आयुर्वेदमहोदधौ अन्नपानविधि · अध्याय 18
{च्f. राजनिघण्टु 16.81}
माषो गुरुर् भिन्नपुरीषमूत्रः स्निग्धोष्णवीर्यो मधुरो ऽनिलघ्नः ।
संतर्पणस्तन्यकरो विशेषात् (बलप्रदः शुक्रकफावहश् च)
कषायभावान्न पुरीषभेदी न मूत्रलो मे (नै)व बलासकर्ता (?) ॥
स्वादुर् विपाके मधुरो ऽतिसान्द्रः संतर्पणःस्तन्यरुचिप्रदश् च ।
माषैः समानां फलम् आत्मगुत्म(प्त) मूचुश् च काकाण्डफलं तथैव ॥
॥ इति माषगुणाः ॥
अथ कुलत्थगुणाः
(उ) कृष्णाःकुलुत्थो रसतः कषायः ।
कटुर् विपाके कफुमारुतघ्नः ॥
श्रुता (शुक्रा)श्मरीगुल्मनिषूदनश् च
संग्राहकः पीनसकासहारी
आनाहमेदोगुदकीलहिक्काश्वासापहः शोणितपित्तकृच् च ।
कफस्य हन्ता नयनामयघ्नो विशेषतो वन्यकुलित्थ (उ)युक्तः
अथ राजमाषगुणाः ।
राजमाषः सगे रुच्यः कफशुक्र (क्राम्ल) मपित्तकृत् ।
सुस्वादुर् वातलो रूक्षः कषायो ऽपि महागुरुः
रूक्षः कषायो विषशोकशुक्रवलासदृष्टिक्षयवृद्धिकारी ।
कटुर् विपाके मधुरश् च शिम्बिः प्रवृद्धविण्मूत्र (मा)रुतपित्तलश् च
मूल पाठ: Āyurvedamahodadhau annapānavidhi · Edition: S. Venkatasubrahmanya Sastri: Sushena's Ayurveda Mahodadhi-annapanavidhi, Madras 1950 (Madras Government Oriental Series, 60). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0