।
बदलविमुखमर्धं [?] चाम्लपित्ते विदाहं जठरभरणयोग्या गोधूमैः संप्रयुक्ता
फेणिया ॥
गुरवो बृंहणाः स्निग्धा बल्याः शुक्रकराः पराः ।
स्त्रीषु हर्षं प्रयच्छन्ति माषपिष्टिकसंभवाः
गोधूमासांजीलाहुः [डुः] ॥
तोयाज्येन विमर्दितं समसितं कृत्वा सुतप्तं तथा
खण्डाज्येन पचेद् धुताशनमृदौ कृत्वा सुबन्धं ततः ।
कर्पूरैर् मरिचैः ससैन्धवमथो शश्वच्चतुर्जातकैः
पुष्पालम्बम् इति ब्रुवन्ति मुनयो नाम्ना महामोदकम्
वृष्यास् तु कन्दर्पकरा यथाग्नि संवर्धिताः प्रीतिरुचिप्रदायकाः ।
वातं सपित्तं प्रहरन्ति भुक्ताः सन्मोदका मोदकरा नराणाम्
मोदको गुरुर् अतीव वृष्यकः श्लेष्मलश् चिरविपाकतस् तथा ।
मन्दम् अग्नि जनयेच् च कोष्टभृख (?) मोदको ऽधिकबलप्रदः सदा
अमृतफलम् ॥
शमयति बहु पित्तं श्लेष्मकोपं करोति जनयति जठराग्निं वातरोगान् निहन्ति ।
सुरतजनितखेदं तत्क्षणाद् एव हन्याद् अमृतफलम् उदारं चारु शंसन्ति खे (वै)द्याः
शमयत्य् अर्शःकृच्छ्रान् हरति सवातं तथा पित्तम्
कापूरपडीया ॥
रुच्या बल्या बलमलकरा हृद्यगन्धा स्थिरा च
तेजो वर्णं वपुषि कुरुते शुक्रवृद्धिं करोति ।
मेदोवृद्धिं जनयति तरां पित्तरोगे प्रशस्तं
सर्पिःपक्वागुरुमधुयुता एलया सप्रयुक्ता
कर्पूराद्या विदलनकरा राजयक्ष्मापहन्त्री
विश्वस्यैषा हितकरतमल्कादिनी (?) भक्षणीया ॥
घारिकिंडुरिकापूपवटिका वटकादयः ।
वृष्यका रोचका बल्या गुरवः स्युः स्वयोनिवत्
इन्द्रारिका ॥
इन्द्रारिका ॥
वृष्या रोचनदीपनी बलकरी गुर्वी अभिष्यन्दिनी
प्राणैस् तर्पणकारिणी रसवती श्लेष्माणमाबिभ्रती ।
सावा (मा)नाहविबन्धगुल्मशमनी पित्तास्रविच्छेदिनी ।
स्नेहेनापि सुपूरिता च सततं (भक्ष्ये) क्ष क्षेयम् इन्द्रारिका ॥
धृतपूरम् ॥
धृतपूरं बलकरं वृष्यं मधुरशीतलम् ।
हन्ति वातं रक्तपित्तं श्लेष्मलं च विशेषतः ॥
साडिया (भा-) ॥
क्षारखर्जूरिका स्निग्धा शुक्रमांसबलप्रदा ।
बल्या रतिकरा हृद्या छर्द्यरोचकनाशनी ॥
॥ क्षीरवाटिका ॥
सुस्निग्धा वटिका च दुग्धमृदिता कान्त्यै च सौख्यप्रदा
तृष्णाशक्तिकरी श्रमप्रशमनी मन्दाग्नये दुर्जरा ॥
पित्तास्रं च विनाशयेत् तु सततं भक्ष्या सुपुष्टिप्रदा
प्रोक्तेयं वटिका घृतप्लुतकृता कामाग्निसंदीपनी
तैलपक्वक्षीरवटिका ॥
सुस्निग्धा क्षीरवटकाः कान्तिसौख्यबलप्रदाः ।
वातघ्नास् तैलपक्वास् ते वटका मांससंभवाः
मुद्गवटकाः । (भा-)
मूद्गजातास् तु ये केचित् लघवो रुचिकारकाः ।
चणकादिकृताः ।
दुर्जरा लघवो रूक्षाः चणकादिकृता मताः
काञ्जीकवटकाः ॥
काञ्जिके रुचिनिक्षिप्ता वटका मांससंभवाः ।
वातघ्ना रोचका हृद्याः कफपित्तप्रकोपनाः
राजिकाचूर्णसंस्कृतः ।
राजीचूर्णे विमिश्रः कफपवनहरो रोचनो दीपनः स्यान्
मन्दाग्निध्वंसकर्त्ता मलविषशमनो जारयेत् सर्वन्नम् ।
किं वा तोयैर् विमिश्रो गुडलवणयुतः पित्तरक्तादिहन्ता
तृष्णामूर्छालि [भि]घातज्वरपवनहरः क्षुद्ररोगस्य हन्ता
तक्रं कोमलशृङ्गबेरकलिकाकुस्तुंबुरीसंयुतं
युक्त्यावर्तितम् अर्धशोषम् अपरं भाण्डे सुधूपावृते ।
हवा [?] तक्रमनोहराश् च वटकास् तेषां रुचिं मार्दवं
स्वादं सौरभभम् उद्वहन्त्य् अहरहः तान् वेत्ति विश्वम्भरा ॥ 18 ।
अम्लवटकः ॥
अजाजीबाह्लीकार्द्रकमरिचसिन्धूत्थभरितः
सुपाकः स्वादीयान् दधिमथिततालीविरचितः ।
कृतैलासंवासः क्वथितमथिते स्वैर् अमुषितः
विहन्तासौ साक्षाद् अरुचितरुजाम् अम्लवटकः
वटकप्रकाराः ।
कूष्माण्डार्धमरीचे सिन्धूत्थमेथिकासहितैः ।
पिष्टैर् माषदलोत्थैर् विहिता वटकाश् च वटिकाश् च
कोहलवडाः (भा-) ॥
गोधूममण्डकाः ॥
श्लक्ष्णं गोधूमचूर्णं शरपिहितमुखं स्वादुतोयेन सिक्तं
संमर्द्यं सुन्दरीभिर् धनपरिलुलितं गोलकं सूक्ष्मपिष्टैः ।
अन्तः पात्रे सुतप्ते करयुगरचिता मण्डकाः श्वेतदीर्घा
निक्षिप्ता भाजनेषु चिमिचिमिरमिताः पुष्टयन्तः सुसिद्धा
ते भोज्या भक्तयुक्त्या परिवृतसहिता मुद्गयूषे विमिश्रा
आढक्यैर् वा मसूरैः घृतपिशितरसैर् जांगलानूपमांसैः ।
काले वासन्तपूर्वे प्रहरयुगमुखे भोजनं नित्यपथ्यं
गत्रौ क्षीराज्ययुक्ता सलिल (ललित) नरपतेर् भोजनं ग्रीष्मकाले
गोधूममण्डका रुच्या लघवश् चोष्णदीपनाः ।
माण्डेपातिया (भा-) ॥
मण्डका मण्डिकाश् चैव पथ्या अंगारपाचिताः
अत्युष्णा मण्डका पथ्या अतिशीता गुरुः स्मृता ।
कुकूलकर्परभ्राष्ट्रकन्द्वाङ्गरे विपाचितान्
(एकयोर् नील्लधून् विद्याद् अपूपान् उत्तरोत्तरम्)
रक्तघ्ना पित्तकोपि च स्वादुर् मारुतनाशिनी (?) ।
वृष्णी दीपनी वृष्या गोधूमांगारपाचिता (?)
अथ वटकादिभक्ष्याणां गुणाः ॥
बाह्लीजैर् मारिचैर् लवणपूडु (लालवणपृथु) तरैर् आर्द्रकैः पूर्णगर्भः
स्विन्नः श्वादुः सुगन्धिः परिमलबहुलः कोमलः कुङ्कुमाभः ।
क्षिप्तो दन्तान्तराले मुरुमुरु कुरुते व्यक्तशब्दं यथा वा
धन्यो ऽसौ यत् कपोले प्रविशति वटकः कान्तया प्रीतिदत्तः
कोरवडा (भा-) ॥
दधिवटकाः ॥
शालिपिष्टदधिखण्डसंयुता दध्न एव वटकेषु कीर्तिताः ।
घोरवातशमना रुचिप्रदाः पित्तम् अप्य् अपहरन्ति दारुणम्
चणकादिकृताः ।
दुर्जरं चणकादीनां वह्निमान्द्यकरं परम् ।
लघु रुच्याग्निजननं दद्यान् माषादिपूरणम्
मधुरं मधुराम्लं तत् तद् एव प्रकरोति च ।
कफप्रकोपजननं चाणक्यं पूरणं स्मृतम्
वेङ्गणी (भा-) ॥
गोधूमचूर्णधनवेष्टितमाषमुद्गपिष्टं सुपक्वम् इति वेष्टनिका वदन्ति ।
तां भक्षयेद् अतिबलां लभते (रमते) मनुष्यस् तैलेन वा सह घृतेन सुगन्धिना वा
तावद् वर्गो ऽत्र भक्ष्याणो (णां) स्वदते साध्यते ऽपि च ।
उष्णोष्णाः सर्पिषा स्नाता यावच् चाङ्गारपाचिताः
गुडगोधूमयोर् मिश्रं तैलपक्वान्नभक्षणम् ।
करोति श्लेष्मपित्तं च मारुतं चापकर्षति
तैलवडिया (भा-) ॥
लघवः पर्य (र्प)टा रुच्याः कफघ्नाः शालिसंभवाः ।
गुरवो रोचकाश् चैव शालिमुद्गादिसंभवाः
शालिमुद्गपापड (भा-) ॥
विष्टम्भी पायसो बल्यो मेदःकफकरो गुरुः ।
कफपित्तकरी बल्या कृशरानिलनाशिनी
तैले विपक्वा वटिकाश् च शालिभिः सुदुर्जरा रोचनभक्षणाश् च ।
कफप्रकोपं जनयन्ति सद्यो विशेषतः कूरवडा विशीर्णाः
कूरवडाः (भा-) ॥
सक्तवो बृंहणा वृष्याः तृष्णापित्तकफापहाः ।
रुच्याः सद्यो बलकरा भेदिनः पवनापहाः
सातु (भा-) ॥
संधानकृत्पिष्टम् अन्नं तण्डुलाः कृमिहेतवः ।
सुदुर्जरःस्वादुरसो बृंहणस् तण्डुलोद्भवः
मूल पाठ: Āyurvedamahodadhau annapānavidhi · Edition: S. Venkatasubrahmanya Sastri: Sushena's Ayurveda Mahodadhi-annapanavidhi, Madras 1950 (Madras Government Oriental Series, 60). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0