भाषा

ENहिગુ
ग्रंथ पाठ

आयुर्वेदमहोदधौ अन्नपानविधि · अध्याय 12

12.1

अधोभागिकम् ऐरण्डम् अन्येषां तिलवत्स्मृतम् ॥
॥ इत्य् आयुर्वेदमहोदधौ सुषेणकृते तैलवर्गः ॥
अथ मधुगुणाः कथ्यन्ते ।
व्रणसा (शो)धनसंधानरोपणं वातलं मधु ।
रूक्षं कषायमधुरं तत्तुल्या मधुशर्करा

12.2

त्रिदोषघ्नं मधु प्रोक्तं अन्यस्या श्रीसंनिपातलम् (?) ।
हिक्काश्वासकफच्छर्दिमदतृष्णाविषापहम्

12.3

क्षौद्रं जलेन संयुक्तं (अति) स्थौल्ये पिबेन् नरः
कृशो भवति सत्य् आह (प्राहा) ल्लेखनं तत्र जायते

12.4

लेपे हितं तत्र गुदाङ्कुराणां गजोद्धवं लेह्यमहोभिवृद्धिः (?) ।
सर्वो गुरुश् चापि रसायनानां कासापहो वापि मधुप्रयोगः

12.5

मेहे हितं स्यान् मलछर्दिनाशः हिक्कातिसारे व्रणकुष्ठहन्ता ।
कण्डूव्रणघ्नो व्रणदीपनानां (पीडितानां) दिव्यामृतं साधु मधुप्रयोगः

12.6

स्थावरं जङ्गमं वापि कृत्रिमं च विषापहम् (विषं हरेत्) ।
बलीपलितनिर्मुक्तौ देहे तस्मिन् प्रजायते

12.7

क्षतक्षीणे हितं चैव पाडुकामलरोगजित् ।
स्थूल कष्णो (?) हितं चैव रक्ते वापि हितं च तत्

12.8

पाके स्वादु मधु श्रेष्ठं विपाके दोषसंयुतम् ।
(तन् मधु भूवि रुद्धानां वारीणां मदसंभवम्

12.9

संभवः क्रिमिकीटाना पिप्पली मधुना सह ।
अम्लेन मधुरं स्वादु तन् मधुश् चापि दोषकृत्) (?)

मूल पाठ: Āyurvedamahodadhau annapānavidhi · Edition: S. Venkatasubrahmanya Sastri: Sushena's Ayurveda Mahodadhi-annapanavidhi, Madras 1950 (Madras Government Oriental Series, 60). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc