आयुर्वेदमहोदधौ अन्नपानविधि · अध्याय 1
॥ आयुर्वेदमहोदधिः ॥
अन्नपानविधिः
... णी मूत्रमलादिकानां जाता जनित्रीव हरीतकी नृणाम्
ग्रीष्मे तुल्यगुडां ससैन्धवयुतां मेघाच् च वर्षागमे
तुल्यां शर्करया शरद्यमलया (शुण्ठ्या) युञ्जयात् तुषारागमे ।
पिप्पल्या शिशिरे वसन्तसमये क्षौद्रेण संयोजिता
राजन् भक्ष (भुङ्क्ष्व) हरीतकीम् इव रुजो नश्यन्तु ते शत्रवः
अव्यायामरता वसन्तसमये ग्रीष्मे व्यवायप्रियाः
सक्ताः प्रावृषि पल्वलाम्भसि नवे कूपोदके द्वेषिणः ।
कट्वम्लोष्णरताः शरद्दधिभुजो हेमन्तनिद्रालसाः
शीताम्भःपरिगाहिनस् तु शिशिरे नश्यन्तु ते शत्रवः
अथ पानीयवर्गः
स्वादु पाकरसं शीतं त्रिदोषशमनं तथा ।
पवित्रम् अतिपथ्यं च गङ्गावारि मनोहरम्
प्रोक्तं स्वादु स्वच्छम् अत्यन्तरुच्यं पथ्यं पाक्यं पाचनं पापहारि ।
तृष्णामोहध्वंसनं चातिमेध्यं प्रज्ञां धत्ते वारि भागीरथीयम्
इतिगाङ्गं ।
तस्मात् किंचिद् गुरुतरं स्वादु पित्तापहं परम् ।
वातलं वह्निजननं रूक्षं च यमुनाजलम्
इति यामुनम् ।
अतिस्वच्छं प्रशस्तं च शीतलं लघु लेखनम् ।
पित्तश्लेष्मप्रशमनं नार्मदं सर्वरोगजित्
इति नार्मदं
कण्डूकुष्ठप्रशमनं वह्निसंदीपनं परम् ।
पाचनं वातपित्तघ्नं वारि गोदावरीभवम्
पित्तार्तिरक्तार्तिसमीरहारि कुष्ठादिदुष्टामयदोषहारि ।
पथ्यं परं दीपनपापहारि गोदावरीवारि तृषानिवारि
इति गोदावर्याः ।
रूक्षं च शीतलं वारि वातरक्तप्रकोपनम् ।
किञ्चिल् लघुतरं स्वादु कृष्णवेण्यास् समुद्भवम्
इति कृष्णवेण्याः ।
कावेरीसलिलं पथ्यमामघ्नं बलवर्णकृत् ।
आग्नेयम् अतिशीतं च दद्रुकुष्ठविषापहम्
इति कावेर्याः ।
त्रिदोषशमनं पथ्यं स्वादु हृद्यं च जीवनम् ।
भ्रमघ्नं च पिपासाघ्नं दिव्यं वारि मनोहरम्
इति अकालजलदं ।
मध्यमान्तरदिग्जाताः लघ्व्यो दोषत्रयापहाः ।
दक्शिणेया महानद्यः पित्तश्लेष्मविनाशनाः ॥
पथ्याश् चोत्तरदिग्जाता लघ्व्यो दोषत्रयापहाः ।
पूर्वदेशोद्भवा नद्यः सद्यो वातकफापहाः ।
पश्चिमाः पित्तलोत्सर्गाः कफवातविनाशनाः
इति संक्षेपतः प्रोक्ता नद्यः सूक्ष्माश् च संप्रति ।
सामुद्रम् उदकं विस्रं सक्षारं सर्वदोषकृत्
अचक्षुष्यं मदत्प्लीहगुल्मोदावर्तनाशनम् ।
अथ अष्टविधजललक्षणम् ।
दिव्यादीनां प्रवक्ष्यामि गुणदोषान् विचारतः
दिव्यान्तरिक्षं नादेयं कौपं चौदेयसारसम् ।
ताडागम् औद्भिदं शैलं जलम् अष्टविधं स्मृतम्
शरत्पयोदनिर्मुक्तमहावैडूर्यसंनिभम् ।
सर्वदोषापहं स्वादु दिव्यम् इत्य् उच्यते जलम्
प्रावृट्जलदनिर्मुक्तम् अव्यक्तस्वादुलक्षणम् ।
वारि स्फाटिकसंकाशमान्तरिक्षम् इति स्मृतम्
नद्याः शैलप्रसूतायाः गोमेदकमणिप्रभम् ।
प्रशस्तभूमिभागस्थं जलं नादेयम् उच्यते
भूम्युत्खातसमुद्भूतं महाशैलसमुद्भवम् ।
विमलं मधुरं स्वादु कौपं जलम् उदाहृतम्
स्वयं दीर्णशिलाखन्ने (च्छन्ने) नीलोत्पलदलप्रभम् ।
लतावितानसंछन्नं चौदेयम् इति संज्ञितम्
आनूपदेशजं वारि सारसं गुरु पिच्छलम् ।
मधुरं श्लेष्मजननं स्मृतं वातादिकोपनम्
नद्याः शैलवराद् वापि भूतम् एकांतसंस्थितम् ।
लतावितानसंछन्नं ताडागम् इति संज्ञितम्
प्रशस्तभूमिभागस्थं नैकसंवत्सरोषितम् ।
कषायमधुरं स्वादु औद्भिदं सलिलं स्मृतम्
शैलसानुसमुद्भूतं स्पृष्टं वातहिमातपैः ।
लघु शीतामलं स्वादु स्मृतं प्रस्रवणं जलम्
एताहि (नि) महिषाश्वोष्ट्रगोमृगाजगजादिभिः ।
अदूषितानि पात्रेषु मृण्मयेषु विनिक्षिपेत्
सर्वम् आकाशजं वारि स्वादुतो ह्य् अनुमीयते ।
पार्थिवं हि रसामिज्ञैर् भूमिभागेन लक्ष्यते
रक्तकापोतपीताभं पाण्डु श्वेतासितेषु च ।
कट्वम्लतिक्तकं क्षारं कषायमधुरादिभिः
अथ नादेयादीनां गुणाः
नादेयं वातलं रूक्षं दीपनं लघुलेखनम् ।
ताडागं वातलं स्वादु कषायं कटुपाकि च
वातश्लेष्महरं वाप्यं सक्षारं कटु पित्तलम् ।
चौण्डयम् अग्निकरं रूक्षं मधुरं कफकृत् तथा
कफघ्नं दीपनं हृद्यं लघु प्रस्रवणोद्भवम् ।
सक्षारं पित्तलं कौपं श्लेष्मघ्नं वातजित् तथा
मधुरं पित्तशमनम् अविदाह्य् औद्भिदं स्मृतम् ।
केदारं मधुरं पाके गुरुदोषविपाकलम् (प्रोक्तं विपाके गुरु दोषलम्)
तद्वत् पाल्वलम् उद्दिष्टं विशेषाद् दोषलं च तत् ।
सर्वदोषहरं हृद्यं निरवद्यं च जाङ्गलम्
कौपं जलं च तृष्णाघ्नं श्रमघ्नं प्रीतिवर्धनम् ।
(आनूपं श्लेष्मलं प्रोक्तं मेदोदोषविवर्धनम् ।)
दीपनं स्वादु शीतं च तोयं साधारणं लघु
इति जांगलानूपसाधारणोदकं ।
अथ ऋतुमेदेन जलपानविधिः
कौपं प्रस्रवणं वसन्तसमये ग्रीष्मे तद् एवोचितं
काले वा नभवृष्टिदेश्यम् अथवा कौपं घनानां पुनः ।
नीहारे सरसीतडागविषयं सर्वं शरत्संगमे
सेव्यं सूर्यसितांशुरश्मिपवनव्याधूतदोष ऽपयः
अव्यक्तरसगन्धं यत् शस्तं वातातपापहम् ।
पवित्रम् अम्बु तत् पथ्यं अन्यत्र (क्व) कथितं पिबेत्
घर्मसूर्येन्दुसंसिक्तमहोरात्रात् सरं यजेत्?
अथ उष्णाम्बुगुणाः
तच् चाव्यक्तरसं हिमं लघुतरं घर्मांबु मूर्छापहं
ऋष्लो (?) ष्मातप (तृट्श्लेष्मामय) मोहहं श्रमहरं तन्द्रातिनिद्रापहं
हृद्यं स्वादु विचित्रदं स्मृतिकरं दाहौघविच्छेदि? (दनं)
इत्थं देहम् अलायुषोर् धृतिकरं संजीवनं जीवनम्
अथ निन्दितजललक्षणं
विण्मूत्रतृणनीलिकाविषयुतं तप्तं धनं फेनिलं
दन्तग्राह्यम् अनार्तवं सलवणं शैवालकैः संभृतम् ।
लूताजन्तुविमिश्रितं गुरुतरं पर्णौघपङ्काविलं
चन्द्रार्कांशुसुगोपितं च न पिबेन् नीरं सदा दोषलम् {च्f. राजनिघण्टु 14.56}
अथ सेव्यजललक्षणं
प्रसन्नं स्वादु हृद्यं च पथ्यं संतर्पणं लघु ।
एकप्रदेशजं सेव्यं सदा पर्यापितं जलम्
अथ निशान्ते जलपानगुणाः
कासश्वासातिसारज्वरकिटिभकटीकोष्ठपृष्ठग्रहादीन्
मूत्रग्राहोदरार्शःश्वयथुकृमिवमीन् कर्णनासाक्षिरोगान् ।
ये चान्ये वातपित्तक्षयकफजकृता व्याधयः सन्ति जन्तोः
तांस् तान् अभ्यासयोगाद् अपहरति पयःपानम् अन्ते निशायाः
अंभसश् चुलकान् अष्टौ पिबेद् अनुदिनं नरः ।
नवनागबलो भूत्वा जीवेद् वर्षशतं सुधीः
अथ घ्राणपीतोदकगुणाः
विगतघननिशीथे प्रातर् उत्थाय नित्यं
पिबति खलु नरो यो घ्राणरन्ध्रेण वारि ।
स भवति मतिपूर्णश् चक्षुषा तार्क्ष्ययुक्तो (तुल्यो)
वलिपलितविहीनस् सर्वरोगैर् विमुक्तः
अथ नेत्ररक्षायै जलोपयोगविधिः
शीताम्बुपूरितमुखः प्रतिवासरं यः कालत्रये ऽपि नयनद्वितयं जलेन ।
आसिञ्चति ध्रुवम् असौ न कदाचिद् अक्षिरोगव्यथाविधुरतां भजते मनुष्यः
नादेयं नवमृद्घटप्रणिहितं सन्तप्तम् अर्कांशुभिः
रात्रौ संप्रतिजुष्टम् इन्दुकिरणैर् मन्दानिलान्दोलितम् {च्f. राजनिघण्टु 14.54अब्} ।
शीतं भिन्नमणिप्रभं लघुतया नास्तीति शङ्कावहं
पाटल्युत्पलकेतकीसुरभितं संसेवयेद् वारि तत्
रे रे रुद्रजटाटवीपरिसख्यालोलभस्माविलं
प्रोन्मञ्जत्सुरसुन्दरीकुचतटस्फारच्छलच्छीकरम् ।
धाराधौतकरालितांबरतनुं (?) निःशेषपापापहं
गाङ्गं तुङ्गतरङ्गभङ्गगहनं पानीयम् आनीयताम्
?
अथ शृतोष्णजलगुणाः
पथ्यं दीपनपाचनं लघुतरं सश्वासकासापहं
हिक्काध्माननवज्वरामशमनं श्लेष्मापहं वातजित् ।
संशुद्धोदरवस्तिशुद्धिकरणं हृत्पार्श्वशूलापहं
गुल्मारोचकपीनसे निगदितं कण्ठ्यं शृतोष्णं जलम्
पित्तोत्तरे पित्तरोगे पित्तासृक्कफपित्तयोः ।
मूर्छार्छर्दिज्वरे दाहे (तृष्णा) ऋष्मातीसारपीडिते
धातुक्षीणे विषार्ते च सन्निपाते विशेषतः ।
शस्तं शोषे ऽक्षिरोगे च शृतं शीतं जलं सदा
(3 ?)
अथ पानकालभेदेन वारिणो गुणाः
छत्रामृतं विषं वज्रं चत्वारो वारिणो गुणाः ।
भुक्त्वा तदैव प्रत्यूषे अभुक्ते भोजनैः सह
अजीर्णं जीरयत्य् आशु पीतम् उष्णोदकं निशि ।
वर्षासु न जलं ग्राह्यं नादेयं बहुदोषकृत्
अथ शृतोदकस्य गुणाः
कफे पादावशेषं तु पानीयं लघु दीपनम् ।
दिवाशृतं तु यत् तोयं रात्रौ तद् गुरुतां व्रजेत् ॥
शृतं शीतं त्रिदोषघ्नम् उषितं तच् च दोषकृत् ।
तत् पादशेषं दोषघ्नं अर्धहीनं तु वातजित्
रात्रौ शृतं तु दिवसे गुरुत्वम् अपि गच्छति ।
अथ पार्श्वशूलादौ शीताम्बुपाननिषेधः
पार्श्वशूले प्रतिश्याये वातरोगे गलग्रहे
आध्माने स्तिमिते कोष्ठे सद्यःशुद्धे नवज्वरे ।
हिक्कायां स्नेहपित्ते च शीताम्बु परिवर्जयेत्
अथ गुल्मादौ अल्पजलपानविधिः
गुल्मार्शोग्नहणीक्षये च जठरे मन्दानलाध्मातके
शोफे पाण्डुगलग्रहे च जगदे (व्रणगदे) मोहे (मेहे) च नेत्रामये ।
वातारुच्यतिसारके कफयुते कुष्ठप्रतिश्यायके
उष्णं वारि सुशीतलं शृतहिमं स्वल्पं प्रपेयं जलम्
निरामोतिजरा (भोजना) दर्वाक् पिबेद् वारि सुशीतलम् ।
अजीर्णे तु पिबेद् वारि शीतलं स्वेच्छया पुनः ॥
अथ निर्वापितोदकगुणाः
तप्तायःपिण्डसंयुक्तं लोष्टनिर्वापितं जलम् ।
सर्वदोषहरं पथ्यं सदा वैरुज्यकारकम् ॥
अथ वारिणः प्रशंसा ।
क्वचिद् उष्णं क्वचिच् छीतं क्वचित् क्वथितशीतलम् ।
क्वचिद् भेषजसंयुक्तं क्वचिद् वारि निवार्यते {च्f. राजनिघण्टु 14.80} ॥
तृषितो मोहम् आयाति मोहात् प्राणान् विमुञ्चति ।
तस्मात् स्वल्पं च दातव्यं न क्वचिद् वारि वार्यते
पानीयं प्राणिनां प्राणा विश्वम् एव हि तन् मयम् ।
अतो ऽत्यन्तविधाने ऽपि न क्वचिद् वारि वार्यते
मूर्छापित्तोष्णदाहेषु विधरे (पित्तरक्ते) मदात्यये ।
भ्रमक्लमपरीतेषु तमके वारि शीतलम् ॥
पिबेद् घटसहस्राणि यावन्नास्तमितो रविः ।
अस्तं गते दिवानाथे बिन्दुर् एको घटायते
अजीर्णे चौषधं वारि जीर्णे वारि बलप्रदम् ।
भोजने चामृतं वारि रात्रौ वारि विषोपमम्
अत्यम्बुपानान् न विपच्यते ऽन्नं निरम्बुपानाच् च स एव दोषः ।
तस्मान् नरो वह्निविवर्धनाय मुहुर्मुहुर् वारि पिबेद् अभूरि
क्षुधासंशुष्कहृत्कण्ठः प्रथमं कबलान् बहून् ।
न भुक्ते प्रपिबेद् अम्बु शीतलं मात्रया युतम्
तेन हृत्कण्ठशुद्धिः स्यात् सुखेनान्नं पतत्य् अधः ।
स्निग्धयुक्तं च यद् भक्तं ततस् संतर्पणं भवेत्
आदौ द्रवं समश्नीयात् तत्राम्बु न पिबेद् बहु ।
मध्ये तु कथिनं भुङ्क्ते यथेष्टं शस्यते जलम्
प्राक् द्रवं पुरुषो ऽश्नीयात् मध्ये तु कथिनाशनः ।
अन्ते पुनर् द्रवाशी तु वस्त्यारोग्ये (?) न मुंचति
तथैव भोजनस्यान्ते पीतम् अम्बु बलप्रदम् ।
द्रव्यं प्रयाति भुक्तान्ते किन् तु तन्मात्रया पिबेत्
आदौ जलं वह्निविनाशकारि पश्चात् तदन्ते कफबृंहणं च ।
मध्ये तु पीतं समतासुखं च तस्याभियोगो ऽभिमतस् सकृच् च
अमृतं विषम् इति सलिलं चेदं निष्ठा (विद्या) द् अतिविदिततत्वार्थः ।
युत्तया सेवितम् अमृतं विषम् एतद् अयुक्तितः पीतम्
पूरयेद् भागयुगलं कुक्षेश् चान्नेन सुस्थितः ।
जलेनैकं चतुर्थे च वायुसंचारणाय वै
ग्रासे ग्रासे तु पातव्यं शीतलं वारि सर्वदा ।
बहुवारियुतं चान्नम् अग्निं पचति सत्वरम्
तस्माद् आदाव् अतिस्वल्पं मध्ये च तृप्तिदायकम् ।
मात्रया च पिबेद् अन्ते न रोगैर् बाध्यते नरः
वासितं नूतनैः पुष्पैः पाटलीचम्पकादिभिः ॥
पथ्यं सुगन्धि हृद्यं च शीतलाम्बु सदा पिबेत्
सुगमं यत् सरोवालशकलैर् अधिवासितम् ।
कर्पूरेण च यत् तोयं तत् पेयं सर्वदा नृणाम्
ग्रीष्मे शरदि पातव्यं स्वेच्छया सलिलं नरैः ।
अन्यदा कल्पमैधेते (स्वल्पम् एवैतद्) वातश्लेष्मभयात् पिबेत्
अन्ये (अन्ने) नापि विना जन्तुः प्राणान् संधारयेच् चिरम् ।
तोयाभावे पिपासार्तः क्षणात् प्राणैर् विमुच्यते
आदिमध्यावसाने च भोजने पयसा युते ।
कृशं साध्यं (कार्श्यं साभ्यं) तथा स्थौल्यं भवन्ति क्रमशो गुणाः
पानीयं पानीयं शरदि वसन्ते च पानीयम् ।
नादेयं नादेयं शरदि वसन्ते च नादेयम्
मूल पाठ: Āyurvedamahodadhau annapānavidhi · Edition: S. Venkatasubrahmanya Sastri: Sushena's Ayurveda Mahodadhi-annapanavidhi, Madras 1950 (Madras Government Oriental Series, 60). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0