अवदानशतक · अध्याय 98
ततो भगवान् महेशाख्याभिर् देवताभिः परिवृतः तस्यां गुहायां स्थितः । तत्र गुहानिवासिनी देवता अल्पेशाख्यत्वान् न शक्नोति तां गुहां समभिरोढुम्* । ततो विकृतनयना भूत्वा भगवन्तं भीषयते । यदा सुचिरम् अपि भीषयमाणा न शक्नोति भगवतो ऽपकारं कर्तुम्*, तदा तया प्रसादो लब्धः: शोभनो ऽयम् ऋषिः सिद्धव्रतश् चेति । ततः सा उदारं रूपम् अभिनिर्माय भगवतः पादयोर् निपत्य क्षमापयित्वा पिण्डकेन प्रतिपादितवती ॥
-------------------- वैद्य, प्. 252 --------------------
भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन गुहानिवासिनी देवता बभूव, अयम् विरूपः सः । तस्य कर्मणो विपाकेन संसारे ऽनन्तं दुःखम् अनुभूतवान्* । इदानीम् अपि तेनैव हेतुना विरूपः संवृत्तः । यद् अनेन पश्चाच् चित्तं प्रसादितम्*, तेनास्य अपगता अलक्ष्मीः प्रादुर्भूता । प्रव्रज्य चार्हत्वं साक्षात्कृतम्* । इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_98 गङ्गिकः । (एद्. स्पेयेर्, वोल्. इइ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो वाराणसीं नगरीम् उपनिश्रित्य विहरति ऋषिपतने मृगदावे । वाराणस्याम् अन्यतमो गृहपतिर् आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तेन सदृशात् कुलात् कलत्रम् आनीतम्* । स तया सार्धं क्रीडति रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतो न पुत्रो न दुहिता । स करे कपोलं दत्वा चिन्तापरो व्यवस्थितः: अनेकधनसमुदितं मे गृहम्*, न मे पुत्रो न दुहिता । ममात्ययात् सर्वस्वापतेयम् अपुत्रकम् इति कृत्वा राजविधेयं भविष्यतीति । स श्रमणब्राह्मणनैमित्तिकसुहृत्संबन्धिबान्धवैर् उच्यते: देवताराधनं कुरुष्वेति । सो ऽपुत्रः पुत्राभिनन्दी शिववरुणकुबेरशक्रब्रह्मादीन् अन्यांश् च देवताविशेषान् आयाचते । तद्यथा आरामदेवता वनदेवताश् चत्वरदेवताः शृङ्गाटकदेवताः । सहजाः सहधार्मिका नित्यानुबद्धा अपि देवता आयाचते स्म । अस्ति चैष लोके प्रवादो यदायाचनहेतोः पुत्रा जायन्ते दुहितरश् चेति । तच् च नैवम्* । यद्य् एवम् अभविष्यद् एकैकस्य पुत्रसहस्रम् अभविष्यत् तद्यथा राज्ञश् चक्रवर्तिनः । अपि तु त्रयाणां स्थानानां संमुखीभावात् पुत्रा जायन्ते दुहितरश् च । कतमेषां त्रयाणाम्* । मातापितराउ रक्तौ भवतः संनिपतितौ, माता च कल्या भवति ऋतुमती, गन्धर्वश् च प्रत्युपस्थितो भवति । एषां त्रयाणां स्थानानां संमुखीभावात् पुत्रा जायन्ते दुहितरश् चेति ।
स चैवम् आयाचनपरस् तिष्ठति । अन्यतमश् च सत्वो ऽन्यतमस्मात् सत्वनिकायाच् च्युत्वा तस्य प्रजापत्याः कुक्षिम् अवक्रान्तः । पञ्चावेणिका धर्मा एकत्ये पण्डितजातीये मातृग्रामे । कतमे
-------------------- वैद्य, प्. 253 --------------------
पञ्च? रक्तं पुरुषं जानाति विरक्तं {पुरुषं} जानाति । कालं जानाति ऋतुं जानाति । गर्भम् अवक्रान्तं जानाति । यस्य सकाशाद् गर्भो ऽवक्रामति तं जानाति । दारकं जानाति दारिकां जानाति । सचेद् दारको भवति, दक्षिणं कुक्षिं निश्रित्य तिष्ठति । सचेद् दारिका भवति, वामं कुक्षिं निश्रित्य तिष्ठति । सा आत्तमनात्तमनाः स्वामिन आरोचयति: दिष्ट्या आर्यपुत्र वर्धसे । आपन्नसत्वास्मि संवृत्ता । यथा च मे दक्षिणं कुक्षिं निश्रित्य तिष्ठति, नियतं दारको भविष्यतीति । सो ऽप्य् आत्तमनात्तमनाः पूर्वकायम् अभ्युन्नमय्य (स्पेयेर्: अत्युन्नमय्य) दक्षिणं बाहुम् अभिप्रसार्योदानम् उदानयति: अप्य् एवाहं चिरकालाभिलषितं पुत्रमुखं पश्येयम्* । जातो मे स्यान् नावजातः । कृत्यानि मे कुर्वीत । भृतः प्रतिबिभृयात्* । दायाद् यं प्रतिपद्येत । कुलवंशो मे चिरस्थितिकः स्यात्* । अस्माकं चाप्य् अतीतकालगतानाम् अल्पं वा प्रभूतं वा दानानि दत्वा पुण्यानि कृत्वा मम नाम्ना दक्षिणाम् आदेक्ष्यते: इदं तयोर् यत्रतत्रोपपन्नयोर् गच्छतोर् अनुगच्छत्व् इति । आपन्नसत्वां चैनां विदित्वा उपरिप्रासादतलगताम् अयन्त्रितां धारयति, शीते शीतोपकरणैर् उष्णे उष्णोपकरणैर् वैद्यप्रज्ञप्तैर् आहारैर् नातितिक्तैर् नात्यम्लैर् नातिलवणैर् नातिमधुरैर् नातिकटुकैर् नातिकषायैस् तिक्ताम्ललवणमधुरकटुककषायविवर्जितैर् आहारैः । हारार्धहारविभूषितगात्रीम् अप्सरसम् इव नन्दनवनविचारिणीं मञ्चान् मञ्चं पीठात् पीठम् अनवतरन्तीम् अधरां भूमिम्* । न चास्याः किंचिद् अमनोज्ञशब्दश्रवणं यावद् एव गर्भस्य परिपाकाय । सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता । दारको जातो ऽभिरूपो दर्शनीयः प्रासादिकः सर्वाङ्गप्रत्यङ्गोपेतः । तस्य जातौ जातिमहं कृत्वा गङ्गिक इति नाम कृतम्* । गङ्गिको दारको ऽष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्* । सो ऽष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैः । आशु वर्धते ह्रदस्थम् इव पङ्कजम्* ॥
स च निर्भेदभागीयैः कुशलमूलैः समन्वागतो गृहावासे नाभिरमते । स मातापितरौ पादयोर् निपत्य विज्ञापयति: अम्ब तात अनुजानीतं माम्*, भगवच्छासने प्रव्रजिष्यामीति । ततो ऽस्य मातापितराव् एकपुत्रक इति कृत्वा नानुजानीतः । ततो गङ्गिकस्य बुद्धिर् उत्पन्ना: दुर्लभो मनुष्यप्रतिलाभः, दुर्लभश् च तथागतप्रादुर्भावः, तथेन्द्रियसंपद् अपि दुर्लभा । को मे उपायो भवेद् यद् अहं भगवच्छासने प्रव्रजेयम् इति । तस्यैतद् अभवत्*: यन्व् अहं प्रणिधानं कृत्वा आत्मानमात्मना जीविताद् व्यपरोपयेयम्*, यथा मनुष्यात्वम् आसाद्य लघु लघ्व् एव प्रव्रजेयम् इति । तेनैवं विचिन्त्य विषं भक्षितम्*, न च कालं करोति । अग्नौ पतितः, पर्वताद् आत्मानम् उत्सृष्टवान्*, नद्यां चारकायां पतितः, तत्रापि कालं न करोति । तस्य बुद्धिर् उत्पन्ना: कः उपायः स्याद् येन कालं कुर्याम् इति । तस्यैतद् अभवत्*: सर्वथायं राजा अजातशत्रुश् चण्डो रभसः कर्कशः साहसिकश् च । यन्व् अहम् अस्य गृहे रात्रौ संधिं छिन्द्याम् इति । स राजगृहं नगरं गत्वा रात्रौ संप्राप्तायां भग्ने चक्षुष्पथे संधिम् आरब्धश् छेत्तुम्* । ततो रक्षिभिर् जीवग्राहं गृहीत्वा राज्ञो ऽजातशत्रोर् उपनीतः: अयं देव चौरो दुष्टो ऽपकारी च, यो राजकुले रात्रौ संधिं छिन्दतीति ।
-------------------- वैद्य, प्. 254 --------------------
ततो राज्ञा अपराधिक इति कृत्वा वध्य उत्सृष्टः । ततो व्यध्यघातैर् नीलाम्बरवसनैः करवीरमालासक्तकण्ठेगुण उद्यतशस्त्रपाणिभी रथ्यावीथीचत्वरशृङ्गाटकेषु श्रावणामुखेष्व् अनुश्राव्य दक्षिणेन नगरद्वारेण निष्कास्य शीतवनं श्मशानं नीयते । स नीयमानस् तान् वध्यघातान् आह: शीघ्रं शीघ्रं भवन्तो गच्छन्तु, मा कदाचिद् राज्ञश् चित्तस्यान्यथात्वं स्याद् इति । ततो व्यध्यघातैर् एषा प्रवृत्ती राज्ञो निवेदिता । ततो राज्ञा प्रतिनिवर्त्य पृष्ठः: को हेतुर् यत् त्वम् इष्टं जीवितं परित्यक्तुम् इच्छसीति । तेन स वृत्तान्तो विस्तरेण राज्ञे समाख्यातः । ततो राजा अजातशत्रुः कदम्बपुष्पवद् आहृष्टरोमकूपः साश्रुकण्ठो रुदन् मुख उदानम् उदानयति: अहो सुपरिपक्वा अस्य बुद्धिसंततिः, स्ववगतः संसारदोषः, सुप्रतिलब्धा श्रद्धासंपत्*, यत्र नामायं प्रव्रज्याहेतोर् इदम् इष्टं जीवितं परित्यक्तुं व्यवसितः । ततो राज्ञा समाश्वास्योक्तः: पुत्रक अहं प्रभुस् ते जीवितस्य । गच्छेदानीं भगवच्छासने प्रव्रजेति । स राज्ञोत्सृष्टो भगवच्छासने प्रव्रजितः । तेन युज्यमानेन घटमानेन व्यायच्छमानेन इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । अर्हन् संवृत्तः त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः ॥
तत्र भगवान् भिक्षून् आमन्त्रयते स्म: एषो ऽग्रो मे भिक्षवो भिक्षूणां मम श्रावकाणां श्रद्धाप्रव्रजितानां यदुत गङ्गिको वाराणसेयः श्रेष्ठिपुत्र इति ॥
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त गङ्गिकेन कर्माणि कृतानि, येनैषां विपाकान् नाग्निः काये ऽवकाशति, न विषम्*, न च शस्त्रम्*, नोदकेन कालं करोति, अर्हत्वं चानेन प्राप्तम् इति । भगवान् आह: गङ्गिकेनैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । गङ्गिकेनैव कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च:
न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि ।
सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्*
मूल पाठ: Avadānaśataka · Edition: the following editions: (1) Ed. P.L. Vaidya, Darbhanga 1958 (Buddhist Sanskrit Texts ; 19) and (2) Ed. J.S. Speyer, St. Petersbourg, 2 vols., 1906-1909 (Bibliotheca Buddhica ; 3) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0