भाषा

ENहिગુ
ग्रंथ पाठ

अवदानशतक · अध्याय 86

86.1

भूतपूर्वं भिक्षवो ऽतीते ऽध्वन्य् अस्मिन्न् एव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* । स वाराणसीं नगरीम् उपनिश्रित्य विहरति ऋषिपतने मृगदावे । यावद् अन्यतरः श्रेष्ठिपुत्रो ऽन्यतरस्य वृद्धभिक्षोः सकाशे प्रव्रजितः । सो ऽलसो नेच्छति समयाचारिकां चरितुम्* । ततः स ब्रह्मचारिभिः स्थविरस्योपस्थायको दत्तः । स उपस्थायकम् आत्मानं मत्वा वृद्धतराणां भिक्षूणां सकाशाद् उपस्थानं स्वीकरोति । तस्याकुशलमूलान्य् अपर्यन्तानि ॥
यावद् अपरेण समयेन ग्लान्यं पतितः । स्थविरेणास्य वैद्योपदेशाद् घृतं पानाय दत्तम्* । स रात्रौ तृषात्रासितः (स्पेयेर्: तृषा त्रासितः) स्वकं कमण्डलुकम् उपगृह्य पानीयं पास्यामीति पश्यति निरुदकम्* । एवम् आचार्योपाध्यायानाम्* । यावत् सांघिकं पानीयमण्डपम् अवतीर्णः । तद् अपि निरुदकं पश्यति । यावन् नदीचारिकाम् अवतीर्णः । सापि निरुदका संवृत्ता । स उद्विग्नः स्वकानां सब्रह्मचारिणाम् उद्वेजनार्थं श्रद्धादेयस्य च गुरुत्वसंदर्शनार्थम्*, नदीचारिकायाः परिवृक्षः (स्पेयेर्: परे वृक्षः), तत्र शाटकं बद्ध्वा समभिरूढः, स्वकर्माणि ममेत्य् अवेत्य कर्मप्रतिशरणावस्थितः (स्पेयेर्: कर्मप्रतिसरणावस्थितः) । यावद् द्वितीये दिवसे प्रभातायां रजन्याम् एतद् वृत्तान्तं सब्रह्मचारिणाम् आरोचयति । ततो ऽस्य सब्रह्मचारिणः प्रेतकरणं श्रुत्वोद्विग्नाः, इतश् चामुतश् चारोचयितुम् आरब्धाः । ततो ऽस्य उपाध्यायेन पानीयम् उपनामितम्* । तद् अपि न पश्यति । तेनापि संविग्नेन भगवतः काश्यपस्य निवेदितम्* । भगवता काश्यपेनोक्तः: गण्डीर् आकोट्यताम् इति । तत उपधिवारिकेण गण्डीर् आकोटिता । बुद्धप्रमुखो भिक्षुसंघः संनिपतितः ॥
एष वृत्तान्तो वाराणस्यां नगर्यां समन्ततो विसृतः । ततो ऽनेकानि प्राणिशतसहस्राणि संनिपतितानि । यावद् उपाध्यायेन वृद्धान्ते निषादयित्वा उदकपुर्णा कुण्डिका दत्ता । वत्स एतत् पानीयं संघे चारयेति । स प्रत्यक्षफलदर्शी तेनैव संवेगेन बुद्धे भगव्ति श्रावकेषु च प्रसादम् उत्पाद्य तीव्रेणाशयेन तद् उदकं संघे चारितवान्* । ततो भगवता तस्यानुग्रहार्थं गजभुजसदृशं बाहुम् अभिप्रसार्य भीतानाम् आश्वासनकरेण तद् उदकं गृहीतं महाश्रावकैश् च । न च क्षीयते । यावत् सर्वसंघे चारितम्*, तदापि न क्षीयते । तद् अत्यद्भुतं देवमनुष्यावर्जनकरं प्रातिहार्यं दृष्ट्वा अनेकैः प्राणिशतसहस्रैः सत्यदर्शनं कृतम्* । तस्यापि संताने ऽकुशलमूलानि प्रतिसंहृतानि । यदा तस्माद् ग्लान्याद् व्युत्थितः, तदा तेन बुद्धप्रमुखो भिक्षुसंघः पानीयेनाल्पोत्सुकः कृतः । द्वादश वर्षसहस्राणि तेन संघे पानीयं चारितम्* । यावन् मरणकालसमये प्रणिधानं कृतवान्*: अनेनाहं कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च यो ऽसौ भगवता काश्यपेन उत्तरो नाम माणवो व्याकृतः: भविष्यसि त्वं माणव वर्षशतायुषि प्रजायां शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धः, तम् अहम् आरागयेयं मा विरागयेयम्*, दंष्ट्रान्तराच् च मे ऽष्टाङ्गोपेतं पानीयं निर्गच्छेद् इति ॥
-------------------- वैद्य, प्. 213 --------------------
भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन भिक्षुर् आसीत्, अयं सः । यत् तेन द्वादश वर्षसहस्राणि संघे पानीयं चारितम्*, प्रणिधानं च कृतम्*, तेनेह जन्मनि दंष्ट्रान्तराद् अष्टाङ्गोपेतम् पानीयं निर्गच्छति । तेनैव हेतुनार्हत्वं साक्षात्कृतम्* । इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_86 औपपादुकः । (एद्. स्पेयेर्, वोल्. इइ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां देवेषु त्रायस्त्रिंशेषु वर्षा उपगतः पाण्डुकम्बलशिलायां पारिजातस्य कोविदारस्य नातिदूरे । मातुर् जनित्र्या धर्मं देशयति, अन्येषां च देवानाम्* । तेन खलु समयेनायुष्मान् महामौद्गल्यायनः श्रावस्त्यां वर्षा उपगतो जेतवने ऽनाथपिण्डदस्यारामे । अथ चतस्रः पर्षदो येनायुष्मान् महामौद्गल्यायनः तेनोपसंक्रान्ताः, महामौद्गल्यायनपादौ शिरसा वन्दित्वा एकान्ते निषण्णाः । चतस्रः पर्षद आयुष्मान् महामौद्गल्यायनो धर्मकथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति । अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्* । अथ चतस्रः पर्षद उत्थायासनाद् एकांसम् उत्तरासङ्गं कृत्वा येनायुष्मान् महामौद्गल्यायनः तेनाञ्जलिं प्रणमय्य आयुष्मन्तं महामौद्गल्यायम् इदम् अवोचत्*: कच्चित् ते भदन्त महामौद्गल्यायन श्रुतं कुत्र भगवान् एतर्हि वर्षा उपगत इति । महामौद्गल्यायन आह: श्रुतं मे भवन्तो भगवान् देवेषु त्रायस्त्रिंशेषु वर्षा उपगतः, पाण्डुकम्बलशिलायां पारिजातस्य कोविदारस्य नातिदूरे । मातुर् जनित्र्या धर्मं देशयति, अन्येषां च देवानां त्रायस्त्रिंशानाम् इति । अथ चतस्रः पर्षदः आयुष्मतो महामौद्गल्यायनस्य भाषितम् अभिनन्द्यानुमोद्य पादौ शिरसा वन्दित्वोत्थायासनेभ्यः प्रक्रान्ताः ॥
अथ चतस्रः पर्षदस् त्रयाणां वार्षिकाणाम् अत्ययाद् येनायुष्मान् महामौद्गल्यायनः तेनोपसंक्रान्ताः । उपसंक्रम्यायुष्मतो महामौद्गल्यायनस्य पादौ शिरसा वन्दित्वा एकान्ते निषण्णाः । चतस्रः पर्षद आयुष्मान् महामौद्गल्यायनो धर्म्यया कथया संदर्शयति (स्पेयेर्: संप्रदर्शयति) समादापयति समुत्तेजयति
-------------------- वैद्य, प्. 214 --------------------

संप्रहर्षयति । अनेकपर्यायेण धम्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्* । अथ चतस्रः पर्षद उत्थायासनाद् एकांसम् उत्तरासङ्गं कृत्वा येनायुष्मान् महामौद्गल्यायनस् तेनाञ्जलिं प्रणमय्य आयुष्मन्तं महामौद्गल्यायम् इदम् अवोचत्*: यत् खलु भदन्तमहामौद्गल्यायनो जानीयात्* (स्पेयेर्: जानायाच्; म्स्: -मौद्गल्यायन जानीया चिर-): चिरदृष्टो ऽस्माभिर् भगवान्*, परितृषिताः स्मो वयं भगवतो दर्शनेन । इच्छामो वयं भगवन्तं द्रष्टुम्* । सचेद् भदन्तमहामौद्गल्यायस्यागुरु, साधु भदन्तमहामौद्गल्यायनो येन भगवांस् तेनोपसंक्रामेत्+ । उपसंक्रम्यास्माकं वचनेन भगवतः पादौ शिरसा वन्दस्व, अल्पाबाधतां च पृच्छ, अल्पातङ्कतां च लघूत्थानतां च यात्रां च बलं च सुखं चानवद्यतां च स्पर्शविहारतां च । एवं च वद: जम्बूद्वीपे भदन्त चतस्रः पर्षद आकाङ्क्षन्ति भगवतो दर्शनम्* । एवं चाहुः: नास्ति खलु भदन्त जम्बूद्वीपकानां मनुष्याणां तद्रूपा ऋद्धिर् वा अनुभावो वा येन जम्बूद्वीपका मनुष्या देवांस् त्रायस्त्रिंशान् (स्पेयेर्: त्रयस्त्रिंशान्) अभिरोहेयुः भगवन्तं दर्शनायोपसंक्रमणाय पर्युपासनाय । अस्ति खलु देवानां त्रायस्त्रिंशानां तद्रूपा ऋद्धिश् चानुभावश् च, येन देवास् त्रायस्त्रिंशा जम्बूद्वीपम् अवतरेयुर् भगवन्तं दर्शनायोपसंक्रमणाय पर्युपासनाय । साधु भगवान् देवेभ्यस् त्रायस्त्रिंशेभ्यो जम्बूद्वीपम् अवतरेद् अनुकम्पाम् उपादायेति । अधिवासयत्य् आयुष्मान् महामौद्गल्यायनश् चतसृणां पर्षदां तूष्णीभावेन । अथ चतस्रः पर्षद आयुष्मतो महामौद्गल्यायनस्य तूष्णीभावेनाधिवासनां विदित्वा आयुष्मतो महामौद्गल्यायनस्य पादौ शिरसा वन्दित्वोत्थायासनेभ्यः प्रक्रान्ताः ॥
अथायुष्मान् महामौद्गल्यायनो ऽचिरप्रक्रान्ताश् चतस्रः पर्षदो विदित्वा तद्रूपं समाधिं समापन्नो यथा समाहिते चित्ते तद्यथा बलवान् पुरुषः संकुञ्चितं वा बाहुं प्रसारयेत्*, प्रसारितं वा संकुञ्चयेत्*, एवम् एवायुष्मान् महामौद्गल्यायनः श्रावस्त्याम् अन्तर्हितो देवेषु त्रायस्त्रिंशेषु प्रत्यष्ठात् पाण्दुकम्बलशिलायां पारिजातस्य कोविदारस्य नातिदूरे । तेन खलु समयेन भगवान् अनेकशताया देवपर्षदो धर्मं देशयति । अद्राक्षीच् च महामौद्गल्यायनो भगवन्तम् अनेकशताया देवपर्षदः पुरस्तान् निषण्णं धर्मं देशयन्तम्* । दृष्ट्वा च पुनः स्मितं प्राविरकार्षीत्*: इहापि भगवान् आकीर्णो विहरति तद्यथा जम्बूद्वीपे चतसृभिः पर्षद्भिर् इति । अथ भगवान् आयुष्मतो महामौद्गल्यायनस्य चेतसा चित्तम् आज्ञाय आयुष्मन्तं महामौद्गल्यायनम् इदम् अवोचत्*: न खलु मौद्गल्यायन स्वैरत्वम् एषाम्*, अपि तु यदा मे एवं भवति: आगच्छन्त्व् इति, तदा आगच्छन्ति । यदा मे एवं भवति: गच्छन्त्व् इति, तदा गच्छन्ति । इति मे चेतसा चित्तम् आज्ञाय आगच्छन्ति च गच्छन्ति ॥
आयुष्मान् महामौद्गल्यायनो येन भगवांस् तेनोपसंक्रान्तः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः । एकान्तनिषण्ण आयुष्मान् मौद्गल्यायनः सर्वां देवपर्षदम् अवलोक्य भगवन्तम् इदम् अवोचत्: विचित्रा बतेयं देवपर्षत् संनिषण्णा संनिपतिता । सन्त्य् अस्यां देवपर्षदि देवता या बुद्धे ऽवेत्य प्रसादेन समन्वागताः कायस्य भेदाद् इहोपपन्नाः । सन्ति धर्मे, सन्ति संघे, सन्ति आर्यकान्तैः शीलैः समन्वागताः, कायस्य भेदाद् इहोपपन्नाः ।
-------------------- वैद्य, प्. 215 --------------------
अथ भगवान् आयुष्मतो महामौद्गल्यायनस्य भाषितम् अनुवर्णयन्न् आयुष्मन्तं महामौद्गल्यायनम् इदम् अवोचत्*: एवम् एतन् मौद्गल्यायन, एवम् एवम् एतत्* । विचित्रा बतेयं देवपर्षत् संनिषण्णा संनिपतिता । सन्त्य् अस्यां देवता या बुद्धे ऽवेत्य प्रसादेन समन्वागताः, कायस्य भेदाद् इहोपपन्नाः । सन्ति धर्मे, सन्ति संघे, सन्ति आर्यकान्तैः शीलैः समन्वागताः, कायस्य भेदाद् इहोपपन्नाः ॥
अथ शक्रो शक्रो देवानाम् इन्द्रो भगवत आयुष्मतश् च महामौद्गल्यायनस्य भाषितम् अनुवर्णयन्न् आयुष्मन्तं महामौद्गल्यायनम् इदम् अवोचत्*: एवम् एतद् भदन्त महामौद्गल्यायन, एवम् एतत्* । विचित्रा बतेयं देवपर्षत् संनिषण्णा संनिपतिता । सन्त्य् अस्यां देवपर्षदि देवताः, या बुद्धे ऽवेत्य प्रसादेन समन्वागताः, कायस्य भेदाद् इहोपपन्नाः । सन्ति धर्मे, सन्ति संघे, सन्त्य् आर्यकान्तैः शीलैः समन्वागताः, कायस्य भेदाद् इहोपपन्नाः ॥
अथान्यतमो देवपुत्रो भगवत आयुष्मतश् च महामौद्गल्यायनस्य शक्रस्य च देवानाम् इन्द्रस्य भाषितम् अनुवर्णयन्न् आयुष्मन्तं महामौद्गल्यायनम् इदम् अवोचत्*: एवम् एतद् भदन्त महामौद्गल्यायन, एवम् एतत्* । विचित्रा बतेयं देवपर्षत् संनिषण्णा संनिपतिता । सन्त्य् अस्यां देवपर्षदि देवताः, या बुद्धे ऽवेत्य प्रसादेन समन्वागताः कायस्य भेदाद् इहोपपन्नाः । सन्ति धर्मे, सन्ति संघे । सन्ति आर्यकान्तैः शीलैः समन्वागताः कायस्य भेदाद् इहोपपन्ना इति ॥
तत्रानेकानि देवताशतानि अनेकानि देवतासहस्राण्य् अनेकानि देवताशतसहस्राणि भगवतः पुरस्तात् प्रत्येकं प्रत्येकं स्रोतापत्तिफलं साक्षात्कृत्य तत्रैवान्तर्हितानि ॥
अथायुष्मान् महामौद्गल्यायनः प्रविविक्तां देवपर्षदं विदित्वा एकांसम् उत्तरासङ्गं कृत्वा येन भगवांस् तेनाञ्जलिं प्रणमय्य भगवन्तम् इदम् अवोचत्*: जम्बूद्वीपे भदन्त चतस्रः पर्षदो भगवतः पादौ शिरसा वन्दन्ते अल्पाबाधतां च पृच्छन्ति, अल्पातङ्कतां च लघूत्थानतां च यात्रां च बलं च सुखं चानवद्यतां च स्पर्शविहारतां च । भगवान् आह्: सुखिनो मौद्गल्यायन भवन्तु जम्बूद्वीपे चतस्रः पर्षदस् त्वं च । महामौद्गल्यायन आह: जम्बूद्वीपे भदन्त चतस्रः पर्षद आकाङ्क्षन्ति भगवतो दर्शनम्* । एवं चाहुः: नास्ति भदन्त जाम्बूद्वीपकानां मनुष्याणां तद्रूपा ऋद्धिर् वा अनुभावो वा येन जाम्बूद्वीपका मनुष्या देवांस् त्रायस्त्रिंशान् अभिरोहेयुर् भगवन्तं दर्शनायोपसंक्रमितुं पर्युपासनाय । अस्ति तु भदन्त देवानां त्रायस्त्रिंशानां तद्रूपा ऋद्धिश् चानुभावश् च, येन देवास् त्रायस्त्रिंशा जम्बूद्वीपम् अवतरेयुर् भगवन्तं दर्शनायोपसंक्रमितुं पर्युपासनाय । साधु भगवान् देवेभ्यश् त्रायस्त्रिंशेभ्यो ऽवतरेद् अनुकम्पाम् उपादाय । भगवान् आह: तेन हि त्वं गच्छ मौद्गल्यायन जम्बूद्वीपम्* । गत्वा च चतसृणां पर्षदाम् आरोचय: अवतरिष्यति भवन्तो भगवान् इतः सप्तमे दिवसे देवेभ्यस् त्रायस्त्रिंशेभ्यो जम्बूद्वीपं सांकाश्ये नगरे आपज्जुरे दावे उदुम्बरमूले इति ॥
अथायुष्मान् महामौद्गल्यायनो भगवतः प्रतिश्रुत्य पादौ शिरसा वन्दित्वा तद्रूपं समाधिं संपन्नो यथा समाहिते चित्ते तद्यथा बलवान् पुरुषः संकुञ्चितं बाहुं प्रसारयेत्*,
-------------------- वैद्य, प्. 216 --------------------

प्रसारितं वा संकुञ्चयेत्*, एवम् एवायुष्मान् महामौद्गल्यायनो देवेषु त्रायस्त्रिंशेष्व् अन्तर्हितः, जम्बूद्वीपे प्रत्यष्ठात्* । अथायुष्मान् महामौद्गल्यायनो जम्बूद्वीपम् आगत्य चतसृणां पर्षदाम् आरोचयति: अवतरिष्यति भवन्तो भगवान् इतः सप्तमे दिवसे देवेभ्यस् त्रायस्त्रिंशेभ्यो जम्बूद्वीपं सांकाश्ये नगरे आपज्जुरे दावे उदुम्बरमूले इति ॥
अवतीर्णो भगवांस् ततः सप्तमे दिवसे देवेभ्यस् त्रायस्त्रिंशेभ्यः सांकाश्ये नगरे आपज्जुरे दावे उदुम्बरमूले । यदा भगवान् साम्काश्यं नगरम् अवतीर्णः, तदा अनेकानि प्राणिशतसहस्राणि भगवतो दर्शनाय संनिपतितानि । तत्रोपपादुको भिक्षुः प्रादुर्भूतः । तेन भगवान् सश्रावकसंघस् ते च देवासुरगरुडकिन्नरमहोरगा भक्तेनोपनिमन्त्रिताः । यावद् गण्डीदेशनाकाले सहचित्तोत्पादाद् दिव्यान्य् आसनान्य् उदारपटाच्छादितानि प्रादुर्भूतानि, दिव्यानि च भक्ष्यभोज्यानि । तत उपपादुकेन भगवान् दिव्येनाहारेण संतर्पितः । ते च देवासुरगरुडकिन्नरमहोरगाः सम्यग् उपस्थिताः । ततो ऽस्य भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी धर्मदेशना कृता, यां श्रुत्वोपपादुकेन भिक्षुणा इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । अर्हन् संवृत्तः त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः ॥
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त उपपादुकेन कर्माणि कृतानि, येनोपपादुकः संवृत्तः? सहचित्तोत्पादाच् चास्य यच् चिन्तयति, तत् प्रार्थयते, तत् सर्वं संऋध्यतीति । भगवान् आह: उपपादुकेनैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । उपपादुकेनैव कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च:
न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि ।
सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्*

मूल पाठ: Avadānaśataka · Edition: the following editions: (1) Ed. P.L. Vaidya, Darbhanga 1958 (Buddhist Sanskrit Texts ; 19) and (2) Ed. J.S. Speyer, St. Petersbourg, 2 vols., 1906-1909 (Bibliotheca Buddhica ; 3) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc