भाषा

ENहिગુ
ग्रंथ पाठ

अवदानशतक · अध्याय 95

95.1

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्याम् अन्यतमा गृहपतिपत्नी श्राद्धा भद्रा कल्याणाशया । सा अभीष्णं श्रमणब्राह्मणकृपणवनीपकयाचनकेभ्यो दानानि ददाति । तस्या अपरेण समयेन भर्ता कालगतः । यावद् अस्याः पुत्रः स्वगृहे स्वामी संवृत्तः । स च मत्सरी कुटुकुञ्चकः आगृहीतपरिष्कारः काकाय बलिं न प्रदातुं व्यवस्यति । स श्रमणब्राह्मणकृपणवनीपकान् दृष्ट्वा चित्तं प्रदूषयति । तस्य माता तेनैव पूर्वक्रमेण श्रमणब्राह्मणकृपणवनीपकेभ्यो दानप्रदानान्य् अनुप्रयच्छति । तस्याः पुत्रो मात्सर्याभिभूतः कथयति: अम्ब न मे रोचते (स्पेयेर्: रोच्यते) । मा दानम् अनुप्रयच्छेति । सा कथयति: पुत्रक इह कुले एष कुलधर्म इति ।
-------------------- वैद्य, प्. 244 --------------------
ततस् तेन पृथग्भक्तेन स्थापिता । तथाप्य् असाव् उपार्धाद् दानम् अनुप्रयच्छति, उपार्धम् आत्मना परिभुञ्क्ते । ततस् तेन मात्सर्याभिभूतेन क्रोधेनावृतबुद्धिना भूयो निवार्यत एव । यदा सर्वावस्थायां न शक्नोति वारयितुम्*, तदा मातरम् उवाच: अम्ब किंचित् करणीयम् अस्ति, अववरकं प्रविशेति । सा ऋजुस्वभावतया अववरकं प्रविष्टा । ततस् तेन द्वारं बद्ध्वा एकं भक्तच्छेदं कारिता । सा कथयति: पुत्र बुभुक्षितास्मीति । ततस् तेन खरं वाक्कर्म निश्चारितम्*: भस्म खादेति । यावत् तेनासौ कृच्छ्रसंकटसंबाधप्राप्ता सकरुणकरुणं विक्रोशमाना षड् भक्तच्छेदान् कारिता, तथापि न प्रतिमुक्ता । कालगता । तदास्य मात्सर्येणावृतस्य मातृवियोगाद् विप्रतिसारो जातः ॥
भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन गृहपतिपुत्रः, अयं स लेकुञ्चिकः । यद् अनेन मातुर् अपकारः कृतस् तस्य कर्मणो विपाकेन कल्पम् अवीचौ महानरक उत्पन्नः । तेनैव हेतुना इदानीम् अप्य् अर्हत्वप्राप्तः षड् भक्तच्छेदान् कृत्वा भस्माद् अनाहार एव परिनिर्वृतः । अन्यान्य् अपि भिक्षवो लेकुञ्चिकेन कर्माणि कृतान्य् उपचितानि । भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्याम् अन्यतमो ब्राह्मणो देवतार्चिकः सर्वेषां वाराणसेयानां ब्राह्मणगृहपतीनां सत्कृतो गुरुकृतो मानितः पूजितो ऽभिमतश् च सर्वजनस्य । धर्मता चैषा यद् असति बुद्धानाम् उत्पादे प्रत्येकबुद्धा लोक उत्पद्यन्ते हीनदीनानुकम्पकाः प्रान्तशयनासनभक्ता एकदक्षिणीया लोकस्य । यावद् अन्यतमः प्रत्येकबुद्धो वाराणसीं पिण्डाय प्रविष्टः । स च तत्र पूर्णहस्तः पूर्णपात्रो निर्गच्छति । तेन ब्राह्मनेन दृष्टः । तस्य मात्सर्यम् उत्पन्नम्* । कथयति: आनय यावत् पात्रं पश्यामीति । असमन्वाहृत्य च श्रावकप्रत्येकबुद्धानां ज्ञानदर्शनं न प्रवर्तत इति । तेन भदन्तेनोपनामितम्* । ततस् तेन पृथिव्याम् उत्सृज्य पादेनाभिमृदितम्* । ततस् तेन प्रत्येकबुद्धेन भक्तछेदः कृतः । न च तस्य ब्राह्मणस्य विप्रतिसारो जातः ॥
किं मन्यध्वे भिक्षवो यो ऽसौ ब्राह्मणः, अयम् एवासौ लेकुञ्चिकः । भूयः काश्यपे भगवति प्रव्रजितो बभूव । तत्रानेन ब्रह्मचर्यवासः परिपालितः । तेनेदानीम् अर्हत्वं साक्षात्कृतम्* । इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानां कर्मणाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_95 संसारः । (एद्. स्पेयेर्, वोल्. इइ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां
-------------------- वैद्य, प्. 245 --------------------
सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । श्रावस्त्याम् अन्यतमो गृहपतिर् आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तेन सदृशात् कुलात् कलत्रम् आनीतम्* । स तया सार्धं क्रीडति रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्वा संवृत्ता । सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता । दारको जातो ऽभिरूपो दर्शनीयः प्रासादिकः सर्वाङ्गप्रत्यङ्गोपेतः । स जातमात्र एव गृहम् अवलोक्य वाचं निश्चारयति स्म: दुःखो भवन्तः संसारः, परमदुःखः संसारः । इत्य् उक्त्वा तूष्णीम् अवस्थितः । तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते: किं भवतु दारकस्य नामेति । ज्ञातय ऊचुः: यस्माद् अयं जातमात्र एव संसार इति घोषयति, तस्माद् भवतु दारकस्य संसार इति नामेति । संसारो दारको ऽष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्* । सो ऽष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैः । आशु वर्धते ह्रदस्थम् इव पङ्कजम्* ।

यदा संसारो दारकः क्रमेण महान् संवृत्तः, स प्रकृतिजातिस्मरत्वाच् च जनकायस्य धर्मं देशयति: मा भवन्तो गुरुषु गुरुस्थानीयेषु मातापितृष्व् आचार्योपाध्यायेषु वा खरवाचं निश्चारयत । दुःखं संसार इति । यावद् अपरेण समयेन इतश् चामुतश् च परिभ्रमञ् जेतवनं निर्गतः । अथासौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* । सहदर्शनाच् चानेन भगवतो ऽन्तिके चित्तं प्रसादितम्* । प्रसादजातो भगवतः पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णो धर्मश्रवणाय । तस्मै भगवता संसारवैराग्यिकी धर्मदेशना कृता, यां श्रुत्वा संसारो दारकः संसारे दोषदर्शी भूत्वा मातापितराव् अनुज्ञाप्य भगवच्छासने प्रव्रजितः । तेन युज्यमानेन घटमानेन व्यायच्छमानेन इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । अर्हन् संवृत्तः त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः । सो ऽर्हत्वप्राप्तो ऽपि भिक्षूणां धर्मं देशयति: मा आयुष्मन्तो गुरुषु गुरुस्थानीयेषु मातापितृष्व् आचार्योपाध्यायेषु {वा} खरवाचं निश्चारयत । दुःखं संसारः, परमदुःखं संसार इति । ++++++++++++++॥
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त संसारेण कर्माणि कृतानि, येन पञ्च जन्मशतानि मृतकुणप एव मातुः कुक्षेर् निर्गतः । प्रव्रज्य
-------------------- वैद्य, प्. 246 --------------------
चार्हत्वं साक्षात्कृतम् इति । भगवान् आह: संसारेणैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । संसारेण कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च:
न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि ।
सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्*

मूल पाठ: Avadānaśataka · Edition: the following editions: (1) Ed. P.L. Vaidya, Darbhanga 1958 (Buddhist Sanskrit Texts ; 19) and (2) Ed. J.S. Speyer, St. Petersbourg, 2 vols., 1906-1909 (Bibliotheca Buddhica ; 3) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc