भाषा

ENहिગુ
ग्रंथ पाठ

आयुर्वेदमहोदधौ अन्नपानविधि · अध्याय 19

19.1

सितासितः पीतकरक्तवर्णा भवन्ति वै नैकविधास् तु शिबिं(म्ब्यः) : ॥
अथ तिलगुणाः ।
ईषत्कषयो मधुरः सतिक्तो(क्तः) संग्राहकः पित्तकरस् तथोष्णः ॥
तिलो विपाके मधुरो बलिष्ठः स्निग्धो व्रणालेपनपथ्य उक्तः ॥
दन्त्यो ऽग्निमेधाजननो ऽल्पमूत्रः स्तन्यो ऽथ केश्यो ऽनिलहा गुरुश् च ।
तिलेषु सर्पिष्व् असित [सर्वेष्व् असितः] प्रधानो मेध्यः सितो हीनतरस् तथान्यः ॥
दन्त्यो वर्णबलाग्नि [बुद्धि] जननः स्तन्यो ऽनिलघ्नो गुरुः
स्निग्धः पित्तकरो ऽल्पमूत्रकरणः केश्यातिपथ्यो व्रणे ।
ग्राह्युष्णो धृतिकृत् कषायमधुरस् तिक्तो विपाके कटुः
कृष्णः पथ्यतमो ऽसितो ऽल्परहितो [गुणदः] हीनास् तथान्ये तिलाः

मूल पाठ: Āyurvedamahodadhau annapānavidhi · Edition: S. Venkatasubrahmanya Sastri: Sushena's Ayurveda Mahodadhi-annapanavidhi, Madras 1950 (Madras Government Oriental Series, 60). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc