भाषा

ENहिગુ
ग्रंथ पाठ

अवदानशतक · अध्याय 94

94.1

भूतपूर्वं भिक्षवो ऽतीते ऽध्वन्य् अस्मिन्न् एव भद्रके कल्पे विंशतिसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* । स वाराणसीं नगरीम् उपनिश्रित्य विहरति ऋषिपतने मृगदावे । यावत् तत्र द्वौ भिक्षू संशीलिकौ । तत्रैको बहुश्रुतो ऽर्हन्*, द्वितीयो ऽल्पश्रुतः पृथग्जनश् च । तत्र यो ऽसाव् अर्हन्* बहुश्रुतः, स ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां बहूनि च निमन्त्रणकानि प्रतिलभते । स तं संशीलिकभिक्षुं यत्र निमन्त्रितो भवति, तत्र पश्चाच्छ्रमणं नयति । यावद् अन्यतमस्मिन् दिवसे ऽर्हन् निमन्त्रितः । निमन्त्रणकं गन्तुकामस् तं पश्चाच्छ्रमणम् आगच्छति, न च प्रतिलभते । ततस् तेन तस्यादर्शनाद् अन्यो भिक्षुर् नीतः । यावत् तत्र तरुणभिक्षुभिर् औद्धत्याभिप्रायैर् एवम् उक्तम्*: पश्यत भदन्ता यावत् तेनायं पश्चाच्छ्रमणो ऽद्य न नीतो ऽन्यो नीत इति । ततस् तेन क्रोधाभिभूतेनार्हतो ऽन्तिके चित्तं प्रदूष्य खरं वाक्कर्म निश्चारितम्* । # # # # # # # # # # # # तेन पञ्च जन्मशतान्य् अहस्तो जातः । यदा आशयतो विप्रतिसारजातेन अत्ययम् अत्ययतो देशितं विवृतम् उत्तानीकृतम्*, तेन हस्तौ प्रतिलब्धौ । यत् पुनस् तेन पठितं स्वाध्यायितं स्कन्धकौशलं धातुकौशलम्
-------------------- वैद्य, प्. 241 --------------------
आयतनकौशलं प्रतीत्यसमुत्पादकौशलं च कृतम्*, तेन मम शासने प्रव्रज्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_94 लेकुञ्चिकः । (एद्. स्पेयेर्, वोल्. इइ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । श्रावस्त्याम् अन्यतमो ब्रह्मण आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तेन सदृशात् कुलात् कलत्रम् आनीतम्* । स तया सार्धं क्रीडति रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्वा संवृत्ता । सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता । दारको जातो दुर्वर्णो दुर्दर्शनो ऽवहोडिमकः । जातमात्रस्य चास्य मातुः स्तनाभ्यां क्षीरम् अन्तर्हितम्* । यावत् तेन ब्राह्मणेन तस्यान्या धात्री आनीता । तस्या अपि क्षीरम् अन्तर्हितम्* । तस्य दारिकस्य कर्मविपाकतः । यदास्य क्षीरसंभवः सर्वैर् अप्य् उपायैर् न संभवति, तदासौ लेहेनोद्भृतः (स्पेयेर्: लेहेनोद्धृतः) । तस्य लेकुञ्चिक इति नामधेयं कृतम्* । सो ऽल्पेशाख्यो ऽल्पपुण्यश् च ॥
यदा महान् संवृत्तस् तदा उदरपूरणम् अपि नासादयति । पश्यति च भिक्षून् सुनिवसितान् सुप्रावृतान् भ्रमरसदृशानि पात्राणि गृहीत्वा श्रावस्तीं पिण्डाय प्रविशतः । तांश् च पूर्णहस्तान् पूर्णपात्रान् प्रतिनिष्क्रामतः । तस्य दृष्ट्वा भगवच्छासने प्रव्रज्याभिलाष उत्पन्नः । स मातापितराव् अनुज्ञाप्य भगवच्छासने प्रव्रजितो ऽप्य् उदरपूरणं नासादयति । तेन तेनैव संवेगेन युज्यमानेन घटमानेन व्यायच्छमानेन इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । अर्हन् संवृत्तः त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः ॥
-------------------- वैद्य, प्. 242 --------------------
यावद् असाव् अपरेण समयेन भगवतो गन्धकुटीं संमार्जितुं प्रवृत्तः । स तां संमृज्य पात्रचीवरम् आदाय श्रावस्तीं पिण्डाय प्राविक्षत्* । ततस् तेन प्रभूतः प्रणीतश् च पिण्डपात आसादितः, येनास्य संतर्पितानीन्द्रियाणि महाभूतानि । ततस् तेन संतर्पितेन्द्रियेण कृत्स्ना रात्रिर् ध्यानविमोक्षसमापत्तिभिर् अतिनामिता । ततो ऽस्य बुद्धिर् उत्पन्ना: शोभनो ऽयम् उपायो यन्व् अहं भिक्षुसंघं विज्ञापयेयम् इति । तेन सर्व एव भिक्षुसंघो विज्ञापितः: अहं भदन्त अल्पपुण्यो यदा गन्धकुटीं संमृज्य पिण्डपातं प्रविशामि, तदा तृप्तिं लभे । तन् मे संघः कारुण्यं करोतु, नान्येन भगवतो गन्धकुटी संम्राष्टव्येति । ततः संघेन क्रियाकारः कृतः: न केनचिद् भगवतो गन्धकुटी संम्राष्टव्येति । स विस्रब्धो गन्धकुटीं संमृज्य पश्चाच् छ्रावस्तीं पिण्डाय प्रविशति ॥
तस्मिंश् च समये आयुष्माञ् छारद्वतीपुत्रः पञ्चशतपरिवारो जनपदे वर्षोषितः श्रावस्त्याम् अभ्यागतः । ततः शास्तुर् गौरवजातो गन्धकुटीं संमार्ष्टुम् आरब्धः । स आयुष्मता लेकुञ्चिकेन लक्षितः । तेनोच्यते: स्थविर उदरे मम प्रहारो दत्तः, यत् ते गन्धकुटी संमृष्टेति । स्थविरः प्राह: कथम् इति? लेकुञ्चिकः कथयति: स्थविर, यदाहं गन्धकुटीं न संमार्जितवांस् तदा पिण्डपातं नासादयामीति । ततः स्थविरशारिपुत्रेणोक्तम्: यद्य् एवम् अहम् अन्यत्र निमन्त्रितः । अल्पोत्सुकस् त्वं भव । अहं तत्र तुभ्यं पिण्डपातं दास्यामीति । ततः स्थविरशारिपुत्रः पञ्चशतपरिवारो निमन्त्रणकं प्रस्थितः । लेकुञ्चिको ऽपि तेनैव सार्धं संप्रस्थितः । यदा गृहपतेर् गृहसमीपं गतस् तदा लेकुञ्चिकस्य कर्मविपाकेन तस्मिन् गृहे महान् कलहः समुत्पन्नः । तत आयुष्मतो लेकुञ्चिकस्यैतद् अभवत्: ममाल्पपुण्यतया तत्र कलहो जात इति । ततः प्रतिनिवृत्य विहारं गत्वा भक्तच्छेदम् अकरोत्* । ततो द्वितीये दिवसे स्थविरशारिपुत्रेणोच्यते: किमर्थं त्वं न गत इति । तेनोक्तम्*: स्थविरेण नावगतम्*: ममाल्पपुण्यतया यादृशस् तत्र कलहो जात इति । ततः स्थविरशारिपुत्रेणान्यत्र दिवसे तं पुरस्कृत्य तद् गृहं प्रवेशितः । संघमध्ये चोपविष्टस्य सतः प्रदक्षिणश् चाहारो दीयते । तत्र परिवेषकजनो विस्मरति । तेन संघमध्ये द्वितीयो भक्तच्छेदः कृतः ॥

यावद् इयं प्रवृत्तिः स्थविरानन्देन श्रुता । श्रुत्वा च लेकुञ्चिकम् उवाच: तेन हि त्वम् इहैव जेतवने तिष्ठ, अहं ते पिण्डपातम् आनेष्यामीति । स्थविरानन्दस्यैवंविधा स्मृतिः । यदा भगवतो ऽन्तिकाद् अशीतिर् धर्मस्कन्धसहस्राण्य् उद्गृहीतानि # # # । लेकुञ्चिकस्य च कर्मावरणेन स्थविरानन्देन विस्मृतम्* । तत्रानेन तृतीयो भक्तच्छेदः कृतः । चतुर्थे दिवसे स्थविरानन्देनास्थां कृत्वा पिण्डपातो दत्तः । सो ऽपि निर्गच्छतः श्वभिर् अपहृतः । तत्रानेन चतुर्थो भक्तच्छेदः कृतः ॥
-------------------- वैद्य, प्. 243 --------------------
पञ्चमे दिवसे स्थविरमौद्गल्यायनेन श्रुत्वा लेकुञ्चिकस्याथाय पिण्डपातं गृहीत्वा ऋद्ध्या संप्रस्थितम्* । लेकुञ्चिकस्य कर्मविपाकेन सुपर्णिना पक्षिराजेन पक्षैः पराहत्य महासमुद्रे पातितः । तत्रानेन पञ्चमो भतच्छेदः कृतः ॥
षष्ठे दिवसे शारिपुत्रेण श्रुतम्* । तस्यैतद् अभवत्*: यन्व् अहं लेकुञ्चिकस्य पिण्डपातं ###################### लेकुञ्चिकस्य कुटिकाद्वारे ऽवस्थितः । ततो लेकुञ्चिकस्य कर्मविपाकेन तद् अपि द्वारं शिलाभिर् आवृतम्* । ततः शारिपुत्रेण ऋद्ध्या मोक्ष्यामीति तत् पात्रं पृथिव्यां स्थापितम्* । तद् अपि लेकुञ्चिकस्य कर्मविपाकेन । अथाशीतिषु योजनसहस्रेषु काञ्चनमय्यां पृथिव्याम् अवस्थितम्* । ततो ऽपि स्थविरशारिपुत्रेण ऋद्ध्या समुद्धृत्य तत् पिण्डकं मुखद्वारश्लेषिते पिण्डपाते तस्य कर्मावरणेन तन् मुखम् एकधनं संवृत्तम्* । तत आयुष्माञ् छारिपुत्रो लेकुञ्चिकस्याभव्यतां ज्ञात्वा संविग्नः । तेन च भदन्तेन षड् भक्तच्छेदाः कृताः ॥
ततः सप्तमे दिवसे आयुष्माल् लेकुञ्चिकः सत्वानाम् उद्वेजनार्थं कर्मणां चाविप्रणशसंदर्शनार्थं कर्मबलोद्भावनार्थं च भस्मना पात्रं पूरयित्वा बुद्धप्रमुखस्य भिक्षुसंघस्य पुरस्तान् निषद्य उदकेनालोड्य पीत्वा निरुपधिशेषे निर्वाणधातौ परिनिर्वृतः । तम् अभिवीक्ष्य भिक्षवः संविग्नाः तस्य शरीरे शरीरपूजां कृत्वा संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त लेकुञ्चिकेन कर्माणि कृतानि, येनार्हत्वप्राप्तो ऽपि षड् भक्तच्छेदान् कृत्वा सप्तमे दिवसे निरुपधिशेषे निर्वाणधातौ परिनिर्वृत इति । भगवान् आह: लेकुञ्चिकेनैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । लेकुञ्चिकेन कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च:
न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि ।
सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्*

मूल पाठ: Avadānaśataka · Edition: the following editions: (1) Ed. P.L. Vaidya, Darbhanga 1958 (Buddhist Sanskrit Texts ; 19) and (2) Ed. J.S. Speyer, St. Petersbourg, 2 vols., 1906-1909 (Bibliotheca Buddhica ; 3) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc