अवदानशतक · अध्याय 89
भूतपूर्वं भिक्षवो ऽतीते ऽध्वन्य् एकनवते कल्पे विपश्यी नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* । स बन्धुमतीं राजधानीम् उपनिश्रित्य विहरति बन्धुमतीयके दावे । यावद् अन्यतमेन सार्थवाहेन महासमुद्रात् प्रभूतानि रत्नान्य् आनीतानि । विपश्यी सम्यक्संबुद्धः सश्रावकसंघस् त्रैमास्यं भक्तेनोपनिमन्त्रितः । विहारं च कारयित्वा चातुर्दिशाय भिक्षुसंघाय भिक्षुसंघाय निर्यातितवान्* ॥
किं मन्यध्वे भिक्षवः यो ऽसौ सार्थवाहः, एष एवासौ कप्फिणो राजा तेन कालेन तेन समयेन । यद् अनेन विपश्यी सम्यक्संबुद्धाः सश्रावकसंघस् त्रैमास्यं स्वान्तर्गृहे भक्तेनोपनिमन्त्रितः, विहारं च कारयित्वा चातुर्दिशाय भिक्षुसंघाय निर्यातितः ### {तेनेदानीम् अभिरूपो दर्शनीयः प्रासादिकः संवृत्तः} ### अपराण्य् अपि भिक्षवः कप्फिणेन कर्माणि कृतान्य् उपचितानि । भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां महानगर्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नम्* । धार्मिको धर्मराजो धर्मेण राज्यं कारयति । सो ऽपरेण समयेन संप्राप्ते वसन्तकालसमये, संपुष्पितेषु पादपेषु, हंसक्रौञ्चमयूरशुकशारिकाकोकिलजीवञ्जीवकनिर्घोषिते वनषण्डे अष्टादशामात्यगणसहस्रपरिवृत उद्यानं निर्गतः । तेन तत्रोद्याने ग्लानः प्रत्येकबुद्धः दृष्टः । स तेन सांप्रेयभोजनेन त्रैमास्यम् उपस्थितः । परिनिर्वृतस्य च शरीरस्तूपं कारयित्वा अमात्यगणसहायेन तैलाभिषेको दत्तः । तेन सपरिवारो महानग्नबलाधानेन संवृत्तः । भूयः काश्यपे भगवति प्रव्रजिते बभूव । तत्रानेनेन्द्रियपरिपाकः कृतः । तेनेदानीम् अर्हत्वं साक्षात्कृतम्* । इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
-------------------- वैद्य, प्. 224 --------------------
अव्श्_89 भद्रिकः । (एद्. स्पेयेर्, वोल्. इइ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे ॥
यदा भगवान् षड्वर्षाभिसंबुद्धो द्वादशवर्षनिर्गतः कपिलवस्तु अनुप्राप्तः, तदा द्रोणोदनामृतोदनप्रमुखैर् अनेकैः शाक्यसहस्रैः सत्यदर्शनं कृतं स्थापयित्वा राजानं शुद्धोदनम्* । ततो राजा शुद्धोदनस् तां पुत्रशोभां दृष्ट्वा परं विस्मयम् आपन्नः । तस्य बुद्धिर् उत्पन्ना: यदि मे पुत्रो न प्रव्रजितो ऽभविष्यत्*, सो ऽयम् अभविष्यद् राजा चक्रवर्ती चतुरन्तविजेता धार्मिको धर्मराजः । स एतर्हि जटिलप्रव्रजितपरिवारो न शोभते । यन्व् अहं शाक्यकुलेभ्य एकैकं प्रव्राजयेयम् इति । ततो राज्ञा शुद्धोदनेन नगरे घण्टावघोषणं कारितम्*: सर्वशाक्यैः संनिपत्तव्यम् इति । ततः सर्वशाक्येषु संनिपतितेषु राजा शुद्धोदनः कथयति: शृण्वन्तु भवन्तः शाक्याः । यदि सर्वार्थसिद्धः कुमारो न प्रव्रजितो ऽभविष्यत्*, यद् युष्माभिर् एवोपस्थानं कृतम् अभविष्यत्* । तद् इदानीम् अस्य प्रव्रजितस्य एकैकेन कुलपुरुषेण शाक्येनोपस्थायकेन प्रव्रजितव्यम् इति । ततो भद्रिकानिरुद्धरेवतदेवदत्तप्रभृतीनि पच्च कुमारशतानि प्रव्रजितानि । तेषाम् उपालिर् नाम कल्पक उपस्थायकः तान् प्रव्रजितान् दृष्ट्वा रोदितुम् आरब्धः । ततः शाक्यैः पृष्टः: किमर्थम् उपाले रुद्यत इति । स करुणदीनविलम्बितैर् अक्षरैर् उवाच: यूयं प्रव्रजिताः । को ममेदानीं भह्ताच्छादनेन परिपालनं करिष्यतीति । ततः शाक्या ऊचुः: तेन हि उपाले, पटकं प्रसारयेति । तेन पटकः प्रसारितः । ततः शाक्यैः शरीरावलग्नानां हारार्धहारमणिमुख्तावैडूर्यकेयूराङ्गुलीयकानां महान् राशिः कृतः । तत उपालेः कल्पकस्य तान् दृष्ट्वा विचित्रं चालंकारम् अभिवीक्ष्य योनिशो मनसिकार उत्पन्नः: इमे तावच् छाक्याः कुलरूपयुवनवन्तो ऽन्तःपुराणि इमं चालंकारं खेटवद् उत्सृज्य प्रव्रजिताः । किम् उताहम् अल्पविभवः इमम् अलंकारं गृहं नेष्यामि? अलम् अनेन । यन्व् अहम् एतान् अनुप्रव्रजेयम् इति । अथोपालिः कल्पको येन भगवांस् तेनोपसंक्रान्तः, उपसंक्रम्य भगवतः पादयोर् निपत्य भगवन्तम् इदम् अवोचत्*: यदि भगवन् मादृशानां प्रव्रज्या अस्ति, लभेयाहं स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं भिक्षुभावम्*, चरेयम् अहम् भगवतो ऽन्तिके ब्रह्मचर्यम् इति । ततो भगवता एहिभिक्षुकया प्रव्राजितः ॥
ततो भद्रिकप्रमुखानि पञ्च शाक्यशतानि भिक्षुनेपथ्यधारीणि (स्पेयेर्: भिक्षुवेषधारीणि) बुद्धप्रमुखस्य भिक्षुसंघस्य प्रणामं कर्त्úं प्रवृत्तानि । ते उपालिं ज्ञात्वा कुलरूपविभवान्वितत्वान् नेच्छन्त्य् उपालेः
-------------------- वैद्य, प्. 225 --------------------
प्रणामं कर्तुम्* । तत्र भगवान् आयुष्मन्तं भद्रिकम् आमन्त्रयते: भद्रिक कर्तव्यो ऽस्य प्रणामः, यस्माद् इदं मामकं शासनं न कुलरूपयौवनैश्वर्यचातुर्वर्ण्यविशुद्धिम् अपेक्षत इति । ततो मूलनिकृत्ता इव द्रुमा भद्रिकप्रमुखानि पञ्च शाक्यशतानि धर्मताम् अवलम्ब्य पादयोर् निपतितानि । तेषाम् पादवन्दनसमकालम् एवेयं महापृथिवी षड्विकारं प्रकम्पिता ।
तत्रायुष्मता भद्रिकेण युज्यमानेन घटमानेन व्यायच्छमानेन इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । अर्हन् संवृत्तः त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः । स च महात्मा हीनदीनानुकम्पी । सो ऽपरेण समयेन पूर्वाह्णे निवास्य पात्रचीवरम् आदाय श्रावस्तीं गोचराय प्रस्थितः । यावद् अन्यतरचण्डालकठिनं पिण्डाय प्रविष्टः । तेन खलु समयेन राजा प्रसेनजित् कौशल एकपुण्डरीकं हस्तिनागम् अभिरुह्य दीर्घेण चारायणेन सारथिना भगवतो दर्शनाय संप्रस्थितः । ददर्श राजा प्रसेनजित् कौशलो भद्रिकं शान्तेन्द्रियं शान्तमानसम्*, परमेण च चित्तदमव्युपशमनसमन्वागतं पांसुकूलप्रावृतं लूहं पिण्डपातं गृहीत्वा तस्माच् चण्डालकठिनान् निर्गच्छन्तम्* । दृष्ट्वा च पुनर् दीर्घं चारायणं सारथिम् आमन्त्रयते: स्याद् अयं चारायण भद्रिको भिक्षुः? एवं यथा वदसि । इति श्रुत्वा राजा प्रसेनजित् कौशलः संमोहम् आपन्नः, पृथिव्यां मूर्च्छितः पतितः । ततो जलपरिषेकप्रत्यागतप्राणचेतसो लब्धमानसश् चारायणेन सारथिनोत्थापितः ॥
ततो राजा भगवत्सकाशम् उपसंक्रम्य भगवतः पादाभिवन्दनं कृत्वा भगवन्तम् उवाच: भगवन्, अद्भुतं मे दृष्टम्* । असौ भद्रिकः शाक्यराजः पांसुकूलप्रावृतो लूहं पिण्डपातं गृहीत्वा देवमनुष्यावर्जनकरेणातिप्रशान्तेनेर्यापथेन पिण्डपातम् आदाय चण्डालकठिनान् निर्गतः । तस्य ममैतद् अभवत्*: आश्चर्य यावत् सुविनीतं भगवच्छासनम्*, यत्र नाम एवंविधाः कुमाराः सुखैधिता एवंविनीतप्रचाराः संवृत्ता इति । भगवान् आह: अपरम् अपि महाराज भद्रिकस्याश्चर्यं शृणु । अयं महाराज भद्रिको ऽरण्यगतो वा वृक्षमूलगतो वा शून्यागारगतो वा त्रिर् उदानयति: अहो बत सौख्यम्* । यद् अहम् अप्रव्रजितः सन् राजकुलमध्यगतो ऽमात्यनैगमजानपदसुसंरक्षितः प्राकारपरिखाद्वारस्तूपाभिनिगूढः परिशङ्कितहृदयः संविग्नः समन्ततःशङ्की निद्रां नासादयामि । सो ऽहम् एतर्हि निरपेक्षः काये जीविते च सुखं यत्रतत्रस्थो विहरामीति ॥
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त भद्रिकेण पूर्वम् अन्यासु जातिषु कर्माणि कृतानि, येनाभिरूपो दर्शनीयः प्रासादिक आढ्ये राजकुले प्रत्याजातः । प्रव्रज्य चार्हत्वं साक्षात्कृतम् इति । भगवान् आह: भद्रिकेणैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । भद्रिकेण कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति?
-------------------- वैद्य, प्. 226 --------------------
न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च:
न प्रणश्यन्ति कर्माणि अपि कल्पशतैर् अपि ।
सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्*
मूल पाठ: Avadānaśataka · Edition: the following editions: (1) Ed. P.L. Vaidya, Darbhanga 1958 (Buddhist Sanskrit Texts ; 19) and (2) Ed. J.S. Speyer, St. Petersbourg, 2 vols., 1906-1909 (Bibliotheca Buddhica ; 3) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0