अवदानशतक · अध्याय 87
भूतपूर्वं भिक्षवो ऽतीते ऽध्वन्य् एकनवते कल्पे विपश्यी नाम सम्यक्संबुद्धो लोक उदपादि तथागतो ऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* । स बन्धुमतीं राजधानीम् उपनिश्रित्य विहरति । यावद् अन्यतरस्मिन् ग्रामके ऽरण्यायतने पञ्च भिक्षवो वर्षा उपगताः तत्रैकेन भिक्षुणा चतुर्णां
-------------------- वैद्य, प्. 217 --------------------
भिक्षूणां वैयावृत्यं कृतम्* । तैर् युज्यमानैर् घटमानैर् व्यायच्छमानैः सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । पञ्चमेन पादयोर् निपत्य प्रणिधानं कृतम्*: यथैभिर् माम् आगम्य अर्हत्वं साक्षात्कृतम्*, अनेन मे कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च प्रव्रजितस्य उपकरणविशेषैर् अवैकल्यं स्याद् इति ॥
किं मन्यध्वे भिक्षवः यो ऽसौ तेन कालेन तेन समयेन वैयावृत्यं कृतवान्*, अयं स उपपादुक इति । भिक्षव ऊचुः: किं कर्म कृतं येनोपपादुकः संवृत्तः? भगवान् आह: भूतपूर्वं भिक्षवो ऽतीते ऽध्वन्य् अस्मिन्न् एव भद्रके कल्पे विंशतिवर्षसहस्रायुषि (स्पेयेर्: विंशतिसहस्रायुषि) प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि तथागतो ऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* । स वाराणसीं नगरीम् उपनिश्रित्य विहरति ऋषिपतने मृगदावे । तत्रान्यतरः श्रेष्ठी । तस्य भार्या प्रसवकाले दुःखवेदनाभिभूता आर्तस्वरा क्रदन्ति । स तं शब्दं श्रुत्वा परं संवेगम् आपन्नः । स शोकागारं प्रविश्य करे कपोलं दत्वा चिन्तापरो व्यवस्थितः । तस्य बुद्धिर् उत्पन्ना: यन्व् अहं भगवच्छासने प्रव्रज्य प्रणिधानं कुर्याम्*, येन न कदाचिद् गर्भशय्यां प्रत्यनुभवामीति । स तेनैव संवेगेन भगवतः काश्यपस्य प्रवचने प्रव्रजितः । तेन प्रणिधानं कृतम्*: अनेनाहं कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च यत्र यत्र जायेय, तत्र तत्रोपपादुको भवेयम्*, मा कदाचिद् गर्भशय्यां प्रत्यनुभवेयम् इति ॥
किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन सार्थवाह आसीत्*, अयं स उपपादुकः । यत् प्रणिधानं कृतम्*, तेनोपपादुकः संवृत्तः । यत् तत्रानेनेन्द्रियाणि परिपाचितानि, तेनेदानीम् अर्हत्वं साक्षात्कृतम्* । इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_87 शोभितः । (एद्. स्पेयेर्, वोल्. इइ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः कपिलवस्तुनि विहरति न्यग्रोधारामे । कपिलवस्तुनि अन्यतमः शाक्य आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तेन सदृशात् कुलात् कलत्रम् आनीतम्* । स तया सार्धं क्रीडति रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्वा संवृत्ता । सा
-------------------- वैद्य, प्. 218 --------------------
अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता । दारको जातो ऽभिरूपो दर्शनीयः प्रासादिको ऽतिक्रान्तो मानुषवर्णम् असंप्राप्तश् च दिव्यं वर्णम्* । तस्य जन्मन्य् अनेकान्य् अद्भुतानि प्रादुर्भूतानि, यैः कपिलवस्तु नगरं समन्ततः शोभितम्* । तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते: किं भवतु दारकस्य नामेति । ज्ञातय ऊचुः: यस्माद् अस्य जन्मनि कपिलवस्तु नगरं समन्ततः शोभितम्*, तस्माद् अस्य भवतु शोभित इति नामेति । शोभितो दारको ऽष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्* । सो ऽष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैः । आशु वर्धते ह्रदस्थम् इव पङ्कजम्* ॥
स यदा महान् सम्वृत्तस् तदा न्यग्रोधारामं गतो भगवतो दर्शनाय । ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* । सहदर्शनाच् चानेन भगवतो ऽन्तिके चित्तं प्रसादितम्* । प्रसादजातो भगवतः पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णो धर्मश्रवणाय । तस्य भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा शोभितेन दारकेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं साक्षात्कृतम्* । स दृष्टसत्यो मातापितराव् अनुज्ञाप्य भगवच्छासने प्रव्रजितः । तेन युज्यमानेन घटमानेन व्यायच्छमानेन इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । अर्हन् संवृत्तः त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः ॥
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त शोभितेन कर्माणि कृतानि, येनाभिरूपो दर्शनीयः प्रासादिको ऽतिक्रान्तो मानुषवर्णम् असंप्राप्तश् च दिव्यं वर्णम्*, जन्मनि चास्यानेकानि अद्भुतानि प्रादुर्भूतानि, यैः कपिलवस्तु नगरं समन्ततः शोभितम्*? भगवान् आह: शोभितेनैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । शोभितेनैव कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च:
न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि ।
सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्*
मूल पाठ: Avadānaśataka · Edition: the following editions: (1) Ed. P.L. Vaidya, Darbhanga 1958 (Buddhist Sanskrit Texts ; 19) and (2) Ed. J.S. Speyer, St. Petersbourg, 2 vols., 1906-1909 (Bibliotheca Buddhica ; 3) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0