भाषा

ENहिગુ
ग्रंथ पाठ

आयुर्वेदमहोदधौ अन्नपानविधि · अध्याय 3

3.1

॥ इति काष्ठतप्तोदकवर्गः ॥
अथ भाजनभदेन गुणाविशेषाः ।
हेमपात्रे च सुस्वादु विपाके शीतलं मधु ।
त्रिदोषशमनं वीर्यबलमेधाकरं शुभम्

3.2

त्रपुपात्रोदकं यच् च पिच्छलं मधुरं रसे ।
वीर्ये कफप्रदं चाग्निशकृन्मारुतवर्धनम्

3.3

घोषपात्रे यद् उदकं विपाके कटुकं गुरु
पित्तश्लेष्मप्रदं वृद्धे यथाकालं बलाय च (वृद्धौ व्यथाकालानुरूपितम्)

3.4

धारापातपयःपानं घ्राणोपरि सुशीतलम्
श्वसेबनान्नपतयो (आसेचनं च नयने) त्रिदोषशमनं हितम्

3.5

ताम्रभाजनके वारि सोष्णं स्वादे सकृत्कटु ।
पित्तानिलप्रदं वृद्धे शकृन्मारुतनाशनम् (कोपनम्)

3.6

रीतिकापचितं तोयं कटु श्लेष्मविनाशनम् ।
पित्तलं सकटूष्णं च मेहरोगविवर्धनम्

3.7

लोहभाजनसंस्थं च पयः पानं च दूषितम् ।
रक्तपित्तह(क)रं कण्डूत्रिदोषशमनं परम् (मददोषाग्निकारकम्)

3.8

लोहभाजनसंतप्तं कण्डूमन्दाग्निकारकम् ।
मलानां रेचने चोक्तम् आशयक्षालने हितम्

3.9

मधूदुम्बरपात्रेण तापितं चोदकोत्तमम् ।
वपुः कान्तिप्रदं पित्ते (प्रोक्तं) वह्निमान्द्यकरं सकृत् (च तत्)

3.10

भाजने मृन्मये तप्तं मलानां क्षालने हितम्
धातुसाम्यकरं वीर्यबलौजःपरिवर्धनम्

मूल पाठ: Āyurvedamahodadhau annapānavidhi · Edition: S. Venkatasubrahmanya Sastri: Sushena's Ayurveda Mahodadhi-annapanavidhi, Madras 1950 (Madras Government Oriental Series, 60). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc