आयुर्वेदमहोदधौ अन्नपानविधि · अध्याय 11
॥ इत्य् आयुर्वेदमहोदधौ सुषेणकृते घृतवर्गः ॥
॥ इदानीं तैलगुणाः ॥ ।
उष्णं विपाके कटुकं सतिक्तं कफापहं वातनिवारणं च ।
क्रिमीन् निहन्याद् बलभुक्तकारि तैलं क्रिमिश्लेष्ममरुत्प्रणाशि
तिलतैलम् अलंकरोति केश्यं मधुरं तिक्तकषायम् उष्णतीक्ष्णम् ।
बलकृत्कफवातजं च [जन्तु] खर्जू व्रणकण्डूतिहरं च [कान्ति] दायि
कण्डूहरं कान्तिविवर्धनं च अर्शो [वर्चो] विवृद्धि व्रणरोपणं च ।
तिलस्य जातं खलु यच् च तैलं बालेषु वृद्धेष्व् अपि तैल [पथ्य]म् एतत्
न पित्तरोगे न च शोणितोत्थे पथ्यं महावातविकारसंधौ ।
तिलोद्भवं तैलम् उदआहरन्ति वाताश्रितान् हन्ति समस्तदोषान्
कट्ठम्लर्वीर्यं बहुपित्तकारि विण्मूत्रसङ्गं कुरुते ऽतिदीप्तिम् ।
पामादिदोषापहरं च तैलं अभ्यञ्जनं सर्षपसंभवं च
कटूष्णं सार्षपं तैलं कफशुक्रानिलापहम् ।
तीक्ष्णोष्णं पिच्छलं विस्रं रक्तैर् अण्डोद्भवं त्व् अति {च्f. अष्टाङ्गहृदय 5.58च्द्}
आमवातगजेन्द्राणां शरीरवनचारिणाम् ।
एक एवाग्राणी [र्जे] हेता एरण्डस्नेहकेसरी
कौसुम्भतैलं क्रिमिनाशनं च
तेजोबलं नेत्रविनाशनं च ।
खर्जूश् च केशश् च करोति कोष्ठे [कण्डूं च करोति दृष्टेः]
त्रिदोषलं वापि समीरणघ्नम्
लेपात् करंजतैलस्य दृष्टिरोगविनाशनम् ।
कुष्ठे च पापभिन्ननां सर्ववातविकारनुत्
आक्षं स्वादु हिमं केश्यं गुरु पित्तानिलापहम् ।
नाप्यु (त्यु)ष्णं निम्बजं तैलं क्रिमिकुष्ठरुजापहम्
क्षौमं स्नेहम् अचाक्षुष्यं पित्तकृद् वातनाशनम् ।
आक्षजं कफपित्तघ्नं केश्यं दृक्श्रोत्रतर्पणम्
मूल पाठ: Āyurvedamahodadhau annapānavidhi · Edition: S. Venkatasubrahmanya Sastri: Sushena's Ayurveda Mahodadhi-annapanavidhi, Madras 1950 (Madras Government Oriental Series, 60). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0