भाषा

ENहिગુ
ग्रंथ पाठ

अवदानशतक · अध्याय 96

96.1

भूतपूर्वं भिक्षवो ऽतीते ऽध्वन्य् अस्मिन्न् एव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* । स वाराणसीं नगरीम् उपनिश्रित्य विहरति ऋषिपतने मृगदावे । वाराणस्यां नगर्याम् अन्यतमः श्रेष्ठीपुत्रः स्थविरसकाशे प्रव्रजितः । स च स्थविरो ऽर्हन्, स रागविप्रहीणः । यावत् तत्र देशे पर्व समुपस्थितम्* । ततस् तरुणभिक्षुणा स्थविर उत्थाप्यते: उत्तिष्ठ गोचरग्रामं गमिष्याव इति । स्थविर आह: वत्स अद्यापि प्रातर् एव, गच्छ तावत् कुशलपक्षं प्रतिजागृहीति । द्विर् अपि त्रिर् अपि तरुणभिक्षुणा स्थविर उत्थाप्यते: उत्तिष्ठ गोचरग्रामं गमिष्याव इति । द्विर् अपि त्रिर् अपि स्थविर आह: वत्स अद्यापि प्रातर् एव, गच्छ तावत् कुशलपक्षं प्रतिजागृहीति । ततस् तेन तरुणभिक्षुणा रसगृध्रेण खरं वाक्कर्म निश्चारितम्: मा त्वं पञ्चभिर् अपि जन्मशतैर् जीवः कोशान् निर्गच्छ, एषो ऽहं निर्गत इति ॥
भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन तरुणभिक्षुः, अयम् संसारः । यद् अनेनार्हतो ऽन्तिके चित्तं प्रदूष्य खरं वाक्कर्म निश्चारितम्*, तस्य कर्मणो विपाकेन पञ्च जन्मशतानि मृतकुणप एव मातुः कुक्षेर् निर्गतः । निर्गतेषु पञ्चसु जन्मशतेषु इदानीम् अनेन मनुष्यत्वम् आसादितम्* । ततस् तत् स्मृत्वा कथयति: दुःखं संसारः, परमदुःखं संसार इति । यद् अनेन विप्रतिसारजातेन स्थविरस्यात्ययो देशितः, ब्रह्मचर्यवासश् च परिपालितः, तेनेदानीम् अर्हत्वं साक्षात्कृतम्* । इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
-------------------- वैद्य, प्. 247 --------------------
अव्श्_96 गुप्तिकः । (एद्. स्पेयेर्, वोल्. इइ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । यदा भगवता स्तवकर्णिकनिमन्त्रितेन सौपारके नगरे महाजनविनेयाकर्षणं कृतम्*, तदा सर्वः सौपारकनिवासी जनकायो बुद्धनिम्नो धर्मप्रवणः संघप्राग्भारो व्यवस्थितः ॥
सौपारके नगरे ऽन्यतमो गृहपतिर् आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तेन सदृशात् कुलात् कलत्रम् आनीतम्* । स तया सार्धं क्रीडति रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्वा संवृत्ता । सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता । दारको जातः जातमात्रस्य सर्वशरीरं पिटकैः स्फुटं संवृत्तम्* । यदा ते पिटकाः स्फुटिताः, तदा एकधनो मांसपिण्डः संस्थितः । पूयशोणितं चास्य शरीरात् प्रघरन् महद्दौर्गन्धं जनयति । ततो ऽस्य पिता ऐश्वर्यबलाधानेन द्रव्यमन्त्रौषधिपरिचारकसमेतः स्वयम् एवारब्धश् चिकित्सां कर्तुम्*, न चासौ व्याधिर् उपशमं गच्छति कर्मबलाधानप्राप्तत्वात्* । स स्वशरीरं तथा विक्षतम् अपत्राप्य परिगृहीतं वस्त्रैर् गोपायति । तस्य गुप्तिक इति नाम कृतम्* । यावद् गुप्तिको दारको महान् संवृत्तस् तस्य वयस्यकाः सहजातकाः श्रावस्त्याः सौपारकनगरम् अनुप्राप्ताः । ततस् तैः पितुर् अस्य कथ्यते: तात यद्य् एष श्रावस्तीं नीयते, शक्येतास्माद् व्याधेः परिमोचयितुम्*, यस्मात् तत्र सन्ति वैद्यभैषजादयः सुलभा इति ॥
ततः पित्रा तद् वचनम् उपश्रुत्य प्रभूतानि रत्नानि परिचारकांश् च दत्वा श्रावस्तीम् अनुप्रेषितः । सो ऽनुपूर्वेण वयस्यकसहायः श्रावस्तीम् अनुप्राप्तः । तत्राप्य् अस्य कर्मजो व्याधिः सत्य् अपि वैद्यद्रव्यौषधिपरिचारकबाहुल्ये न शक्यते चिकित्सितुम्* । यावद् असाव् अपरेण समयेन जेतवनं निर्गतः । अथासौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* । सहदर्शनाच् चानेन भगवतो ऽन्तिके चित्तं प्रसादितम्* । प्रसादजातो भगवतः पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णो धर्मश्रवणाय । तस्मै भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा पञ्चोपादानस्कन्धा रोगतो गण्डतः शल्यतो ऽघतो ऽनित्यतो दुःखतः शून्यतो ऽनात्मतश् च देशिताः । स संस्कारानित्यतां विदित्वा भगवच्छासने प्रव्रजितः । तेन युज्यमानेन घटमानेन व्यायच्छमानेन इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा
-------------------- वैद्य, प्. 248 --------------------
सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । अर्हन् संवृत्तः त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः । ते ऽप्य् अस्य सहजातकास् तेनैव संवेगेन प्रव्रजिताः ॥

ते येनायुष्मान् गुप्तिकस् तेनोपसंक्रान्ताः । उपसंक्रम्यायुष्मन्तं गुप्तिकम् इदम् अवोचन्*: किम् आयुष्मन् गुप्तिक प्रलोपधर्म, किं वा अत्र लोके ऽप्रलोपधर्म? रूपम् आयुष्मन्तः प्रलोपधर्म । तस्य निरोधान् निर्वाणम् अप्रलोपधर्म । वेदना संज्ञा संस्कारा विज्ञानम् आयुष्मन्तः प्रलोपधर्म । तस्य निरोधान् निर्वाणम् अप्रलोपधर्म । किं मन्यध्वे आयुष्मन्तः: रूपं नित्यं वा अनित्यं वा? अनित्यम् इदम् आयुष्मन् गुप्तिक । यत् पुनर् अनित्यं दुःखं वा तन् न वा, दुःखम्*? दुःखम् इदम् आयुष्मन् गुप्तिक । यत् पुनर् अनित्यं दुःखं विपरिणामधर्म, सत्यम् अपि तच् छ्रुतवान् आर्यश्रावक आत्मत उपगच्छेद् एतन् मम, एषो ऽहम् अस्मि, एष मे आत्मेत्य् एवम् एतत्? नो आयुष्मन् गुप्तिक । किं मन्यध्वे आयुष्मन्तः: वेदना संज्ञा संस्कारा विज्ञानं नित्यं वा अनित्यं वा? अनित्यम् इदम् आयुष्मन् गुप्तिक । यत् पुनर् अनित्यं दुःखम्*? दुःखम् इदम् आयुष्मन् गुप्तिक । यत् पुनर् अनित्यं दुःखं विपरिणामधर्म, अपि तच् छ्रुतवान् आर्यश्रावक आत्मत उपगच्छेत्*: एतन् मम, एषो ऽहम् अस्मि, एष मे आत्मेति? नो आयुष्मन् गुप्तिक । तस्मात् तर्हि आयुष्मन्तो यत् किंचिद् रूपम् अतीतानागतप्रत्युत्पन्नम् आध्यात्मिकं वा बाह्यं वा औदारिकं वा सूक्ष्मं वा हीनं वा प्रणीतं वा, यद् वा दूरे, यद् वान्तिके, तत् सर्वं नैतन् मम, नैषो ऽहम् अस्मि, नैष मे आत्मेत्य् एवम् एतद् यथाभूतं सम्यक्प्रज्ञया द्रष्टव्यम्* । या काचिद् वेदना संज्ञा संस्कारा यत् किंचिद् विज्ञानम् अतीतानागतप्रत्युत्पन्नम् आध्यात्मिकं वा बाह्यं वा औदारिकं वा सूक्ष्मं वा हीनं वा प्रणीतं वा, यद् वा दूरे, यद् वान्तिके, तत् सर्वं नैतन् मम, नैषो ऽहम् अस्मि, नैष मे आत्मेत्य् एवम् एतद् यथाभूतं सम्यक्प्रज्ञया द्रष्टव्यम्* । एवंदर्शी आयुष्मन्तः श्रुतवान् आर्यश्रावको रूपाद् अपि निर्विद्यते, वेदनायाः संज्ञायाः संस्कारेभ्यो विज्ञानाद् अपि । निर्विण्णो विरुज्यते, विरको विमुच्यते । विमुक्तम् एवं ज्ञानदर्शनं भवति: क्षीणा मे जातिः, उषितं ब्रह्मचर्यं कृतं करणीयम्* । नापरम् अस्माद् भवं प्रजानामीति ॥
अस्मिन् खलु धर्मपर्याये भाष्यमाणे तेषां सहजातकानां विरजो विगतमलं धर्मेषु धर्मचक्षुर् उत्पन्नम्* । भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त गुप्तिकेन कर्माणि कृतानि, येनास्य शारीरम् एवं बीभत्सव्याधिबहुलं दुर्गन्धं संवृत्तम्* । किं कर्म कृतं येन तीक्ष्णनिशितबुद्धिः संवृत्तः, प्रव्रज्य चार्हत्वं साक्षात्कृतम् इति । भगवान् आह: गुप्तिकेनैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । गुप्तिकेन कर्माणि कृतान्य् उपचितानि ।
-------------------- वैद्य, प्. 249 --------------------
को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च:
न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि ।
सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्*

मूल पाठ: Avadānaśataka · Edition: the following editions: (1) Ed. P.L. Vaidya, Darbhanga 1958 (Buddhist Sanskrit Texts ; 19) and (2) Ed. J.S. Speyer, St. Petersbourg, 2 vols., 1906-1909 (Bibliotheca Buddhica ; 3) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc