भाषा

ENहिગુ
ग्रंथ पाठ

अवदानशतक · अध्याय 97

97.1

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्यां अन्यतमः श्रेष्ठी । स द्वितीयश्रेष्ठिना सार्धं विरुद्धः । ततस् तेन राजा प्रभूतं धनं दत्वा विज्ञापितः: देव अयं श्रेष्ठी अपराधिकः, क्रियताम् अस्य दण्डनिग्रह इति । ततो राज्ञा तस्यैवानुज्ञातः । तेनासौ स्वगृहम् आनीय तलाभिस् ताडितः । ततो रुधिरावसिक्तशरीरस्य प्रभूतं तीक्ष्णं च विषचूर्णं दत्वोप्तम्*, येनास्य तच् छरीरम् एकधनं मांसपिण्डवद् अवस्थितम्* । ततस् तस्य श्रेष्ठिनो वयस्यकैः श्रुतम्*: यथा तेनैवंविधं कर्म कृतम् इति । ततस् तैः समेतैर् भूत्वा # # {उपकरणविशेषैः} यैर् उपकरणविशेषैस् तस्माद् व्याधेः परिमोचितः । ततो ऽसौ तेनैव च संवेगेन गृहान् निष्क्रम्य प्रव्रजितः । तेन अनाचार्यकेण सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् भावयित्वा प्रत्येका बोधिः साक्षात्कृता । ततो ऽस्य चित्तम् उत्पन्नम्*: बह्व् अनेन श्रेष्ठिना मत्संतापाद् अपुण्यं प्रसूतम्* । यन्व् अहम् एनं गत्वा संवेजयेयम् इति । ततस् तस्याग्रतो गत्वा उपरि विहायसम् अभ्युद्गम्य विचित्राणि प्रातिहार्याणि विदर्शयितुम् आरब्धः । आशु पृथग्जनानाम् ऋद्धिर् आवर्जनकरी । स मूलनिकृत्त इव द्रुमः पादयोर् निपत्य कृतकरपुटो भगवन्तं विज्ञापयति: अवतर, अवतर महादक्षिणीय, कृतापराधो ऽहं तवान्तिके, त्वाम् एव निश्रित्य पुनः, प्रत्युपस्थास्यामीति । तेनासौ प्रत्येकबुद्धः क्षमापयित्वा पिण्डकेन प्रतिपाद्य पटेनाच्छादितः । प्रणिधानं च कृतम्*: यन् मया क्रोधाभिभूतेन तवापराधः कृतः, मा अस्य कर्मणो विपाकं प्रत्यनुभवेयम्* । यन् मया सत्कारः कृतः, अनेनैवंविधानां गुणानां लाभी स्याम्*, प्रतिविशिष्टतरं चातः शास्तारम् आरागयेयम् इति ॥
भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन श्रेष्ठी आसीत्*, अयम् स गुप्तिकः । तस्य कर्मणः प्रभावात् पञ्च जन्मशतानि कशाभिस् ताड्यमानः कालं कृतवान्* । तेनैव हेतुना अयम् एवंविधं आश्रय आसादितः । भूयः काश्यपे भगवति सहजातकैर् वयस्यकैः सार्धं प्रव्रजित आसीत्*। तत्रैभिर् ब्रह्मचर्यवासः परिपालितः । तेनेदानीम् अर्हत्वं साक्षात्कृतम्* । इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
-------------------- वैद्य, प्. 250 --------------------
अव्श्_97 विरूपः । (एद्. स्पेयेर्, वोल्. इइ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । # # # अन्यतमो गृहपतिर् आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तेन सदृशात् कुलात् कलत्रम् आनीतम्* । स तया सार्धं क्रीडति रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्वा संवृत्ता । सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता । दारको जातः । जातमात्रस्य सर्वशरीरं विकृतिस्फुटं प्रवृत्तम्* । दुर्वर्णो दुर्दर्शनो ऽष्टादशभिर् दोषवर्णकैः समन्वागतः स दारको भूतः । तस्य मातापितरौ सर्वाङ्गं दुर्वर्णं दुर्दर्शनं विकृतरूपं दृष्ट्वा चिन्तापरौ व्य्वस्थितौ । तस्य जातौ जातिमहं कृत्वा नामधेयं व्य्वस्थाप्यते: किं नाम भवतु दारकस्य? ज्ञातय ऊचुः: यस्माद् अयं जातमात्र एवं विकृतरूपः, तस्माद् भवतु दारकस्य विरूप इति नाम ॥
य्दा महान् संवृत्तस् तदा तस्य लज्जया महान् संकोचो जातः । कुत्रान्यत्र गमिष्यामि, क्व तिष्ठामि, इति विचार्य सुजीर्णोद्यानं जगाम । अथ भगवान् महाश्रावकपरिवृतः सुजीर्णोद्यानं गतः । स भगवन्तं दृष्ट्वा जेह्रीयमाण इतश् चामुतश् च पलायितुम् आरब्धः । ततो भगवता ऋद्ध्या तथाधिष्ठितो यन् न शक्नोति पलायितुम्* । ततो भगवान् सह श्रावकैर् निरोधसमापत्तिं समापन्नः । ततो निरोधाद् व्युत्थाय विरूपम् आत्मानं निर्मितवान्* । निर्माय शरावं भोजनपूर्णम् आदाय विरूपम् आगतं दृष्ट्वा हर्षजात आमन्त्रितवान्*: एहि सहायक, कुत आगमिष्यते, तिष्ठ, उभाव् अपि सहितौ वत्स्याव इति । ततो ऽस्य भगवता भोजनं दत्तम्* । प्रीणीतेन्द्रियश् च संवृत्तः । ततो भगवता आत्मा स्ववेषेण स्थापितः । ततो विरूपो बुद्धं भगवन्तं दृष्ट्वा कथयति: अभिरूपतरस् त्वम् इदानीं संवृत्तः । कस्य कर्मणः प्रभावाद् इति । भगवान् आह: विद्या मे अस्ति चित्तप्रसादजननी नाम्ना, तस्या एष प्रभाव इति । ततस् तेन भगवतो ऽन्तिके चित्तं प्रसादितम्*, तेषां च महाश्रावकाणाम् आलयसमापन्नानाम्* । ततो ऽस्य लक्ष्मीः प्रादुर्भूता । प्रव्रज्य चार्हत्वं साक्षात्कृतम् इति ॥
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त विरूपेण कर्माणि कृतानि, येनैव दुर्वर्णो दुर्दर्शनो ऽष्टादशभिर् दौर्वर्णिकदोषैः समन्वागतः । प्रव्रज्य चार्हत्वं साक्षात्कृतम् इति । भगवान् आह: विरूपेणैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि ।
-------------------- वैद्य, प्. 251 --------------------
विरूपेणैव कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च:
न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि ।
सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्*

97.2

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि पुष्यो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* । सो ऽपरेण समयेनान्यतमां राजधानीम् उपनिश्रित्य विहरति । अथ पुष्यः सम्यक्संबुद्धः समन्वाहर्तुं प्रवृत्तः । पश्यति तस्मिन् काले द्वौ बोधिसत्वौ संनिकृष्टौ: भगवाञ् छाक्यमुनिर् मैत्रेयश् च । मैत्रेयस्य स्वसंततिः परिपक्वा, शास्तुर् वैनेया अपरिपक्वाः । शाक्यमुनेस् तु स्वसंततिर् अपरिपक्वा, वैनेयाः परिपक्वाः । अथ पुष्यः सम्यक्संबुद्धः शाक्यमुनेर् बोधिसत्वस्य संततिपरिपाचनार्थं हिमवन्तं पर्वतम् अभिरुह्य रत्नगुहां प्रविश पर्यङ्कं बद्ध्वा तेजोधातुं समापन्नः । तस्मिंश् च काले शाक्यमुनिर् बोधिसत्वः फलमूलानाम् अर्थे हिमवन्तं पर्वतम् अभिरूढः । स इतस् ततश् चञ्चूर्यमाणो ददर्श पुष्यं सम्यक्संबुद्धं द्वात्रिंषता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* । सहदर्शनाच् चानेन तथाविधं चित्तसमाधानं समासादितम्*, यद् एकपादेन सप्त रात्रिंदिवानि एकया गाथया स्तुतवान्*:
न दिवि भुवि वा नास्मिंल् लोके न वैश्रवणालये
न मरुभवने दिव्ये स्थाने न दिक्षु विदिक्षु वा ।
चरतु वसुधां स्फीतां कृत्स्नां सपर्वतकाननां
पुरुषवृषभास्त्य् अन्यस् तुल्यो महाश्रमणस् तव

97.3

अथ पुष्यः सम्यक्संबुद्धः परिपक्वसंततिं शाक्यमुनिं बोधिसत्वं दृष्ट्वा साधुकारम् अदात्*: साधु साधु सत्पुरुष ।
अनेन बलवीर्येण संपन्नेन द्विजोत्तम ।
नव कल्पाः परावृत्ताः संस्तुत्याद्य तथागतम्*

मूल पाठ: Avadānaśataka · Edition: the following editions: (1) Ed. P.L. Vaidya, Darbhanga 1958 (Buddhist Sanskrit Texts ; 19) and (2) Ed. J.S. Speyer, St. Petersbourg, 2 vols., 1906-1909 (Bibliotheca Buddhica ; 3) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc