ग्रंथ पाठ
आयुर्वेदमहोदधौ अन्नपानविधि · अध्याय 29
29.1
इति श्वेतचणकाः ॥
श्यामाकाः कोद्रवा ये ऽन्ये ये चान्ये ऽनु च शिम्बिकाः ।
अपथ्यास् ते न शंसन्ति [शस्यन्ते] सुखिनां निरुजां तथा
29.2
यद् यज् जीर्यत्य् अतिक्षिप्रं तत् तल् लघुतरं स्मृतम् ।
यवगोधूममाषाश् च तिलाश् चापि नवा हिताः
मूल पाठ: Āyurvedamahodadhau annapānavidhi · Edition: S. Venkatasubrahmanya Sastri: Sushena's Ayurveda Mahodadhi-annapanavidhi, Madras 1950 (Madras Government Oriental Series, 60). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0