भाषा

ENहिગુ
ग्रंथ पाठ

आयुर्वेदमहोदधौ अन्नपानविधि · अध्याय 13

13.2

॥ इदानीं इक्षुगुणाः कथ्यन्ते ॥
स्निग्धश् च संतर्पणबृंहणश् च संजीवनः स्वादुरसः श्रमघ्नं ।
वृष्यश् च पित्तश्रमवातहारी ह्य् अन्तर्विदाही कफकृत्सितेक्षुः ॥
तद्वत् सकृष्णो हि भवेद् गुणैश् च वृष्यो भवेत् तर्पणदाहहन्ता ।
सक्षारकिंचिन् मधुरो रसेन शोषापहन्ता व्रणशोफकर्ता

13.3

पाण्डुको भीरुकश् चैव वाराहश्वेतपोतकः ।
कान्तारस् तापसेक्षुः स्यात् काष्ठेक्षुश् च विचित्रकः

13.4

नेपालो दीप्ययन्त्रश् च नीलयो रौप्यकोशकृत् ।
इत्य् एता जातयः स्थूला गुणान् वक्ष्याम्य् अतः परम्

13.5

सुशीतो मधुरः स्निग्धो बृंहणः श्लेष्मवर्धनः ।
अविदाहि गुरुर् वृष्यः पौण्ड्रको भीरुकस् तथा

13.6

।
अन्ये तुल्यगुणाः केचित् सक्षारो वंशको मतः ।
वंशवच्छ्वेतपौण्ड्रस् तु किञ्चिद् उष्णः स वातहा

13.7

कान्तारस् तापसेक्षुः स्याद् वंशकानुगतो मतः ।
एवंगुणस् तु काष्ठेक्षुः स तु वातप्रकोपनः

13.8

सूचीपत्रोनिलापोरोनीलापो (नेपालो) दीर्घपत्रकः ।
वातघ्नाः कफपित्तघ्नाः सकषायविदाहिनः

13.9

कोशाकरो गुडः शीतो रक्तपित्तक्षयापहा ।
अतीव मधुरो मूलो (ले) मध्ये मधुर एव च

13.10

अग्रेषु (ष्वा) मधुरो ज्ञेयः इक्षुर् आलवणः स्मृतः ।
कफकृच्चाविदाही च रक्तपित्तनिबर्हणः

13.11

शर्करासमवीर्यस् तु दन्तनिष्पीडितो रसः ।
गुरुर् विदाही विष्टम्भी यान्त्रिकः परिकीर्तितः

13.12

एको (पक्वो) गुरूरसः स्निग्धः सतीक्ष्णः कफवातनुत् ।
फाणितं गुरु मधुरं अभिष्यन्दि च बृंहणम्

13.15

शुक्रं कफकरं चैव पित्तघ्नं च विशेषतः ।
सक्षारो मधुरो ऽतिमूत्रबहुलो रक्तस्य संशोधनो
मेदोनिग्रहणस् तु पित्तशमनो वातघ्नविष्टम्भनः ।
श्लेष्माणं जन(येत्*) च बृंहणकरो बल्यः सदा स्वास्थ्यकृत्
वातघ्नो विषमो ऽम्लपित्तशमनो ऽसेव्यो ऽतिरेके सदा ॥ 13 । ।
मत्स्यण्डिकादीनां गुणाः
मत्स्यण्डिकायाः खण्डः शर्करपाविमलोन्नरो दिग्धः (?)
गुरुर् अथ मधुरोत्तरोत्तरपाको वृष्यो रक्तपित्तविनाशकृत् ।
यावती शर्करा प्रोक्ता सर्वदाहप्रणाशिनी ।
रक्तपित्तप्रशमनी छर्दिमूर्छा तृषापहा

13.16

रूक्षो मधूकपुष्पोत्थः फाणितो वातपित्तकृत् ।
कफघ्नो मधुरः पाके विपाके वस्तिशोधनः

13.17

गुडशर्करया तुल्या वस्तिशोधनपाचनी ।
पित्तसंशमनी चैव रक्तपित्तनिबर्हिणी

13.18

मधुरा शर्करा चैव हिध्मातीसारनाशिनी ।
रूक्षा विव्छेदनी चैव कषाया मधुरापि च

13.19

इक्षुप्रशंसा तद्भेदाश् च ।
वृष्यः शीतोष्णपित्तं शमयति मधुरो बृंहणः श्लेष्मकारि ।
स्निग्धो हृद्यस्सरश् च श्रमशमनपटुर् मूत्रशुद्धिं करोति ।
मेदोवृद्धिं (विधत्ते) वर्धते शमयति च मलान् तर्पणं चेन्द्रियाणां
दन्तौ नि (दन्तैर् नि)ष्पीड्य साक्षाद् अमृतमयरसो (सं) भक्षयेद् इक्षुदण्डः (डं)

13.20

कान्तारो रक्तवर्णः स्यात् कोशाकारस् तथैव च ।
श्वेतस् तु पौण्ड्रको ज्ञेयः त्रयः श्रेष्ठास् तथेक्षवः ॥
मधुरो मूलभावो (गे) स्यान् मध्ये मधुर एव च ।
अग्रभागे पुनस् तस्य इक्षोः स्याल् लवणो लघु

13.21

भक्षयेद् इक्षुकं काले भोजनस्याग्रतो नरः ।
स्वभावान् मधुरो ऽप्य् एष शुक्रो (भुक्ते) वातप्रकोपनः

13.22

विदाही विष्टम्भी गुरुर् अतितरां शोषशमनः
कषायो ऽलंकुर्यात् पवनजनन छर्दिकरणः ।
धृतः किञ्चित् कालं सकलसहमूलाग्रदलनाद्
विदाही तेनायं भवति [न] हितो यान्त्रिकरसः

13.24

मूलमध्यदलनाच् च तत्क्षणात् सी [पी]यते यदि तु यान्त्रिको रसः ।
वातपित्तशमनस् तदा भवेत् तर्पणश् च मलमूत्रशोधनः

13.25

गुडादीनां गुणाः ।
पित्तघ्नः पवनापहो रुवि[चि]करो हृद्यस् त्रिदौषापहः
संयोगेन विशेषतो ज्वरहरः संतापशान्तिप्रदः ।
विण्मूत्रामयनाशनो ऽग्निजननः कण्डुप्रमेहांति [त] कृत्
स्निग्धस्वादुरसो लघुः श्रमहरः पथ्यः पुराणो गुडः

13.26

।
दाहं निवारयति पित्तम् अपाकरोति तृष्णां छिनत्ति विनिहन्ति च मोहर्मूर्छाम् ।
शोषं विघट्टयति तर्पयतीन्द्रियाणि शीतः सदा समधुरः खलु सिद्धखण्डः

13.27

तृष्णामोहतृषास्यशोपशनी दाहज्वरध्वंसनी
श्वासच्छर्दिमदाय (त्ययक्लम) मलहरी हृद्या च संतर्पणी ।
क्षीणे रेतसि पावके च विषमे क्षीणे क्षते दुर्बले
दुर्वारे ऽपि च रक्तपित्तकगदे सेव्या सदा शर्करा

मूल पाठ: Āyurvedamahodadhau annapānavidhi · Edition: S. Venkatasubrahmanya Sastri: Sushena's Ayurveda Mahodadhi-annapanavidhi, Madras 1950 (Madras Government Oriental Series, 60). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc