अवदानशतक · अध्याय 88
-------------------- वैद्य, प्. 219 --------------------
भूतपूर्वं भिक्षवो ऽतीते ऽध्वन्य् अस्मिन्न् एव भद्रके कल्पे चत्वारिंशद्वर्षसहस्रायुषि प्रजायां क्रकुच्छन्दो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* । स शोभावतीं राजधानीम् उपनिश्रित्य विहरति । शोभेन राज्ञा केशनखस्तूपः प्रतिष्ठापितः । यावत् कस्मिंश्चित् पर्वणि प्रत्युपस्थिते गोष्ठिकाः स्तूपसमीपं गताः । तैस् तं स्तूपं दृष्ट्वा पसादजातैः पुष्पारोपणं कर्तुम् आरब्धम्* । तत्रैको गोष्ठिकः कथयति: अहं न करोमि, मम विभवो नास्तीति । स तैश् च गोष्ठिकमध्यान् निष्कासितः । तस्य विप्रतिसारो जातः । तेन विचित्रपुष्पसंग्रहं कृत्वा तस्मिन्न् एव स्तूपे पुष्पारोपणं कृतम्* ॥
भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन गोष्ठिक आसीत्, येन विप्रतिसारजातेन क्रकुच्छन्दस्य केशनखस्तूपे पुष्पारिपणं कृतम्*, अयम् असौ शोभितः । अन्यान्य् अपि हि भिक्षवः शोभितेन कर्माणि कृतान्य् उपचितानि । भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्याम् अन्यतमः श्रेष्ठी । तेन ग्लानः प्रत्येकबुद्धो दृष्टः । ततः प्रसादजातेन पादयोर् निपत्य पिण्डकेन प्रतिपादितः पटेन चाच्छादितः ॥
किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन श्रेष्ठी, अयं शोभितः । भूयः काश्यपे भगवति दरिद्रो ऽभूत् काष्ठहारकः । स काष्ठानाम् अर्थे पर्वतदरीं प्रविष्टः । तेन स्तूपो दृष्टः । तत्र च स्तूपाङ्गणे तृणानि जातानि । ततस् तेन प्रसादजातेन तृणान्य् उत्पाट्य संमार्जनीं गृहीत्वा स्तूपाङ्गणं च संमृष्टम्* । ततः पादयोर् निपत्य प्रणिधानं कर्तुम् आरब्धः: अनेनाहं कुशलमूलेन चित्तोत्पादेन देय्धर्मपरित्यागेन च अभिरूपः स्यां दर्शनीयः प्रसादिकः, अनागतांश् च बुद्धान् आरागयेयं मा विरागयेयम् इति ॥
भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन काष्ठहारक आसीत्, अयम् एवासौ शोभितः । यद् अनेन स्तूपाङ्गणं संमृष्टम्*, तेन यत्र यत्र जातस् तत्र तत्राभिरूपो दर्शनीयः प्रसादिकः संवृत्तः । तेनैव हेतुनेदानीम् आर्हत्वं साक्षात्कृतम्* । इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_88 कप्फिणः । (एद्. स्पेयेर्, वोल्. इइ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां
-------------------- वैद्य, प्. 220 --------------------
सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । तेन खलु समयेन दक्षिणापथे कल्पो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नम्* । प्रियम् इवैकपुत्रकं राज्यं पालयति । सो ऽपरेण समयेन देव्या सार्धं क्रीडति रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातो ऽभिरूपो दर्शनीयः प्रासादिकः सर्वाङ्गप्रत्यङ्गोपेतः । तस्य जातौ जातिमहं कृत्वा कप्फिण इति नामधेयं व्यवस्थापितम्* । कप्फिणो दारको ऽष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्* । सो ऽष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैः । आशु वर्धते ह्रदस्थम् इव पङ्कजम्* । यस्मिन्न् एव दिवसे कप्फिणः कुमारो जातः, तस्मिन्न् एव दिवसे अष्टादशानाम् अमात्यसहस्राणां पुत्रा जाताः, सर्वे महानग्नाः । तेषां प्रतिरूपाणि नामानि व्यवस्थापितानि ॥
यद् राजा कल्पः कालधर्मेण संयुक्तः, तस्यात्ययात् कप्फिणः कुमारो राज्ये प्रतिष्ठितः । तानि चाष्टादशामात्यपुत्रसहस्राणि सर्वाण्य् अमात्यत्वे नियुक्तानि । अथापरेण समयेन राजा महाकप्फिणो ऽष्टादशामात्यसहस्रपरिवृतो मृगवधाय निर्गतः । पुरस्तात् पृष्ठतश् च सर्वबलौघम् अवलोक्यामात्यान् आमन्त्रयते: अस्ति भवन्तः कस्यचिद् एवंरूपो बलौघः तद्यथा ममैवैतर्हीति? ततः प्रियवादिभिर् अमात्यैर् अभिहितम्*: देव नान्यस्य कस्यचिद् इति । अथ मध्यदेशाद् वणिजो दक्षिणापथं गताः । तै राज्ञो महाकप्फिणस्य प्राभृतम् उपनीतम्* । राज्ञा उक्ताः: भो वणिजः, कस् तत्र राजेति । वणिजः कथयन्ति: देव केचिद् देशा गणाधीनाः केचिद् राजाधीना इति । यावद् राज्ञा महाकप्फिणेन श्रावस्त्यादिषु षट्सु महानगरेषु दूतसंप्रेषणं कृतम्* । यद्य् उत्थिता भवथ नोपवेष्टव्यम्*, शीघ्रम् आगन्तव्यम्*, अन्यथा व उत्तमेन दण्डेन समनुशासिष्यामीति । एतद् वचनम् उपश्रुत्य षण्महानगरवासिनो राजानो भीतास् त्रस्ताः संविग्ना आहृष्टरोमकूपाः संगम्य समागम्य एकसमूहेन श्रावस्तीम् अनुप्राप्ताः । ततो भगवत्सकाशं गताः । तैः स वृत्तान्तो भगवतो विस्तरेण निवेदितः । भगवता ते समाश्वासिताः, उक्ताश् च: स दूतो मत्सकाशम् आनेतव्य इति । ततस् तैर् दूतस्य निवेदितम्* । अस्त्य् अस्माकं राजाधिराज, तं तावत् पश्येति ॥
ततो भगवता दूतागमनम् अवेत्य जेतवनं चतूरत्नमयम् निर्मितं देवानाम् इव सुदर्शनं नगरम्* । अत्र चत्वारो महाराजानो दौवारिकाः स्थापिताः, ऐरावतसदृशा हस्तिनः, बालाहकसदृशा अश्वाः, नन्दीघोषसदृशा रथाः, व्याडयक्ष्सदृशा मनुष्याः । स्वयं च भगवता चक्रवर्तिवेषो निर्मितः, सप्ततालोद्गतं च सिम्ःआसनं यत्र भगवान् निषण्णाः । ततो दूतस् तथाविधां शोभां दृष्ट्वा परं विस्मयम् आपन्नः । ततो भगवता लेखं लेखयित्वा स दूतो ऽभिहितः: कप्फिणो मद्वचनाद् वक्तव्यः: लेखवाचनसमकालम् एव यद्य् उत्थितो भवसि, नोपवेष्टव्यम्*, शीघ्रम् आगन्तव्यम्* ।
-------------------- वैद्य, प्. 221 --------------------
अथवा नागच्छसि, अहम् एव महता बलौघेन सार्धम् आगमिष्यामीति । ततो दूतेन गत्वा राज्ञो महाकप्फिणस्य लेखं वाचिकं च यत् संदिष्टं तत् सर्वं निवेदितम्* ॥
ततः कप्फिणो राजा अष्टादशामात्यगणसहस्रपरिवृतो ऽनुपूर्वेण चञ्चूर्यमाणः श्रावस्तीम् अनुप्राप्तः । प्रातिसीमाश् च राजानो राजानं महाकप्फिणं प्रत्युद्गताः । तैर् महासत्कारेण नगरं प्रवेशितः । मार्गश्रमं प्रतिविनोद्य भगवतो निवेदितवन्तः । ततो भगवता तस्यागमनम् अवेत्य जेतवनं चतूरत्नमयं निर्मितं देवानाम् इव सुदर्शनं नगरम्* । यत्र चत्वारो महाराजानो दौवारिकाः स्थापिताः । ऐरावतसदृशा हस्तिनः, बालाहकसदृशा अश्वाः, नन्दीघोषसदृशा रथाः, व्याडयक्षसदृशा मनुष्याः । स्वयं च भगवता चक्रवर्तिवेषो निर्मितः । सप्ततालोद्गतं च सिंहासनं सर्वं तथैव निर्मितम्* । ततो राजा महाकप्फिणो जेतवनं प्रविष्टः । सहदर्शनाद् अस्य यो रूपो रूपमदः, ऐश्वर्ये ऐश्वर्यमदः, स प्रतिविगतः । बलदर्पो ऽद्यापि प्रतिबाधत एव । ततो भगवता लौकिकं चित्तम् उत्पादितम्*: अहो बत शक्रो देवेन्द्र ऐन्द्रं धनुर् आदाय आगच्छत्व् इति । सहचित्तोत्पादाद् भगवतः शक्रो देवेन्द्रः सारथिवेषेण ऐन्द्रं धनुर् उपनामयति । भगवता महाकप्फिणस्योपनामितम्* । तच् च राजा महाकप्फिण उत्क्रष्टुम् अपि न शक्नोति, कुतः पुनर् आरोपयिष्यति । ततो भगवता सप्तायोभेर्यो निर्मित्ताः । स्वयं च तद् धनुर् अर्धचन्द्राकारेणारोप्य शरः क्षिप्तः, येन ताः सप्तायोभेर्यश् छिद्रीकृताः । ततः शब्दं निर्गतः:
आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने ।
धुनीत मृत्युनः सैन्यं नडागारम् इव कुञ्जरः
यो ह्य् अस्मिन् धर्मविनये अप्रमत्तश् चरिष्यति ।
प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति
इति
स च शब्दो यावद् अकनिष्ठान् देवान् गतः । ततो राज्ञः कप्फिणस्य यो ऽभूद् बलमदः, स प्रतिविगतः । तस्य बुद्धिर् उत्पन्ना: किम् इदम् इति । ततो भगवान् राज्ञो महाकप्फिणस्य चित्तप्रकारम् उपलक्ष्य राजवेषम् अन्तर्धाप्य इदं सूत्रम् आरद्भवान्*: <च्f. द्ब्सू(2)>
दशबलसमन्वागतो भिक्षवस् तथागतो ऽहन् सम्यक्संबुद्धश् चतुर् वैशारद्यविशारद उदारम् आर्षभं स्थानं प्रतिजानीते, ब्रह्मचर्यं प्रवर्तयति, पर्षदि सम्यक्सिंहनादं नदति: यदुतास्मिन् सतीदं भवति, अस्योत्पादाद् इदम् उत्पद्यते । यदुत अविद्याप्रत्ययाः संस्काराः । संस्कारप्रत्ययं विज्ञानम्* । विज्ञानप्रत्ययं नामरूपम्* । नामरूपप्रत्ययं षडायतनम्* । षडयतनप्रत्ययः स्पर्शः । स्पर्शप्रत्यया वेदना । वेदनाप्रत्यया तृष्णा । तृष्णाप्रत्ययम् उपादानम्* । उपादानप्रत्ययो भवः । भवप्रत्यया जातिः । जातिप्रत्यया जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाः संभवन्ति । एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति । यदुत अस्मिन्न् असतीदं न भवति, अस्य निरोधाद् इदं निरुध्यते । यदुत अविद्यानिरोधात् संस्कारनिरोधः
-------------------- वैद्य, प्. 222 --------------------
। संस्कारनिरोधाद् विज्ञाननिरोधः । विज्ञाननिरोधान् नामरूपनिरोधः । नामरूपनिरोधात् षडायतननिरोधः । षडायतननिरोधात् स्पर्शनिरोधः । स्पर्शनिरोधाद् वेदनानिरोधः । वेदनानिरोधात् तृष्णानिरोधः । तृष्णानिरोधाद् उपादाननिरोधः । उपादाननिरोधाद् भवनिरोधः । भवनिरोधाज् जातिनिरोधः । जातिनिरोधाज् जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासा निरुध्यन्ते । एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य निरोधो भवति । स्वाख्यातो मे भिक्षवो धर्मः, उत्तानो विवृतश् छिन्नप्लोतिको यावद् देवमनुष्येभ्यः सम्यक्सुप्रकाशितः । एवं स्वाख्याते मे धर्मे उत्ताने विवृते छिन्नप्लोतिके यावद् देवमनुष्येभ्यः सम्यक्सुप्रकाशिते यावद् अलम् एव भिक्षवः श्रद्धाप्रव्रजितेन कुलपुत्रेण अलं योगाय अलम् अप्रमादाय, अलं शास्तुः शासने योगम् आपत्तुम्*, कामं त्वक्स्नाय्वस्थ्य् अवतिष्ठताम्*, परिशुष्यतु शरीरान् मांसशोणितम्* । अथ च पुनर् यत् तदारब्धवीर्येण प्राप्तव्यं स्थामवता वीर्यवता उत्साहिना दृढपराक्रमेणानिक्षिप्तधुरेण कुशलेषु धर्मेषु, तद्वहनानुप्राप्ता न वीर्यस्य स्रंसनं भविष्यति । तत् कस्य हेतोः? दुःखं हि कुसीदो विहरति व्यवकीर्ण, पापकैर् अकुशलैर् धर्मैः सांक्लेशिकैः पौनर्भविकैः सज्वरैर् दुःखविपाकैः आयत्यां जातिजरामरणीयैः महतश् चार्थस्य परिहाणिर् भवति । आरब्धवीर्यस् तु सुखं विहरत्य् अवकीर्णः पापकैर् अकुशलैर् धर्मैः सांक्लेशिकैः पौनर्भविकैः सज्वरैर् दुःखविपाकैः आयत्यां जातिजरामरणीयैः । महतश् चार्थस्य पारिपूरिर् भवति । मण्डयेयम् इदं प्रवचनं यदुत शास्ता च संमुखीभूतः । धर्मश् च देश्यत औपशमिकः पारिनिर्वाणिकः संबोधिगामी सुगतप्रवेदितः । तस्मात् तर्हि भिक्षव आत्मार्थं च समनुपश्यद्भिः परार्थं चोभयार्थं च, इदं प्रतिसंशिक्षितव्यम्: कच्चिन् नः प्रव्रज्या अमोघा भविष्यति, सफला सुखोदया सुखविपाका । येषां च परिभोक्ष्यामहे चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारान्*, तेषां च ते काराः कृताः कच्चिद् अत्यर्थमहाफला भविष्यन्ति, महानुशंसा महाद्युतयो महावैस्ताराः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
अस्मिन् खलु धर्मपर्याये भाष्यमाणे राज्ञा महाकप्फिणेन अष्टादशामात्यगणसहस्रपरिवारेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतापत्तिफलं साक्षात्कृतम्* । स दृष्टसत्यो भगवच्छासने प्रव्रजितः । तेन युज्यमानेन घटमानेन व्यायच्छमानेन इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । अर्हन् संवृत्तः त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः ॥
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त कप्फिणेन कर्माणि कृतानि, येनाभिरूपो दर्शनीयः प्रासादिको ऽष्टादशामात्यगणसहस्रपरिवारो महानग्नबलः, प्रव्रज्य चार्हत्वं साक्षात्कृतम् इति । भगवान् आह: कप्फिणेनैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि ।
-------------------- वैद्य, प्. 223 --------------------
कप्फिणेन कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च:
न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि ।
सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्*
मूल पाठ: Avadānaśataka · Edition: the following editions: (1) Ed. P.L. Vaidya, Darbhanga 1958 (Buddhist Sanskrit Texts ; 19) and (2) Ed. J.S. Speyer, St. Petersbourg, 2 vols., 1906-1909 (Bibliotheca Buddhica ; 3) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0