अवदानशतक · अध्याय 85
भूतपूर्वं भिक्षवो ऽतीते ऽध्वन्य् अस्मिन्न् एव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* । स वाराणसीं नगरीम् उपनिश्रित्य विहरति ऋषिपतने मृगदावे । यावद् राज्ञः कृकिणः पुत्र ऋषिपतनं गतः । अथासौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* । सहदर्शनाच् चास्य प्रसादो जातः । स प्रसादजातो भगवतः पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णो धर्मश्रवणाय । तस्य भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी संसारवैराग्यिकी धर्मदेशना कृता, यां श्रुत्वा संसारे दोषदर्शी निर्वाणे गुणदर्शी भूत्वा राजानं विज्ञापयामास: अनुजानीहि मां तात, भगवच्छासने प्रव्रजिष्यामीति । राजोवाच: न शक्यम् एतन् मया कर्तुम्* । यस्मात् ते युवराजाभिषेको नचिरेण भविष्यतीति । कुमारः कथयति: अलं मे राज्येन बहुदोषदुष्टधर्मसंपन्नेन । अवश्यम् एवाहं भगवच्छासने प्रव्रजिष्यामीति । स पित्रा नानुज्ञातः । तेनैको भक्तच्छेदः कृतः, द्वौ त्रयो वा यावत् षड् भक्तच्छेदाः कृताः । ततो ऽस्य वयस्यकै राजा विज्ञप्तः । देव अनुजानीहि कुमारं प्रव्रजितुम्* । मा हैव कालं करिष्यतीति । ततो राज्ञा पुत्रः प्रतिज्ञां
-------------------- वैद्य, प्. 210 --------------------
करितः: तावत् ते ऽस्माकं दर्शनं न देयम्*, यावत् त्रयः पिटका अधीता इति । यावद् असौ पितरम् अनुज्ञाप्य भगवच्छासने प्रव्रजितः ।
तेन युज्यमानेन घटमानेन व्यायच्छमानेन नचिरेण त्रयः पिटका अधीताः । युक्तम् उक्तप्रतिभानी धार्मकथिकः संवृत्तः । तस्यैतद् अभवत्*: यन्व् अहं पूर्विकां प्रतिज्ञां निर्यातयेयम् इति । स पितुः सकाशं गतः । स पृष्टश् च: किं पुत्र अस्ति किंचिद् अधीतम् इति? तेनोक्तम्*: त्रयः पिटका इति । ततस् तेन पितुस् तादृशी धर्मदेशना कृता, यां श्रुत्वा राजा आत्तमनाः संवृत्तः । ततः प्रसादजातः कथयति: पुत्र केन ते प्रयोजनम् इति । तेनोक्तम्*: इच्छाम्य् अहं भगवन्तं सश्रावकसंघम् उपनिमन्त्र्य षड्भिः परिष्कारैर् आच्छादयितुम् इति । राजा कथयति: यथेष्टं कुरुष्व, विस्तीर्णं राजकुलम् इति । ततस् त्रिपिटेन भगवान् विंशतिसहस्रपरिवारः प्रणीतेनाहारेण संतर्पितः । एकैकश् च भिक्षुः षड्भिः परिष्कारैर् आच्छादितः । ततः पादयोर् निपत्य प्रणिधानं कृतम्*: यन् मया इदानीं कृच्छ्रेण प्रव्रज्या प्रतिलब्धा, तथागते च सश्रावकसंघे काराः कृताः, अनेनाहं कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च यत्र यत्र जायेय तत्र तत्र काषायवस्त्रप्रावृत एव श्रमणवेषधारी जातिस्मरश् च स्याम् इति ॥
भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन कृकिणः पुत्रः, अयं त्रिपिटः । तेनैव हेतुना आढ्ये राजकुले पुत्रो जातो ऽभिरूपो दर्शनीयः प्रासादिको जातिस्मरश् च संवृत्तः । इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_85 यशोमित्रः । (एद्. स्पेयेर्, वोल्. इइ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । श्रावस्त्याम् अन्यतमः सार्थवाह आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तेन सदृशात् कुलात् कलत्रम् आनीतम्* । स तया सार्धं क्रीडति रमते परिचारयति । तेन खलु समयेन दुर्भिक्षम् अभूत् कृच्छ्रम्* । कान्तारदुर्लभः (स्पेयेर्: दुर्लम्भः) पिण्डको याचनकेन ।
-------------------- वैद्य, प्. 211 --------------------
नैमित्तिकैश् च निर्दिष्टो देवो न वर्षिष्यतीति । यावत् सार्थवाहपत्नी आपन्नसत्वा संवृत्ता । सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता । दारको जातो ऽभिरूपो दर्शनीयः प्रासादिकः सर्वाङ्गोपेतः । यत्र च दिवसे दारको जातस् तत्रैव दिवसे ऽनावृष्टिर् भग्ना । तस्य यशसा सर्वा श्रावस्ती आपूरिता । तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते: किं भवतु दारकस्य नामेति । ज्ञातय ऊचुः: यस्माद् अस्य समन्ताद् यशो विसृतम्*, तस्माद् भवतु दारकस्य यशोमित्र इति नामेति । यशोमित्रो दारको ऽष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्* । सो ऽष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैः । आशु वर्धते ह्रदस्थम् इव पङ्कजम्* ॥
यदा यशोमित्रो महान् संवृत्तस् तदा जेतवनं निर्गतः केनचिद् एव करणीयेन । अथासौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* । सहदर्शनाच् चास्य प्रसादो जातः । प्रसादजातो भगवतः पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णो धर्मश्रवणाय । तस्य भगवता तादृशी संसारवैराग्यिकी धर्मदेशना कृता, यां श्रुत्वा संसारदोषदर्शी निर्वाणगुणदर्शी भूत्वा मातपितराव् अनुज्ञाप्य भगवच्छासने प्रव्रजितः । तेन युज्यमानेन घटमानेन व्यायच्छमानेन इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । अर्हन् संवृत्तः त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः । तस्य दंष्ट्राभ्याम् अष्टाङ्गोपेतं पानीयं प्रस्रवति, येनास्य तृषा न बाधते । यदा निदाघकाले भिक्षवस् तृषार्ताः पानकस्यार्थे संघम् अवतरन्ति, तदाप्य् असौ नावतरति । ततो ऽस्य सुप्रेमका भिक्षवः पृच्छन्ति: केन हेतुना भवतस् तृषा न बाधत इति । स कथयति: ममैताभ्यां दंष्ट्राभ्याम् अष्टाङ्गोपेतं पानीयं प्रस्रवति, येन न मे तृषा बाधता इति ॥
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त यशोमित्रेण कर्माणि कृतानि, येनाभिरूपो दर्शनीयः प्रासादिकः, दंष्ट्रान्तराच् चाष्टाङ्गोपेतं पानीयं प्रस्रवति, प्रव्रज्य चार्हत्वं साक्षात्कृतम् इति । भगवान् आह: यशोमित्रेणैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । यशोमित्रेण कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च:
-------------------- वैद्य, प्. 212 --------------------
न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि ।
सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्*
मूल पाठ: Avadānaśataka · Edition: the following editions: (1) Ed. P.L. Vaidya, Darbhanga 1958 (Buddhist Sanskrit Texts ; 19) and (2) Ed. J.S. Speyer, St. Petersbourg, 2 vols., 1906-1909 (Bibliotheca Buddhica ; 3) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0