आयुर्वेदमहोदधौ अन्नपानविधि · अध्याय 2
इत्य् आयुर् वेदमहोदधौ श्रीसुषेणकृतौ पानीयगुणाः समाप्ताः ॥
अथ काष्ठतप्तोदकवर्गः ।
गन्धर्वहस्तकाष्ठैश् च तप्तं वारि प्रपूजितम्
अलक्ष्मीरक्तपित्तघ्नं दोषाणां च प्रसादनम्
भल्लातकैश् च काष्ठैश् च तप्तं वारि शुभोदकम् ।
वातश्लेष्महरं पथ्यं वीर्यतेजोविवर्धनम्
पालाशोदुम्बरोद्भूतकाष्ठतप्तं शुभं जलम् ।
व्रणकण्डूहरं चासृक्बलवीर्यविवर्धनम्
जम्बूकपित्थाम्रजैः काष्ठैः तप्तं वारि तडागजम् ।
मेधाबलप्रदं वीर्यकृमिदोषविनाशनम्
दुम्बरीकाष्ठजैस् तोयं ताप्यं वापीसमुद्भवम् ।
कफहृत् तच् च निर्दिष्टं दोषाणां च विनाशनम्
काष्ठैः खदिरजैस् तप्तं रक्तपित्तविनाशनम् ।
आप्यायनकरं ग्रीष्मे श्रेष्ठम् उक्तम् इदं जलम्
कदम्बनिम्बजैस् तप्तं सरित्समुद्रजं जलम् ।
पथ्यं दोषहरं कण्डूरक्तपित्तविनाशनम्
धात्रीदारुशृतं तप्तं मलक्षालनयोदकम् ।
वातपित्तहरं श्रेष्ठं रसायनकरं परम्
पुष्करस्स (मधुकस्य) च काष्ठैश् च तप्तं कूपोद्भवोदकम् ।
वातपित्तहरं श्रेष्ठं रसायनकरं परम्
(ग्रहणीपाण्डुहृत्कासश्वासहृत्परमं हितं ।)
कर्पूर (कर्कन्धु) दारुसंभूततप्तम् उष्णोदकं शुभम् (नादेयम् उदकोत्तमम् ।)
जठराग्नेश् च सदनं सुश्रुतेन प्रदर्शितम्
सल्लकीशाकनिर्यासकाष्ठैश् चापि पृथक् पृथक् ।
तप्तं निर्झरजं वारि नामयान् जनयेद् वरम् (रोगान् संजनदेद् बहून्)
वटैश् चार्जुनकाष्ठैश् च संततं तापितं जलम् ।
बलमेधाप्रजननं (आ) मैत्रेयेण प्रदर्शितम्
तर्कारी वातहंत्री च कण्डूत्वग्दोषवर्धनम् ।
वनो (नवो)दकं सुसंतप्तं मलानां क्षालने हितम्
मूल पाठ: Āyurvedamahodadhau annapānavidhi · Edition: S. Venkatasubrahmanya Sastri: Sushena's Ayurveda Mahodadhi-annapanavidhi, Madras 1950 (Madras Government Oriental Series, 60). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0