भाषा

ENहिગુ
ग्रंथ पाठ

आयुर्वेदमहोदधौ अन्नपानविधि · अध्याय 16

16.1

इति काञ्जिकवर्गः ॥
॥ अथ मूत्रवर्गः ॥
औष्ट्रं (मूत्रं) गो ऽजाविमहिषीगजाश्वोष्ट्रखरोद्भवम् ।
(पित्तलं रूक्षतीक्ष्णोष्णं लवणानुरसं कटु ।
कृमिशोफोदरानाहशूलपाण्डुकफानिलान् ।
गुल्मारुचिविषश्वित्रकुष्ठार्शांसि जयेल् लघु ।)
औष्ट्रं गोजाविनारं हयगजमहिषीमूत्रवर्गः खरोष्णा (राणां)
तिक्तं तीक्ष्णं लघूष्णं सलवणसुरसं पित्तलं भेदि रूक्षम् ।
हृद्यं रुच्यं क्रिमिघ्नं हुतवहजननं कुष्ठमेहौ विनाशी (शि)
गुल्मानाहार्शशूलानिलकफविषजित् शोफपाण्डूदरघ्नम् ॥
मूत्रं तथाष्टादशकुष्ठशोफपाण्डूदरोन्मादकफामयघ्नम् ।
सेव्यं निद्दर्शा (?) विकारम् एतत् रूक्षं तथाम्लं क्रिमिषु प्रशस्तम् ।
॥ इति मूत्रवर्गः ॥
॥ अथ धान्यवर्गः ॥
स्निग्धो वातहरस् त्रिदोषशमनः पथ्यः सदा प्राणिनां
श्रेष्ठः पौष्टिक [श्रेष्ठो ब्रीहिषु षष्टिकः] श्रमहरः कृच्छ्रादिडोषापहा ।
गौर(श् चा)श्वासितगौरतो ऽपि नितरां सेव्यः करोत्य् उच्चकैः
भुक्त (शुक्रं) श्वासहरस् तथा श्रमहरः कासादिदोषापहा

16.2

रसे पाके स्वादुः पवनकफापत्तोपशमनः
ज्वरे ऽजीर्णे पथ्यः सकलजवरक्षाभहरणः (?) ।
शिशूना वृद्धानां युवतिसुकुमारातिस(सु)खिनां
अयं सेव्यो राजा भवति हि महाशालिरमलः

16.3

धान्यं वापितम् उत्तमं तद् अखिलं (छि)छन्नोद्भवं मध्यमं
ज्ञेयं द्यदवर्गपित्तं (तद् यद् अवापितं) तद् अधमं निस्सारदोषप्रदम्

16.3

{च्f. राजनिघण्टु 16.158अब्}
दग्धा यद्भविच्पेष्यं तेथ (?) विपिने यद् वापिताः शालयः
एते छिन्नभवा भवन्ति खलु ते विण्मूत्रबन्धप्रदाः

16.4

{च्f. राजनिघण्टु 16.158च्द्}
देशे देशे तु जाताश् च नानावर्णाश् च शालयः ।
तेषां स्वतः प्रधानो ऽसौ त्रिदोषशमनः परः

16.5

रक्तो भीरुकपुण्डरीककलमस् तूर्णो महापुष्पकः
दीर्घः काञ्चनहायनो ऽसितशि (स्रि) तः पुष्पपाण्डजः पाण्डुकः ।
सागरख्यास् तपनीयकाः शकुनको रोध्रस् तु सौगन्धिकः
धानाद्याः सपतङ्गिदूषकयुता हृद्याः शुभाः शालयः

16.6

सुसभाः (?) याचनदीपना बलकरा स्निग्धास् त्रिदोषापहाः
शुक्लश्लेष्मविवर्धना रुचिकराः संदीपनास् तर्पणाः ।
पथ्याः सर्वगदे हिताः श्रमहराः क्षुत्तृट्श्रमध्वंसिनः
श्रेष्ठा व्रीहिषु षष्टिकाः कलप (म) का रक्ता महाशालयः

16.7

रोचनास् तर्पणा हृद्या दीप्तस्य (?) पाचनाः ।
गुरवो बृंहणाः पथ्या नानाजातीयशालयः

16.8

जगरोमधयेरो (?) हृद्यः स्वादुसंजीवनो लघुः ।
वृष्यो बलप्रदो हन्यात् सघृतो ऽसौ मलत्रयम्

16.9

राजानं(न्नं) कफवातघ्नं स्वादु पित्तनिवारणम् ।
रूपशुक्रमहातेजःसत्वशुद्धिबलप्रदं

16.10

कृष्टि [ष्ण] शालि [स्त्रि] त्रिदोषघ्नो मधुरः कार्श्यहा तथा ।
पित्तघ्नः पिच्छलः शुक्ररूपवर्णबलप्रदः

16.11

एते शालिगुणाः प्रोक्ता ज्ञातव्याः शास्त्रकोविदैः ।
सर्वं वनतृणानां (न्नं) च कुष्टरोगविनाशनम्

मूल पाठ: Āyurvedamahodadhau annapānavidhi · Edition: S. Venkatasubrahmanya Sastri: Sushena's Ayurveda Mahodadhi-annapanavidhi, Madras 1950 (Madras Government Oriental Series, 60). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc