आयुर्वेदमहोदधौ अन्नपानविधि · अध्याय 14
॥ इत्य् आयुर्वेदमहोदधौ सुषेणकृते इक्षुवर्गः ॥
॥ इदानीं मद्यगुणाः कथ्यन्ते ॥
संदीपनं मद्यम् अतीव तीक्ष्णं उष्णं च तष्टां (तृष्णा) प्रदपुष्टिदं च ।
सुस्वादु तिक्तं कटुकं तथाम्लं जम्बूरसं सुस्वदनीयम् एतत्
काप्योपं (?) रसभेदनं बलकरं सश्वासकासापहं
वर्ष्ये (वृष्यं) चैव लघूष्णदुष्टजरणं निद्राभिवृद्धिप्रदम् ।
पित्तासृक्कफसारके च विषमे कार्श्ये तथा पीनसे
रूक्षं श्रोत्र (स्रोत) विशोधनं रुचिकरं वातादिसंशोषणम्
(श्लेष्माणं विनिहन्ति युक्तम् अनिशं सेव्यं सदा प्राणिना)
कृशे स्थूले हितं रूक्षं सूक्ष्मं श्चोतो (स्रोतो) विशोधनम् ।
वाताश्लेष्महरं पुत्रया (युक्त्या) पीतं विषवद् अन्यथा
गुरुत्व (तद्) दोषजननं नवं जीर्णम् अतो ऽन्यथा ।
नात्यर्थतीक्ष्णमृद्वल्पसंभारं कलुषं न च ।
अथ सुराया गुणाः ।
गुल्मोदरार्शोग्रहणीशोफहृत्स्नेहनी गुरुः ।
सुरानिलघ्नी मेदो ऽसृक्स्तन्यमूत्रकफाप (व) हा ॥
अथ वारुण्या गुणाः ।
तद्गुणा वारुणी हृद्या लघुतीक्ष्णा निहन्ति च ।
शूलकासारुचिश्वासविबन्धाध्मानपीनसान्
ग्राह्य् उष्णानलदा रूक्षा पाचनी शोफनाशनी ।
अथ पथ्याबिभीतकसुरा ।
नात्यर्थं प्रमदा लाघ्व्यां (घ्वी) यथा (पथ्या) वैभीतिकी सुरा
व्रणे पाण्ड्वामये कुष्टे न चात्यर्थं विरुध्यते ।
अथ यवसुरा ।
विष्टम्भिनी यवसुरा गुर्वी रूक्षा त्रिदोषला
अथ अरिष्टगुणाः ।
यथाद्रव्यगुणो ऽरिष्टः सर्वमद्यगुणाधिकः ।
ग्रहणीपाण्दुकुष्ठार्शःशोषशोकोदरज्वरान्
हन्ति गुल्मक्रि(मि) मी लोहः (प्लीह्नः) कषायकटुवातलः ।
मार्द्वीकं लेखनं हृद्यं नात्युष्णं मधुरं सरम्
क (अ)ल्पपित्तानिलं पाण्डुमेहार्शःक्रिमिनाशनम् ।
(सृष्त) दृष्टिमूत्रस (श) कृद्वातो गौडस् तर्पणदीपनः
भृशोष्णतीक्ष्णरूक्षाम्लं हृद्यं रुचिकरं सरम् ॥ 15 [सिच्!] ॥
दीपनं शिशिरस्पर्शं पाण्डुक्रिमिविनाशनम् ।
गुडेषु(क्षु) मधुमाध्वीकसूक्तं लघु यथोत्तरम्
मूल पाठ: Āyurvedamahodadhau annapānavidhi · Edition: S. Venkatasubrahmanya Sastri: Sushena's Ayurveda Mahodadhi-annapanavidhi, Madras 1950 (Madras Government Oriental Series, 60). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0