अवदानशतक · अध्याय 90
भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्याम् अन्यतमः कोट्टमल्लकः क्षुत्क्षामपरिगतशरीरः इतश् चामुतश् चान्वाहिण्डते । यावद् अन्यतरा दारिका पूपलिका आदाय गच्छति । ततस् तेन कोट्टमल्लकेन सा दारिका पूपलिकानाम् अर्थे अभिभूता । ततो बलाद् एकाम् पूपलिकाम् आदाय इतस् ततः (स्पेयेर्: त<तस् त>तः) पलायितुम् आरब्धः । सा चास्य दारिका पृष्ठतः समनुबद्धैव । ततो ऽसौ कोट्टमल्लकः सहसा नदीचारिकाम् उत्तीर्णः । असति बुद्धानाम् उत्पादे प्रत्येकबुद्धा लोक उत्पद्यन्ते हीनदीनानुकम्पकाः प्रान्तशयनासनभक्ता एकदक्षिणीया लोकस्य । तदा अन्यतरः प्रत्येकबुद्धस् तस्य कोट्टमल्लकस्याग्रतः स्थितः । ततः कोट्टमल्लस्य तं प्रत्येकबुद्धं शान्तेर्यापथं दृष्ट्वा महान् प्रसादो जातः । तेन स्वं व्यसनम् अगणय्य प्रत्येकबुद्धाय पूपलिका प्रतिपादिता । तस्य विप्रहर्षसंजननार्थं विततपक्ष इव हंसराजो गगनतलम् अभ्युद्गम्य विचित्राणि प्रातिहार्याणि विदर्शयितुम् आरब्धः । ततः कोट्टमल्लकस् तद् अत्यद्भुतं देवमनुष्यावर्जनकरं प्रातिहार्यं दृष्ट्वा मूलनिकृत्ता इव द्रुमः पादयोर् निपत्य प्रणिधानं कर्तुम् आरब्धः: यन् मे सिद्धव्रतो दक्षिणीयः पूपलिकया प्रतिपादितः, अनेनाहं कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च यत्र यत्र जायेय, तत्र तत्रोच्चकुलीनः स्याम्*, एवंविधानां च धर्माणां लाभी स्याम्*, प्रतिविशिष्टतरं चातः शास्तारम् आरागयेयं मा विरागयेयम् इति ॥
भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन कोट्टमल्लकः, अयम् असौ भद्रिकः । यत् तेन प्रत्येकबुद्धः पूलिकया प्रतिपादितः, तस्य कर्मणो विपाकेनाढ्ये शाक्ये प्रत्यागतः । भूयः काश्यपे भगवति प्रव्रजितो बभूव । तत्रानेन दश वर्षसहस्राणि ब्रह्मचर्यावासः प्रतिपालितः । तेनेदानीम् आर्हत्वं साक्षात्कृतम्* । इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
-------------------- वैद्य, प्. 227 --------------------
अव्श्_90 राष्ट्रपालः । (एद्. स्पेयेर्, वोल्. इइ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः स्थूलकोष्ठम् उपनिश्रित्य विहरति स्थूलकोष्ठकीये वनषण्डे । तेन खलु समयेन स्थूलकोष्ठके कौरव्यो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नम् अखिलम् अकण्टकम्* । एकपुत्रम् इव राज्यं पालयति । तस्य भ्रातृपुत्रो राष्ट्रपालो नाम्ना अभिरूपो दर्शनीयः प्रासादिकः सर्वाङ्गप्रत्यङ्गोपेतः । तस्य विनयकालम् अवेक्ष्य भगवान् पूर्वाह्णे निवास्य पात्रचीवरम् आदाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतः स्थूलकोष्ठकं पिण्डाय प्रविष्टः । ददर्श राष्ट्रपालो बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* । सहदर्शनाच् चास्य भगवतो ऽन्तिके चित्तं प्रसन्नम्* । स प्रसादजातो भगवतः पादयोर् निपत्य प्रव्रज्यां याचते । ततस् तं भगवान् आह: वत्स अनुज्ञातो ऽसि मातापितृभ्याम् इति? राष्ट्रपालः कथयति: नो भदन्तेति । भगवान् आह: न हि वत्स तथागता वा तथागतश्रावका वा अनुज्ञातं मातापितृभ्यां प्रव्राजयन्ति, उपसंपादयन्ति चेति ॥
ततो राष्ट्रपालो मातापित्रोः सकाशम् उपसंक्रान्तः । उपसंक्रम्य बुद्धस्य वर्णं भाषते: दृष्टो मया भगवाञ् छाक्यमुनिः सम्यक्संबुद्धः । स्फीतं चक्रवर्तिराज्यम् अपहाय प्रव्रजितः षष्टिं चान्तःपुरसहस्राणि । मुण्डः संघाटिप्रवृत्तो ऽस्मिन्न् एव स्थूलकोष्ठके पिण्डपातम् अटति । तद् अर्हतो युवां माम् अनुज्ञातुम्*: यद् अहं तं भगवन्तं प्रव्रजितम् अनुप्रव्रजेयम् इति । ततो ऽस्य मातापितरौ नानुजानीतः । ततस् तेनैको भक्तच्छेदः कृतः । द्वौ त्रयो वा यावच् छड् भक्तच्छेदाः कृताः ॥
अथ राष्ट्रपालस्य मातापितरौ येन राष्ट्रपालो गृहपतिपुत्रस् तेनोपसंक्रान्तौ । उपसंक्रम्य राष्ट्रपालं गृहपतिपुत्रम् इदम् अवोचताम्*: यत् खलु तात राष्ट्रपाल जानीयाः: त्वं हि सुकुमारः सुखैषी । न त्वं जानको दुःखस्य । दुष्करं ब्रह्मचर्यम्*, दुष्करं प्राविवेक्यम्*, दुरभिरमम् एकत्वम्*, दुरभिसंबोधान्य् अरण्यवनप्रस्थानि, प्रान्तानि शयनासनान्य् अध्यावस्तुम्* । इहैव त्वं तात राष्ट्रपाल निषद्य कामांश् च परिभुङ्क्ष्व, दानानि च देहि, पुण्यानि च कुरु । एवम् उक्ते राष्ट्रपालो गृहपतिपुत्रस् तूष्णीम्* ॥
-------------------- वैद्य, प्. 228 --------------------
अथ राष्ट्रपालस्य गृहपतिपुत्रस्य मातापितरौ ज्ञातीन् उद्योजयतः: अङ्ग तावज् ज्ञातयः तातं राष्ट्रपालम् उत्थापयत । अथ राष्ट्रपालस्य गृहपतिपुत्रस्य ज्ञातयो येन राष्ट्रपालो गृहपतिपुत्रस् तेनोपसंक्रान्ताः । उपसंक्रम्य राष्ट्रपालं गृहपतिपुत्रम् एवम् अवोचन्: यत् खलु तात राष्ट्रपाल जानीयाः: त्वं हि सुकुमारः सुखैषी । न त्वं जानको दुःखस्य । दुष्करं ब्रह्मचर्यम्, दुष्करं प्राविवेक्यं, दुरभिरमम् एकत्वम्, दुरभिसंबोधान्य् अरण्यवनप्रस्थानि, प्रान्तानि शयनासनान्य् अध्यावस्तुम्* । इहैव त्वं तात राष्ट्रपाल निषद्य कामांश् च परिभुङ्क्ष्व, दानानि च देहि, पुण्यानि च कुरु । एवम् उक्ते राष्ट्रपालो गृहपतिपुत्रस् तूष्णीम्* ॥
अथ राष्ट्रपालस्य गृहपतिपुत्रस्य मातापितरौ राष्ट्रपालस्य गृहपतिपुत्रस्य वयस्यकान् उद्योजयतः: अङ्ग तावत् कुमाराः, तातं राष्ट्रपालम् उत्थापयत । अथ राष्ट्रपालस्य गृहपतिपुत्रस्य वयस्यका येन राष्ट्रपालो गृहपतिपुत्रस् तेनोपसंक्रान्ताः । उपसंक्रम्य राष्ट्रपालं गृहपतिपुत्रम् इदम् अवोचन्: यत् खलु सौम्य राष्ट्रपाल जानीयाः: त्वं हि सुकुमारः सुखैषी । न त्वं जानको दुःखस्य । दुष्करं ब्रह्मचर्यम्, दुष्करं प्राविवेक्यं, दुरभिरमम् एकत्वम्, दुरभिसंबोधान्य् अरण्यवनप्रस्थानि, प्रान्तानि शयनासनान्य् अध्यावस्तुम्* । इहैव त्वं सौम्य राष्ट्रपाल निषद्य कामांश् च परिभुङ्क्ष्व, दानानि च देहि, पुण्यानि च कुरु । एवम् उक्ते राष्ट्रपालो गृहपतिपुत्रस् तूष्णीम्* ॥
अथ राष्ट्रपालस्य गृहपतिपुत्रस्य वयस्यका येन राष्ट्रपालस्य गृहपतिपुत्रस्य मातापितरौ तेनोपसंक्रान्ताः । उपसंक्रम्य राष्ट्रपालस्य गृहपतिपुत्रस्य मातापितराव् इदम् अवोचन्*: अम्ब तात, अनुजानीतं सौम्य राष्ट्रपालं प्रव्रजितुं सम्यग् एव श्रद्धया अगराद् अनगारिकाम्*, किं मृतेन करिष्यथ? सचेत् तातः प्रव्रज्यायाम् अभिरंस्यते, जीवन्तम् एनं द्रक्ष्यध्वे । सचेन् नाभिरमते, का अन्या पुत्रस्य गतिर् अन्यत्र मातापितराव् एव । एवम् आवां कुमारकाः तातं राष्ट्रपालम् अनुजानीयावः । सचेत् प्रव्रज्योपदर्शिष्य{त्य् आत्मानम्*} ॥
अथ राष्ट्रपालो गृहपतिपुत्रो ऽनुपूर्वेण कायस्य स्थामं च बलं च संजनय्य येन भगवांस् तेनोपसंक्रान्तः । उपसंक्रम्य भगवत्पादौ शिरसा वन्दित्वैकान्ते ऽस्थात्* । एकान्ते स्थितो राष्ट्रपालो गृहपतिपुत्रो भगवन्तम् इदम् अवोचत्*: अनुज्ञातो ऽस्मि भगवन् मातापितृभ्याम्* । लभेयाहं स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं भिक्षुभावम्* । चरेयम् अहं भगवतो ऽन्तिके ब्रह्मचर्यम्* । लब्धवान् राष्ट्रपालो गृहपतिपुत्रः स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं भिक्षुभावम्* । स एवं प्रव्रजितः सन्न् इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । अर्हन् संवृत्तः त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो
-------------------- वैद्य, प्. 229 --------------------
विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः । तत्र भगवान् भिक्षून् आमन्त्रयते स्म: एषो ऽग्रो मे भिक्षवो भिक्षूणां मम श्रावकाणां {आरण्यकानां }यदुत राष्ट्रपालो भिक्सुर् इति ॥
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त राष्ट्रपालेन कर्माणि कृतानि, येनाढ्ये राजकुले प्रत्याजत इति । अभिरूपो दर्शनीयः प्रासादिकः । प्रव्रज्य चार्हत्वं साक्षात्कृतम् इति । भगवान् आह: राष्ट्रपालेनैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । राष्ट्रपालेन कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च:
न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि ।
सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्*
मूल पाठ: Avadānaśataka · Edition: the following editions: (1) Ed. P.L. Vaidya, Darbhanga 1958 (Buddhist Sanskrit Texts ; 19) and (2) Ed. J.S. Speyer, St. Petersbourg, 2 vols., 1906-1909 (Bibliotheca Buddhica ; 3) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0