भाषा

ENहिગુ
ग्रंथ पाठ

अवदानशतक · अध्याय 92

92.1

भूतपूर्वं भिक्षवो ऽतीते ऽध्वन्य् अस्मिन्न् एव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* । स वाराणसीं नगरीम् उपनिश्रित्य विहरति ऋषिपतने मृगदावे । तत्रायं प्रव्रजितो बभूव । तत्रानेन दानप्रदानानि दत्तानि, दशवर्षस्हस्राणि ब्रह्मचर्यवासः परिपालितः, प्रणिधानं च कृतम्*: अनेनाहं कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च यो ऽसौ भगवता काश्यपेन उत्तरो नाम माणवो व्याकृतः: भविष्यसि त्वं माणव वर्षशतायुषि प्रजायां शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्ध इति, तस्याहं शासने प्रव्रज्य अरणाविहारिणाम् अग्रः स्याम् इति ॥
# # # कानि कर्माणि कृतानि येन नागेषूपपन्नः? अप्रहीणत्वात् क्लेशानाम् उद्भ्रान्तत्वाद् इन्द्रियाणाम् अपर्यन्तीकृतत्वात् कर्मपथानां शैक्षाशैक्षभिक्षुषु चित्तं प्रदूष्य आशीविषवादेन समुदाचरिताः, तेन नागेषूपपन्नः । यत् तेन दानप्रदानानि दत्तानि, ब्रह्मचर्यवासः परिपालितः, तेनेदानीम् अर्हत्वं साक्षात्कृतम्*, अरणाविहारिणां चाग्रो निर्दिष्टः । इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_92 स्थविरः । (एद्. स्पेयेर्, वोल्. इइ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो राजगृहम् उपनिश्रित्य विहरति वेणुवने कलन्दकनिवापे । अन्यतमः श्रेष्ठी आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तेन सदृशात् कुलात् कलत्रम् आनीतम्* । स तया सार्धं क्रीडति रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्वा संवृत्ता, न प्रसूयते । यावद् भूयस् तयैव सार्धं क्रीडति रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातः । स प्रथमगर्भो यथावस्थितः एव मातुर् उदरे । यावत् तस्याः क्रमशो दश
-------------------- वैद्य, प्. 234 --------------------
पुत्रा जाताः । स प्रथमगर्भो मातुर् उदरस्थ एव । यावद् असौ गृहपतिपत्नी ग्लान्यपतिता । सा उपस्थीयते मूलगण्डपत्रपुष्पफलभैषज्येन । न चासौ व्याधिर् उपशमं गच्छति । यदा चास्या मरणान्तिकी वेदना प्रादुर्भूता नचिरेण कालं करिष्यतीति, तदा तया स्वामी उक्तः: यत् खल्व् आर्यपुत्र जानीयाः ममात्र प्रथमगर्भो ऽवतिष्ठते । यदाहं मृता भवामि, तदा दक्षिणपार्श्वं शस्त्रेण घातयित्वा ततः प्रथमस्थितं दारकम् उद्धरेथाः । इत्य् उक्त्वा:
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः ।
संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम्*

92.2

इत्य् उक्त्वा कालधर्मेण संयुक्ता ॥
तस्याः कालगताया नीलपीतलोहितावदातैर् वस्त्रैः शिबिकाम् (स्पेयेर्: शिविकाम्) अलंकृत्य शीतवनं श्मशानं नीत्वा जीवको (स्पेयेर्: जीविको) वैद्यराज आहूतः । एष च शब्दो राजगृहे नगरे समन्ततो विसृतः: एवम् अमुकस्त्रिया इयन्ति वर्षाणि गर्भः स्थितः, तस्याश् चान्ये दश पुत्रा जाताः, न चासौ प्रथमतरम् अवस्थितो गर्भो निर्गतः । अद्य जीवको वैद्यराजः शस्त्रेण मृताया उदरं घातयित्वा तं प्रथमस्थितं दारकम् उद्धरिष्यतीति । तं शब्दं श्रुत्वा कुतूहलाद् बहूनि प्राणिशतसहस्राणि शीतवनश्मशाने संनिपतितानि । पूरणप्रभृतयश् च षट्* शास्तृप्रतिज्ञाः । तत्र भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते: गच्छ आनन्द, भिक्षूणां कथय, भगवान् श्मशानचारिकां गन्तुकामः, यो ऽद्भुतानि द्रष्टुकामः, स आगच्छत्व् इति । यावद् भगवान् आज्ञातकौण्डिन्यबाष्पमहानामानिरुद्धशारिपुत्रमौद्गल्यायनकाश्यपानन्दरेवतप्रभृतिभिर् महाश्रावकैः परिवृतः शीतवनश्मशानं गतः । जनकायेन च भगवन्तं दृष्ट्वा विवरं कृतम्* । तत्र जीवकेन तस्याः स्त्रिया दक्षिणः कुक्षिः पाटितः । ततः स्वयम् एव निर्गतो वलिपलितचिताङ्गः परिजीर्णशरीरावयवः: परिणतेन्द्रियः कृशो ऽल्पस्थामः । निर्गतमात्रश् च तं जनकायम् अवलोक्य वाचं निश्चारयति स्म: मा भवन्तो गुरुषु गुरुस्थानीयेषु मातापितृष्व् आचार्योपाध्यायेषु खरां वाचं निश्चारयत । मा हैवंविधाम् अवस्थाम् अनुभविष्यथ, यद् अहम् आमाशयपक्वाशययोर् मध्ये षष्टि वर्षाण्य् उषितः । इत्य् उक्त्वा तूष्णीम् अवस्थितः । तत्र भगवान् भिक्षून् आमन्त्रयते स्म: तृप्यत भिक्षवः सर्वभवोपपत्तिभ्यः, तृप्यत सर्वभवोपपत्त्युपकरणेभ्यः, यत्र नाम चरमभविकस्य सत्वस्येयम् अवस्था । तत्र भगवांस् तं दारकम् आमन्त्रयते: स्थविरको ऽसि दारकः? स्थविरको ऽहं भगवन्* । स्थविरको ऽसि दारक? स्थविरको ऽस्मि सुगत । स्थविरक इति संज्ञा जाता । ततो भगवता तदधिष्ठाना तथाविधा धर्मदेशना कृता, यां श्रुत्वा संविग्नैर् बहुभिः सत्वशतैर् महान् विशेषो ऽधिगतः ॥
स च दशवर्षाणि गृहागारम् अध्यास्य सप्ततिवर्षो भगवच्छासने प्रव्रजितः । गृध्रकूटे पर्वते पञ्चविंशत्या भिक्षुभिः सार्धं वर्षा उपगतः । तत्र संघस्थविरेण क्रियाकारं कारितः: न केनचित् पृथग्जनेन प्रवारयितव्यम् इति । त्रयाणां मासानाम् अत्ययाच् चतुर्विंशत्या भिक्षुभिर् अर्हत्वं प्राप्तम्* । स्थविर एकः पृथग्जन एव । ततः संघस्थविरेण प्रवारणायां वर्तमानायां सुबहु परिभाष्य गणमध्यान् निष्कासितः । स शस्त्रम् आदाय कुटिं प्रविश्य रुदन् बहुविधं परिदेवते । आह च:
-------------------- वैद्य, प्. 235 --------------------
आदीप्तं काननं सर्वं पर्वता पि पलीकृता ।
अथेदं पापकं चित्तम् अद्यापि न विमुच्यते

92.3

शान्ता गिरिनदीशब्दाः परीत्तसलिलोदकाः ।
अथेदं पापकं चित्तम् अद्यापि न विमुच्यते

92.4

एते ह्य् अण्डजाः पक्षिणो विरता मन्दघोषकाः ।
अथेदं पापकं चित्तम् अद्यापि न विमुच्यते

92.5

पाण्डुपत्रं वनं ह्य् एतच्छीऋनपत्रो वनस्पतिः ।
अथेदं पापकं चित्तम् अद्यापि न विमुच्यते

92.6

शस्त्रम् आराधयिष्यामि को न्व् अर्थो जीवितेन मे ।
कथं पृथग्जनो भूत्वा शास्तारम् उपसंक्रमे

92.7

इति
अत्रान्तरे नास्ति किंचिद् बुद्धानां भगवताम् अज्ञातम् अदृष्टम् अविदितम् अविज्ञातम्* । धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां लोकानुग्रहप्रवृत्तानाम् एकारक्षाणाम् शमथविपश्यनाविहारिणां त्रिदमथवस्तुकुशलानां चतुरोघोत्तीर्णानां चतुरृद्धिपादचरणतलसुप्रतिष्ठितानां पञ्चाङ्गविप्रहीणानां पञ्चगतिसमतिक्रान्तानां षडङ्गसमन्वागतानां षट्पारमितापरिपूर्णानां सप्तबोध्यङ्गकुसुमाढ्यानाम् अष्टाङ्गमार्गदेशिकानां नवानुपूर्वविहारसमापत्तिकुशलानां दशबलबलिनां दशदिक्समापूर्णयशसां दशशतवशवर्तिप्रतिविशिष्टानां त्री रात्रेस् त्रिर् दिवसस्य बुद्धचक्षुषा लोकं व्यवलोक्य ज्ञानदर्शनं प्रवर्तते: को हीयते को वर्धते कः कृच्छ्रप्राप्तः कः संकटप्राप्तः कः संबाधप्राप्तः कः कृच्छ्रसंकटसंबाधप्राप्तः, को ऽपायनिम्नः को ऽपायप्रवणः को ऽपायप्राग्भारः । कम् अहम् अपायाद् उद्धृत्य स्वर्गे मोक्षे च प्रतिष्ठापयेयम्*, कस्यानवरोपितानि कुशलमुलान्य् अवरोपयेयम् *{कस्यावरोपितानि परिपाचयेयम्}*, कस्य परिपक्वानि विमोचयेयम्* । आह च:
अप्य् एवातिक्रमेद् वेलां सागरो मकरालयः ।
न तु वैनेयवत्सानां बुद्धो वेलाम् अतिक्रमेत्

92.8

यावद् भगवता समन्वाहृत्या चोपसंक्रम्य तथाविधा धर्मदेशना कृता, यां श्रुत्वा स्थविरकेण इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । अर्हन् संवृत्तः त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः ॥
-------------------- वैद्य, प्. 236 --------------------
ततः स्थविरो ऽर्हत्वप्राप्तः समन्वाहर्तुं प्रवृत्तः: ममापि कश्चिद् विनेय इति । पश्यति पञ्चमात्राणि वणिक्शतानि कालिकावातवित्रासितानि अपायाद् व्यसनाभिमुखानि, मया तस्माद् भयात् परित्रातव्यानीति । तेन मम विनेया भविष्यन्तीति । ततः स्थविरेण ऋद्ध्या गत्वा तस्माद् भयात् परित्राताः । ततः प्रसादजाताः सर्व एव प्रव्रजिताः, मनसिकारश् चैष दत्तः । तैः सर्वैर् एव युज्यमानैर् घटमानैर् व्यायच्छमानैः सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । तेषां च गुणेषु न कश्चित् प्रत्यक्षः । षड्वर्गिका अवध्यायितुं प्रवृत्ताः: महल्लेन भूत्वा पञ्च सार्धविहारिणां (स्पेयेर्: सार्धंविहारिणां) शतानि उपस्थापितानि । एते ऽप्य् एवम् एव विनीता भविष्यन्तीति ॥
तत आयुष्मान् आनन्दः सब्रह्मचारिवत्सलः परानुग्रहप्रवृत्त आयुष्मन्तं स्थविरकनामान् उद्भावयितुकामो येनायुष्मान् स्थविरनामा तेनोपसंक्रान्तः । उपसंक्रम्य आयुष्मता स्थविरेण स्थविरनाम्ना भिक्षुणा सार्धं संमुखं संमोदनीं संरञ्जनीं विविधां कथां व्यतिसार्य एकान्ते निषण्णः । एकान्ते निषण्ण आयुष्मान् आनन्दः स्थविरं स्थविरकनामन् इदम् अवोचत्*: पृच्छेम वयम् आयुष्मन्तं स्थविरं स्थविरकनामानं कंचिद् एव प्रदेशम्*, सचेद् अवकाशं कुर्याः प्रश्नस्य व्याकरणाय । आयुष्मन्न् आनन्द, श्रुत्वा ते वेदयिष्ये । अरण्यगतेनायुष्मन् स्थविर भिक्षुणा वृक्षमूलगतेन शून्यागारगतेन कतमे धर्मा अभीक्ष्णं मनसिकर्तव्याः? आह: अरण्यगतेन आयुष्मन्न् आनन्द भिक्षुणा वृक्षमूलगतेन शून्यागारगतेन द्वौ धर्माव् अभीक्ष्णं मनसिकर्तव्यौ: शमथश् च विपश्यना च । शमथः (स्पेयेर्: शमथ) स्थविर आसेवितो भावितो बहुलीकृतः कम् अर्थं प्रत्यनुभवति? विपश्यना आसेविता भाविता बहुलीकृता कम् अर्थं प्रत्यनुभवति? शमथ आयुष्मन्न् आनन्द आसेवितो भावितो बहुलीकृतो विपश्यनाम् आगम्य विमुच्यते । विपश्यना आसेविता भाविता बहुलीकृता शमथम् आगम्य विमुच्यते । शमथविपश्यनापरिभावितम् आयुष्मन्न् आनन्द श्रुतवतः आर्यश्रावकस्य चित्तं धातुशो विमुच्यते । तत्र स्थविर कतमे धातवः? यश् चायुष्मन्न् आनन्द प्रहाणधातुः, यश् च विरागधातुः, यश् च निरोधधातुः । कस्य नु स्थविर प्रहाणात् प्रहाणधातुर् इत्य् उच्यते? कस्य विरागाद् विरागधातुर् इत्य् उच्यते? कस्य निरोधान् निरोधधातुर् इत्य् उच्यते? सर्वसंस्काराणाम् आयुष्मन्न् आनन्द प्रहाणात् प्रहाणधातुर् इत्य् उच्यते । सर्वसंस्काराणां विरागाद् विरागधातुर् इत्य् उच्यते । सर्वसंस्काराणां निरोधान् निरोधधातुर् इत्य् उच्यते ।
अथायुष्मान् आनन्दः स्थविरस्य स्थविरकनाम्नो भिक्षोर् भाषितम् अभिनन्द्यानुमोद्य येन पञ्च भिक्षुशतानि तेनोपसंक्रान्तः । उपसंक्रम्य पञ्च भिक्षुशतानीदम् अवोचत्*: अरण्यगतेनायुष्मन्तो भिक्षुणा वृक्षमूलगतेन शून्यागारगतेन कतमे धर्मा अभीक्ष्णं मनसिकर्तव्याः? अरण्यगतेन आयुष्मन्न् आनन्द भिक्षुणा वृक्षमूलगतेन शून्यागारगतेन द्वौ धर्माव् अभीक्ष्णं मनसिकर्तव्यौ: शमथश् च विपश्यना च । शमथ आयुष्मन्त आसेवितो भावितो बहुलीकृतः कम् अर्थं प्रत्यनुभवति? विपश्यना आसेविता भाविता बहुलीकृता कम् अर्थं प्रत्यनुभवति? शमथ आयुष्मन्न् आनन्द आसेवितो भावितो बहुलीकृतो विपश्यनाम् आगम्य विमुच्यते । विपश्यना आसेविता भाविता बहुलीकृता शमथम् आगम्य विमुच्यते । शमथविपश्यनापरिभावितम् आयुष्मन्न् आनन्द श्रुतवतः
-------------------- वैद्य, प्. 237 --------------------
आर्यश्रावकस्य चित्तं धातुशो विमुच्यते । तत्र आयुष्मन्तः कतमे धातवः? यश् चायुष्मन्न् आनन्द प्रहाणधातुः, यश् च विरागधातुः, यश् च निरोधधातुः । कस्य नु आयुष्मन्तः प्रहाणात् प्रहाणधातुर् इत्य् उच्यते? कस्य विरागाद् विरागधातुर् इत्य् उच्यते? कस्य निरोधान् निरोधधातुर् इत्य् उच्यते? सर्वसंस्काराणाम् आयुष्मन्न् आनन्द प्रहाणात् प्रहाणधातुर् इत्य् उच्यते । सर्वसंस्काराणां विरागाद् विरागधातुर् इत्य् उच्यते । सर्वसंस्काराणां निरोधान् निरोधधातुर् इत्य् उच्यते ॥

आयुष्मान् आनन्दः पञ्चानां भिक्षुशतानां भाषितम् अभिनन्द्यानुमोद्य येन भगवांस् तेनोपसंक्रान्तः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते ऽस्थात्* । एकान्तस्थित आयुष्मान् आनन्दो भगवन्तम् इदम् अवोचत्*: अरण्यगतेन भदन्त भिक्षुणा वृक्षमूलगतेन शून्यागारगतेन कतमे धर्मा अभीक्ष्णं मनसिकर्तव्याः? अरण्यगतेनानन्द भिक्षुणा वृक्षमूलगतेन शून्यागारगतेन द्वौ धर्माव् अभीक्ष्णं मनसिकर्तव्यौ: शमथश् च विपश्यना च । शमथो भदन्त आसेवितो भावितो बहुलीकृतः कम् अर्थं प्रत्यनुभवति? विपश्यना आसेविता भाविता बहुलीकृता कम् अर्थं प्रत्यनुभवति? शमथ आनन्द आसेवितो भावितो बहुलीकृतो विपश्यनाम् आगम्य विमुच्यते । विपश्यना आसेविता भाविता बहुलीकृता शमथम् आगम्य विमुच्यते । शमथविपश्यनापरिभावितानन्द श्रुतवत आर्यश्रावकस्य चित्तं धातुशो विमुच्यते । तत्र भदन्त कतमे धातवः? यश् चानन्द प्रहाणधातुः, यश् च विरागधातुः, यश् च निरोधधातुः । कस्य नु भदन्त प्रहाणात् प्रहाणधातुर् इत्य् उच्यते? कस्य विरागाद् विरागधातुर् इत्य् उच्यते? कस्य निरोधान् निरोधधातुर् इत्य् उच्यते? भगवान् आह: सर्वसंस्काराणाम् आनन्द प्रहाणात् प्रहाणधातुर् इत्य् उच्यते । सर्वसंस्काराणां विरागाद् विरागधातुर् इत्य् उच्यते । सर्वसंस्काराणां निरोधान् निरोधधातुर् इत्य् उच्यते । आश्चर्यं भदन्त, यावच् छास्तुः श्रावकाणां च अर्थेनार्थः, पदेन पदम्*, व्यञ्जनेन व्यञ्जनं संस्यन्दते समेति यदुताग्रपदैः । तत् कस्य हेतोः? इहाहं भदन्त येन स्थविरः स्थविरकनामा भिक्षुस् तेनोपसंक्रान्तः । उपसंक्रम्य स्थविरं स्थविरकनामानं भिक्षुम् एतम् एवार्थम् एभिः पदैर् एभिर् व्यञ्जनैः प्रश्नं पृष्टवान्* । तेन मम एष एवार्थ एभिः पदैर् एभिर् व्यञ्जनैः प्रश्नं पृष्टेन व्याकृतः, तद्यथैतर्हि भगवता । सो ऽहम् आयुष्मतः स्थविरस्य स्थविरनाम्नो भिक्षोर् भाषितम् अभिनन्द्यानुमोद्य येन पञ्च भिक्षुशतानि तेनोपसंक्रान्तः । उपसंक्रम्य पञ्च भिक्षुशतान्य् एतम् एवार्थम् एभिः पदैर् एभिर् व्यञ्जनैः प्रश्नं पृष्टवान्* । तैर् अपि मम एष एवार्थ एभिः पदैर् एभिर् व्यञ्जनैः प्रश्नं पृष्टैर् व्याकृतः, तद्यथैतर्हि भगवता । तद् इदं
भदन्त आश्चर्यं यावच् छास्तुः श्रावकाणां च अर्थेनार्थः, पदेन पदम्*, व्यञ्जनेन व्यञ्जनं संस्यन्दते समेति यदुताग्रपदैः ॥
कं पुनस् त्वम् आनन्द स्थविरकं भिक्षुं संजानीयाः? स्थविरको भदन्त भिक्षुर् अर्हन् क्षीणाश्रवः कृतकृत्यः कृतकरणीयो ऽपहृतभारो ऽनुप्राप्तस्वकार्थः परिक्षीणभवसंयोजनः सम्यगाज्ञासुविमुक्तचित्तः । तान्य् अपि भिक्षुशतानि सर्वाण्य् अर्हन्ति क्षीणास्रवाणि कृतकृत्यानि कृतकरणीयान्य् अपहृतभाराण्य् अनुप्राप्तस्वकार्थः परिक्षीणभवसंयोजनः सम्यगाज्ञासुविमुक्तचित्तानि ॥
-------------------- वैद्य, प्. 238 --------------------
यदा भगवता आयुष्मतानन्देन स्थविरकस् ते च भिक्षव उद्भाविताः प्रकाशिताश् च, तदा भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त स्थविरकेण कर्माणि कृतान्य् उपचितानि, येन षष्टि वर्षाणि मातुः कुक्षाव् उषितः, कानि कर्माणि कृतानि येन धन्धः संवृत्तः परमधन्धः, प्रव्रज्य चार्हत्वं साक्षात्कृतम्*? भगवान् आह: स्थविरकेणैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । स्थविरकेण कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च:
न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि ।
सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्*

मूल पाठ: Avadānaśataka · Edition: the following editions: (1) Ed. P.L. Vaidya, Darbhanga 1958 (Buddhist Sanskrit Texts ; 19) and (2) Ed. J.S. Speyer, St. Petersbourg, 2 vols., 1906-1909 (Bibliotheca Buddhica ; 3) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc