भाषा

ENहिગુ
ग्रंथ पाठ

आयुर्वेदमहोदधौ अन्नपानविधि · अध्याय 15

15.1

कन्दमूलफलाद्यं च तद्वद् विद्यात् तदासुतम् ।
शाण्डाकी चासुते(तं) चान्यत् कालाम्लं रोचनं लघु ॥
॥ इति मद्यवर्गः ॥
इदानीं काञ्जिकवर्गः ॥
धान्याम्लं भेदि तीक्ष्णं सुरभि लघुतरं शो (सो)ष्णसंस्पर्शर्शीतं
रूक्षं चैव क्लमघ्नं श्रमहरविषदं वस्तिसंशोधनं च ।
शस्तं वास्थापनं स्यात्* लघु विषशमनं श्वासरोगापनोदि
गण्डूषो धारणे स्यान् मुखगदनिवहे गन्धनिर्नाशनं च ।
धान्याम्लं भेदि तीक्ष्णोष्णं पित्तकृत् स्पर्शशीतलम् ।
श्रमक्लमहरं रुच्यं दीपनं बस्तिशोधनम्

मूल पाठ: Āyurvedamahodadhau annapānavidhi · Edition: S. Venkatasubrahmanya Sastri: Sushena's Ayurveda Mahodadhi-annapanavidhi, Madras 1950 (Madras Government Oriental Series, 60). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc