आयुर्वेदमहोदधौ अन्नपानविधि · अध्याय 17
सर्वव्याधिहरं शीघ्रं मुखशोधनम् एव च ।
धान्ये श्रेष्ठं षष्टिकं राजभोज्यं मांसे त्व् आजं तैत्तिरीकं हितं स्यात् ।
पानीयं स्यात् कृष्णमृत्स्नासम् एतं क्षीराज्यादौ गव्यम् आदौ प्रशस्तम् ॥
॥ इति शालिवर्गः ॥
उष्णारूक्षव (त)राः कषायमधुराः पाके लघुत्वादि (धि) काः
श्लेष्मघ्नाः पवनादिपित्तजनकाः विष्टम्भिनः सर्वदा ।
रोमाकादिकधान्यलक्षणम् इदं प्रोक्तं नृणाम् अग्रतः
सम्यक्* वै बलशाकसद्रवगुल्लैः पश्रात्क्रमः संस्थितः ॥ (?)
॥ इति धान्यवर्गः ॥
॥ अथ शिम्बिधान्यगुणाः कथ्यन्ते ॥
तत्रादा मुद्गगुणाः ।
मुद्गः पित्तकफापहो व्रणहरः कंवा(ठा) मयघ्नो लघुः
पथ्यो वातविरिक्तिजन्तुषु तथा नेत्रामये सर्वदा ।
नैवाध्मानकरस् तथानिलहरो मन्दानि (व) ले शस्यते
सूपानाम् अपि चोत्तमः स्वरकरो मूत्रामयच्छेदनः ॥
अथ माषः ।
माषः स्निग्धो बलमलकरः शोषणः श्लेष्मकारी
वीर्ये चोष्णो झटिति कुरुते रक्तपित्तप्रकोपम् ।
हन्याद् वातं गुरुर् अतिरसो रोचको भक्ष (क्ष्य) माणः
स्वादुर् नित्यं श्रमसुखजुषां जीवनीयो नराणाम्
मूल पाठ: Āyurvedamahodadhau annapānavidhi · Edition: S. Venkatasubrahmanya Sastri: Sushena's Ayurveda Mahodadhi-annapanavidhi, Madras 1950 (Madras Government Oriental Series, 60). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0