अवदानशतक · अध्याय 91
भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि विदेहराजः सपरिवारः परचक्रवित्रासितो ऽटवीम् अनुप्राप्तः । स मध्याह्ने तीक्ष्णसूर्यरश्मिपरितापितः सबलौघ इतश् चामुतश् च परिभ्रमति, मार्गं च नासादयति । असति च बुद्धानाम् उत्पादे प्रत्येकबुद्धा लोक उत्पद्यन्ते हीनदीनानुकम्पकाः प्रान्तशयनासनभक्ता एकदक्षिणीया लोकस्य । यावद् अन्यतरः प्रत्येकबुद्धस् तस्मिन् कान्तारमार्गे प्रतिवसति । तेन कारुण्यम् उत्पाद्य तस्य विदेहराजस्य मार्गो व्यपदिष्टः, पानीयह्रदश् च दर्शितः, येन स राजा इष्टेन जीवितेनाच्छादितः । ततो राज्ञा प्रसादजातेन स्वनगरम् आनीय त्रैमास्यं सर्वोपकरणैर् उपस्थितः । परिनिर्वृतस्य चास्य शरीरस्तूपं कारयामास । प्रणिधानं च कृतवान्: अहम् अप्य् एवंविधानां गुणानां लभी स्याम्*, प्रतिविशिष्टतरं च शास्तारम् आरागयेयं मा विरागयेयम् इति ॥
भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन राजा बभूव, अयं स राष्ट्रपालः । अपराण्य् अपि राष्ट्रपालेन कर्माणि कृतान्य् उपचितानि । अस्मिन्न् एव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* । स वाराणसीं नगरीम् उपनिश्रित्य विहरति ऋषिपतने मृगदावे । तेन खलु समयेन वाराणस्यां नगर्यां कृकी राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नम्* । धार्मिको धर्मराजो धर्मेण राज्यं कारयति । तस्य कनीयान् पुत्र ऋषिपतनं गतः । अथासौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* । सहदर्शनाच्
-------------------- वैद्य, प्. 230 --------------------
चास्य भगवतो ऽन्तिके चित्तम् अभिप्रसन्नम्* । प्रसादजातो भगवतः पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णो धर्मश्रवणाय । ततो ऽस्य भगवता काश्यपेन धर्मो देशितः । तेन प्रसादजातेन भगवान् काश्यपः सपरिवार उपस्थितः । शरणगमनशिक्षापदानि गृहीतानि । परिनिर्वृतस्य च स्तूपे कनीयाञ् छत्रम् आरोपितवान्* ।
किं मन्यध्वे भिक्षवो यो ऽसौ राजपुत्रः, अयम् एवासौ राष्ट्रपालस् तेन कालेन तेन समयेन । अपराण्य् अपि राष्ट्रपालेन कर्माणि कृतान्य् उपचितानि । भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां महानगर्याम् अन्यतमो मूलिको ब्राह्मणः । स मूलानाम् अर्थे ऽन्यतमं पर्वतम् अभिरूढः । तेन तत्र पर्यटता वनान्ते ग्लानः प्रत्येकबुद्धो दृष्टः । ततस् तेन प्रसादजातेन तस्योपस्थानं कृतम्* । यदा ग्लान्याद् व्युत्थितः, तदा पिण्डकेन प्रतिपाद्य प्रणिधानं कृतम्*: अहम् अप्य् एवंविधानां {गुणानां} लभी स्याम्*, प्रतिविशिष्टतरं चातः शास्तारम् आरागयेयं मा विरागयेयम् इति ॥
किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन मूलिको ब्राह्मणः, अयम् एवासौ राष्ट्रपालः । तस्य कर्मणो विपाकेन संसारे न कदाचिद् दुःखम् अनुभूतवान्* । इदानीम् अप्य् आढ्ये राजकुले प्रत्याजातो ऽभिरूपो दर्शनीयः प्रासादिकः । तेनैव हेतुनार्हत्वं साक्षात्कृतम्* । इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
-------------------- वैद्य, प्. 231 --------------------
दशमो वर्गः ।
तस्योद्दानम्*:
सुभूतिः स्थविरश् चापि हस्त लेकुञ्चिकस् तथा ।
संसारो गुप्तिकश् चापि विरूपो गङ्गिकेन च ।
दीर्घनखः संगीतिश् च वर्गो भवति समुद्दितः ॥
अव्श्_91 सुभूतिः । (एद्. स्पेयेर्, वोल्. इइ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । यदा भगवता अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य श्रावका नियुक्तास् तेषु जनपदेषु विनेयजनानुग्रहार्थम्*, तदा ये ऽध्यायिनस् ते सुमेरुपरिषण्डायां ध्यानपरा स्थिताः । यावत् सुपर्णिपक्षिराजेन महासमुद्रान् नागपोतलक उद्धृतः । स तं सुमेरुपरिषण्डायाम् आरोप्य भक्षयितुम् आरब्धः । ततो नागपोतलको जीविताद् व्यपरोप्यमाणो महाश्रावकाणाम् अन्तिके चित्तम् अभिप्रसाद्य कालगतः ॥
स कालं कृत्वा श्रावस्त्यां भूतिर् नाम ब्राह्मणः, तस्याग्रमहिष्याः कुक्षाव् उपपन्नः । सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता । दारको जातो ऽभिरूपो दर्शनीयः प्रासादिकः । तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते: किं भवतु दारकस्य नामेति । ज्ञातय ऊचुः: यस्माद् अस्य पिता भूतिः, तस्माद् भवतु दारकस्य सुभूतिर् इति नामेति । सुभूतिर् दारक उन्नीतो वर्धितो महान् सम्वृत्तः । स पूर्वेण हेतुबलाधानेन अतीव रोषणः क्रोधपर्यवस्थानबहुलो मातापितृभ्याम् आथर्वणाद् विनिवर्त्य ऋषिषु प्रव्राजितः । स च तत्र ध्यानपरः संयतो ऽन्यतरद् वनषण्डम् उपनिश्रित्य विहरति । तत्र च वनषण्डे देवता प्रतिवसति दृष्टसत्या । तस्याः कारुण्यम् उत्पन्नम्*: अयं कुलपुत्रः क्रोधपर्यवस्थानबहलो विशेषं नाधिगच्छति । यन्व् अहम् एनं भगवद्दर्शने नियोजयेयम् इति । ततस् तया देवतया सुभूतेः पुरस्ताद् बुद्धस्य वर्णो भाषितो धर्मस्य च संघस्य च । ततः सुभूतेर् भगवद्दर्शनहेतोर् अभिलाष उत्पन्नः । ततो देवतया ऋद्ध्यनुभावाद् (स्पेयेर्: ऋद्ध्यानुभावाद्) भगवत्सकाशम् उपनीतः । अथासौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* । सहदर्शनाच् चास्य यो ऽभूत् सत्वेष्व्
-------------------- वैद्य, प्. 232 --------------------
आघातः, स प्रतिविगतः । ततः प्रसादजातो भगवतः पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णो धर्मश्रवणाय । तस्य भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा सुभूतिना कुलपुत्रेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतापत्तिफलं साक्षात्कृतम्* । स दृष्टसत्यो भगवच्छासने प्रव्रजितः । तेन युज्यमानेन घटमानेन व्यायच्छमानेन मैत्रीभावनया चित्तं दमयित्वा सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । अर्हन् संवृत्तः त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः ॥
तत्र आयुष्मान् सुभूतिः समन्वाहर्तुं प्रवृत्तः: कुतो ऽहं च्युतः, कुत्रोपपन्नः केन कर्मणेति । पश्यति: पञ्च जातिशतानि नागेभ्यश् च्युतो नागेष्व् एवोपपन्नः । तस्य बुद्धिर् उत्पन्ना: मया अतीव एवंविधो द्वेषप्रत्ययोपसंभारः कृतः, येनाहं पञ्च जन्मशतानि नागेषूपपन्नः । तेनैव हेतुना महद्व्यसनम् अनुभूतवान्* । इदानीं पुनस् तथा करिष्यामि यत् परेषाम् अन्तिके द्वेषोपसंभारो नोत्पत्स्यते । येन समन्वागतः कायस्य भेदाद् अपायं दुर्गतिं विनिपातं नरकेषूपपद्यते । सो ऽरण्यप्रतिपदं समादाय वर्तते । यदा संघे वा ग्रामे वा देशे वा जनपदे वा भिक्षाहेतोर् विहर्तुकामो भवति, तदा पूर्वतरं गोचरम् अवलोकयति: मा मां कश्चित् कारणेन दृष्ट्वा चित्तं प्रदूषयिष्यति, अन्ततः कुन्तपिपीलका अपीति । स तानीर्यापथेन प्रश्रितेनाभिरमयति । तेन तेषां सत्वानां चित्तप्रसादो भवति । एवंविधां सो ऽर्हत्वप्राप्तो ऽप्य् अपत्रपाम् अनुभवतीति । तत आयुष्मतः सुभूतेर् बुद्धिर् उत्पन्ना: यन्व् अहम् इदानीं महाजनानुग्रहार्थं कुर्याम् इति । ततस् तेन ऋद्ध्या पञ्च सुपर्णिशतानि निर्मितानि, यानि दृष्ट्वा नागा भीतास् त्रस्ता संविग्ना इतश् चामुतश् च संभ्रान्ताः । ततः सुभूतिना ऋद्धिबलेन पुनः परित्राताः । ततस् तेषां प्रसन्नचित्तानां मैत्री व्यपदिष्टा । पुनर् अपि महान्तं नागरूपम् अभिनिर्माय पञ्च गरुडशतान्य् अभिद्रुतानि । तेषाम् अपि भीतानां मैत्री व्यपदिष्टा । एवं तेन नागानां गरुडानां च पञ्च कुलशतानि विनीतानि । तत्र भगवान् भिक्षून् आमन्त्रयते स्म: एषो ऽग्रो मे भिक्षवो भिक्षूणां मम श्रावकाणाम् अरणाविहारिणां यदुत सुभूतिः कुलपुत्रः ॥
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त सुभूतिना कर्माणि कृतानि येनारणाविहारिणाम् अग्रो निर्दिष्ट इति । भगवान् आह: सुभूतिनैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । सुभूतिना कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ,
-------------------- वैद्य, प्. 233 --------------------
न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च:
न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि ।
सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्*
मूल पाठ: Avadānaśataka · Edition: the following editions: (1) Ed. P.L. Vaidya, Darbhanga 1958 (Buddhist Sanskrit Texts ; 19) and (2) Ed. J.S. Speyer, St. Petersbourg, 2 vols., 1906-1909 (Bibliotheca Buddhica ; 3) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0