आयुर्वेदमहोदधौ अन्नपानविधि · अध्याय 10
॥ इति नवनीतगुणाः ॥
॥ अथातो घृतगुणाः कथ्यन्ते ॥
तत्रादौ गोघृतस्य गुणाः
धीकान्तिस्मृतिकारकं बलकरं मेधाप्रदं बुद्धिकृत्
वातघ्नं श्रमनाशनं स्वरकरं पित्तापहं पुष्टिदम् ।
वह्नेर् वृद्धिहरं विपाकमधुरं वृष्यं च शीतं सदा
सेव्यं गव्यम् इदं घृतं बलकरं सद्यःसमावर्तितम्
सर्पिर्गवां चामृतकं विषघ्नं चाक्षुष्यम् आरोग्यकरं च वृष्यम् ।
रसायनं मन्दम् अतीव मेध्यं स्नेहोत्तम च (गोः) विबुधा वदन्ति
अथ माहिषघृतस्य गुणाः
सर्पिर्माहिषम् उत्तमं धृतिकरं सौख्यप्रदं कान्तिदं
वातश्लेष्मनिबर्हणं बलकरं वर्णप्रसादक्षमम् ।
दुर्नामग्रहणीविकारशमनं मन्दानलोद्दीपनं (?) {च्f. राजनिघण्टु 15.78}
चाक्षुष्य नवगव्यतः फल (पर)म् इदं हृद्यं मनोहारि च
माहिष्यं तन् मानुषणां च शस्तं बल्यं वृष्यं बस्तिसादं करोति ।
मेदोद्भूतं मेहकृच्छैत्यकारि तस्मान् नित्यं सर्वकालं निषेव्यम् ॥
आजघृतस्य गुणाः
दीपनीयम् अजासर्पिः चाक्षुष्यं बलवर्धनम् ।
कासश्वासक्षये वापि पथ्यं पानेषु तल् लघु ॥
मेषीघृतभ्य गुणाः ।
आविकं घृतम् अतीवा गुरुत्वाद् वर्ज्यम् एव सुकुमारनरैश् च ।
औष्ट्रघृतस्य गुणाः
सद्य एष बलपुष्टिकरं स्याद् उष्ट्रजं श्वयथुकासकरं च ॥
अन्यच् च
गव्यं च पाचितं सर्पिः वमिपीतकफापहम् ।
पयसो ऽनुगुणं मेषां (पी) छागीगर्दभिकाघृतम्
औष्ट्रीघृतं वीर्यकटु श्लेष्मक्रिमिविषापहम् ।
दीपनं कफवातघ्नं कुष्ठगुल्मोदरापहम्
पाके लघ्वादि (वि)कं सर्पिः न च पित्तप्रकोपनम् ।
कफे ऽनिले योनिदोषे च श्वयथौ हतम् (शोफे कम्पे च तद् धितम्)
पाके लघुष्टं (घूष्णं) वीर्ये च कषायं कफनाशनम् ।
दीपनी (नं) लघु वीर्ये च विद्याद् ऐकशफं घृतम्
स्त्रीघृतम्
चक्षुष्यम् अग्निदं स्त्रीणां सर्पिः स्याद् अतमृओपमम् [सिच्!] ।
वृद्धिं करोति देहाग्नेर् लघु पाके विषापहम्
हस्तिनीघृतम्
कषायं बद्धविण्मूत्रं तत्कि (तिक्त)म् अग्निकरं लघु ।
करेणुजं हन्ति सर्पिः कष्टक्रिमिविशंकरम् (कफकुष्ठविषक्रिमीन्)
सर्पिःप्रशंसा
आयुर्वृद्धिं वपुर् अपि दृढं सौकुमार्यं करोति
व्यायामस्त्रीनिधुवनकृतश्रान्तिविच्छेदनीनम् ।
पथ्यं बाल्ये वयसि तरुणे वार्धके चापि पथ्यं
नान्यत् किञ्चिद् भवति पुरुषे सर्पिषः स्थौल्यकारि
यद् वेदागमवेदिभिर् निगदितं साक्षाद् इहायुर् नृणां
यद् वैद्यैस् तु रसायनाय कथितं सद्यो जरानाशनम् ।
यत् सारस्वतकल्पकान्ति मतिमत्प्रोक्तं धियः सिद्धये
तत्रैकायनकेतकद्युतिचयप्रायं मुदा स्याद् घृतम्
वीर्यातिशीतं च गुणे विपाके स्वादु त्रिदोषेषु रसायनं च ।
तेजोबलायुष्यकरं च मेध्यं चाक्षुष्यम् एतद् घृतम् आहुर् आर्याः
ओजस्तेजोभिवृद्धिं जनयति सुखदं कान्तिकृत् सम्यग् उक्तं
पापालक्ष्मीश्रमघ्नं श्वसनकसनहाजीर्णजातज्वरघ्नम् ।
शूलोदावर्तरोगग्रहणिनि च पजा (मदरुजं) नाशयत्य् आशु पित्तं [पीडां]
वातघ्नं पित्तनाशं स्वरहति भवे शूद्धमे (स्वरकरम् अगदं क्षुद्भ्रमे) चैवसेव्ये (व्यम्)
चाक्षुष्यं वृष्यम् आयुस्मृतिधृतिकरणं राजयक्ष्माप्रकोपं [विनाशं]
[रूक्षे क्षीणे च पथ्यं वलिपलितहरं सामदोषप्रकोपे ।]
भूतोन्मादप्रमत्ते बहुतिमिरमदे कृत्पपश्रीर [स्याद् अपस्मार] हारि
सर्वेषां सर्वदैव प्रथितगुणगणं साधु पथ्यं घृतं स्यात्
सद्यस्कं कृमिपूतं [?] च मूत्रवस्ति विशोधनम् ।
श्लेष्मलं पित्तनाशं च बलपुष्टिविवर्धनम्
पुराणं तिमिरश्वासपीनसज्वरकासनुत् ।
मूर्छाकुष्टविषोन्मदग्रहापस्मारनाशनम्
उग्रगन्धि पुराणं स्य्याद् दशवर्षोषितं घृतम् ।
लाक्षारसनिभं शीतं तद् धि सर्पग्रहापहम्
मदापस्मारमूर्छायशिरःकर्णाक्षियोनिजान् ।
पूराणं जयति व्याधीन् व्रणशोधनरोपणम्
अपस्मारग्रहोन्मादवतां शस्तं विशेषतः ।
पूर्वोक्ताश् चाधिकांस् ताश् च [?] गुणास् तद् अमृतोपमम्
निरामयानां नवयौवनानां कृत्वा गवां यच्छत धौतमद्धिः ।
वह्नौ विपक्वं नवनीतनूनं [योग्यं] योग्यं घृतं तद् गजराजसेविताम् [?]
मूल पाठ: Āyurvedamahodadhau annapānavidhi · Edition: S. Venkatasubrahmanya Sastri: Sushena's Ayurveda Mahodadhi-annapanavidhi, Madras 1950 (Madras Government Oriental Series, 60). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0