अवदानशतक · अध्याय 93
भूतपूर्वं भिक्षवो ऽतीते ऽध्वन्य् अस्मिन्न् एव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* । स वाराणसीं नगरीम् उपनिश्रित्य विहरति ऋषिपतने मृगदावे । तत्रान्यतरः श्रेष्ठीपुत्रः स्थविरसकाशे प्रवजितः । स च स्थविरो ऽर्हन्, स रागविप्रहीणः । यावत् तत्र देशे पर्व प्रत्युपस्थितम्* । ततस् तरुणभिक्षुणा स्थविर उत्थाप्यते: उत्तिष्ठ गोचरग्रामं गमिष्याव इति । स्थविर आह: वत्स अद्यापि प्रग् एव, गच्छ तावत् कुशलपक्षं प्रतिजागृहीति । द्विर् अपि त्रिर् अपि तरुणभिक्षुणा स्थविर उत्थाप्यते: उत्तिष्ठ गोचरग्रामं गमिष्याव इति । द्विर् अपि त्रिर् अपि स्थविर आह: वत्स, अद्यापि प्रग् एव, गच्छ तावत् कुशलपक्षं प्रतिजागृहीति । ततस् तेन तरुणभिक्षुणा आहारगृद्ध्रेण (स्पेयेर्: आहारगृध्रेण) खरं वाक्कर्म निश्चारितम्* । # # # # # # ॥ # # # {मा स्वपिहि गृहे षष्टि वर्षसहस्राणि}, तस्य कर्मणो विपाकेन षष्टि वर्षसहस्राणि मातुः कुक्षाव् उषितः । यद् अभूद् धर्ममात्सर्यं तेन दुःप्रज्ञः, कृच्छ्रेणेन्द्रियाणि परिपाचितानि । यद् अनेन तत्र पठितं स्वाध्यायितं स्कन्धकौशलं प्रतीत्यसमुत्पादकौशलं स्थानास्थानकौशलं च कृतम्*, तेन मम शासने प्रव्रज्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । तस्मात् तर्हि भिक्षवो वाग्दुश्चरितप्रहाणाय व्यायन्तव्यम्* । एते दोषा न भविष्यन्ति, ये स्थविरकस्य पृथग्जनभूतस्य । एष एव गुणगणो भविष्यति यस् तस्यैवार्हत्वं प्राप्तस्य । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
-------------------- वैद्य, प्. 239 --------------------
अव्श्_93 हस्तकः । (एद्. स्पेयेर्, वोल्. इइ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । श्रावस्त्याम् अन्यतमः श्रेष्ठी आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तेन सदृशात् कुलात् कलत्रम् आनीतम्* । स तया सार्धं क्रीडति रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्वा संवृत्ता । सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता । दारको जातो ऽभिरूपो दर्शनीयः प्रासादिकः सर्वाङ्गप्रत्यङ्गोपेतः प्रकृतिजातिस्मरश् च । स स्वकं हस्तं गृहीत्वा आलिङ्गते चुम्बति परिष्वजति, वाचं भाषते: अहो बत मे हस्तकौ सुचिरेण लब्धौ, अहो बत मे हस्तकौ सुचिरेण लब्धकाव् इति । तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते: किं भवतु दारकस्य नामेति । ज्ञातय ऊचुः: यस्माद् अयं जातमात्र एव हस्ताव् आलिङ्गते चुम्बति, तस्माद् भवतु दारकस्य हस्तक इति नामेति । हस्तको दारक अष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्* । सो ऽष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैः । आशु वर्धते ह्रदस्थम् इव पङ्कजम्* । यदा तत्र देशे किंचिद् भवति भयम्*, तदा स जनकायो भीत इतश् चामुतश् चोद्भ्रान्तो भाण्डं गोपायति । स तु हस्तौ गोपायति, जनकायस्य चैवं कथयति: मा भवन्तो दक्षिणीयेषु चित्तं प्रदूषयत, मा परुषां वाचं भाषयध्वम्*, अहो बत मे हस्तकौ सुचिरेण लब्धकौ, अहो बत मे हस्तकौ सुचिरेण लब्धकाव् इति ॥
यावद् अपरेण समयेन हस्तको जेतवनं गतः । अथासौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* । सहदर्शनाच् चानेन भगवतो ऽन्तिके चित्तं प्रसादितम्* । स प्रसादजातो भगवतः पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णो धर्मश्रवणाय । ततो ऽस्य भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा हस्तकेन विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतापत्तिफलं साक्षात्कृतम्* । स दृष्टसत्यो मातापितराव् अनुज्ञाप्य भगवच्छासने प्रव्रजितः । तेन युज्यमानेन घटमानेन व्यायच्छमानेन इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । अर्हन् संवृत्तः त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो
-------------------- वैद्य, प्. 240 --------------------
भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः । सो ऽर्हत्वप्राप्तो ऽप्य् एवम् एव भिक्षूणां धर्मं देशयति: मा भवन्तो दक्षिणीयेषु चित्तं प्रदूषयत, मा खरां वाचं निश्चारयत । अहो बत मे हस्तकौ सुचिरेण लब्धकौ, अहो बत मे हस्तकौ सुचिरेण लब्धकाव् इति ॥
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त हस्तकेन कर्माणि कृतान्य् उपचितानि येनार्हत्वप्राप्तो ऽप्य् एवम् एव कथयति: अहो बत मे हस्तकौ सुचिरेण लब्धकौ, अहो बत मे हस्तकौ सुचिरेण लब्धकाव् इति । भगवान् आह: प्रत्यक्षकर्मफलदर्शी भिक्षवो ऽयं पुद्गलः । इच्छथ यूयम् अवधारयितुम्*? एवं भदन्त । हस्तकेनैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । हस्तकेन कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च:
न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि ।
सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्*
मूल पाठ: Avadānaśataka · Edition: the following editions: (1) Ed. P.L. Vaidya, Darbhanga 1958 (Buddhist Sanskrit Texts ; 19) and (2) Ed. J.S. Speyer, St. Petersbourg, 2 vols., 1906-1909 (Bibliotheca Buddhica ; 3) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0