भाषा

ENहिગુ
ग्रंथ पाठ

अवदानशतक · अध्याय 84

84.1

भूतपूर्वं भिक्षवो ऽतीते ऽध्वन्य् अस्मिन्न् एव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः
-------------------- वैद्य, प्. 208 --------------------
पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* । स वाराणसीं नगरीम् उपनिश्रित्य विहरति ऋषिपतने मृगदावे । अथ काश्यपः सम्यक्संबुद्धः सकलं बुद्धकार्यं कृत्वा इन्धनक्षयाद् इवाग्निर् निरुपधिशेषे निर्वाणधातौ परिनिर्वृतः । तस्य राज्ञा कृकिणा शरीरे शरीरपूजां कृत्वा समन्तयोजनश् चतूरत्नमयः स्तूपः प्रतिष्ठापितः क्रोशम् उच्चत्वेन । तत्र च स्तूपमहे वर्तमाने द्यूतकरेण दीनारद्वयं तस्मिन् स्तूपे यष्ट्यां समारोपितम्* । ततः पादयोर् निपत्य प्रणिधानं कृतवान्*: यत्र यत्र जायेय, तत्र तत्र हस्तगतेनैव सुवर्णेनेति ॥
भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन द्यूतकर आसीत्*, अयं स हिरण्यपाणिः । यद् अनेन स्तूपे दीनारद्वयं समारोपितम्*, तेनास्यैवंविधो विशेषः संवृत्तः । यत् प्रणिधानं कृतं तेनेदानीम् अर्हत्वं साक्षात्कृतम्* । इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_84 त्रिपिटकः । (एद्. स्पेयेर्, वोल्. इइ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । तेन खलु समयेन श्रावस्त्यां राजा प्रसेनजित् कौशलो राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च {सुभिक्षं च} आकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नम्* । प्रियम् इवैकपुत्रकं राज्यं पालयति । यावद् असौ देव्या सह क्रीडति रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्वा संवृत्ता । सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता । दारको जातः काषायवस्त्रं प्रावृत्य श्रमणवेषधारी जातिस्मरश् च । स जातमात्रः पृच्छति: किं भगवान् इहैव श्रावस्त्यां शारिपुत्रमौद्गल्यायनकाश्यपानन्दप्रभृतयो वा महाश्रावका इति । ततो ऽस्य माता विस्मयहर्षपूर्णा कथयति: पुत्रक भगवान् इहैव श्रावस्त्यां महाश्रावकाश् चेति । यावद् एषो ऽर्थो राज्ञः प्रसेनजितो निवेदितः: पुत्रस् ते जातः । काषायवस्त्रं प्रावृत्य श्रमणवेषधारी जातिस्मरश् च । स भगवतो महाश्रावकाणां च प्रवृत्तिम् अन्वेषत इति । ततो राज्ञा प्रसेनजिता तस्यानुग्रहार्यं भगवान् सश्रावकसंघो भक्तेनोपनिमन्त्रितः । अथ भगवान् भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो येन राज्ञः प्रसेनजितो भक्ताभिसारस् तेनोपसंक्रान्तः । उपसंक्रम्य पुरस्ताद् भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः । ततो राजा प्रसेनजित् कौशलः पुत्रम् उत्सङ्गे कृत्वा भगवतो दर्शयति: अयं मे भगवन् पुत्रो जातमात्र एष
-------------------- वैद्य, प्. 209 --------------------
भगवन्तं स्मरति, महाश्रावकांश् चेति । ततो भगवांस् तं कुमारम् आमन्त्रयते: आरोग्यं ते त्रिपिटेति । स कथयति: वन्दे तथागतम् अर्हन्तं सम्यक्संबुद्धम् इति । ततो राजा प्रसेनजित् परम् विस्मयम् आपन्नः ॥
यदा सप्तवर्षो जातस् तदा भगवच्छासने प्रव्रजितस् तैर् एव काषायैः प्रावृतः । तेन युज्यमानेन घटमानेन व्यायच्छमानेन इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । अर्हन् संवृत्तः त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः ॥
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त त्रिपिटेन कर्माणि कृतानि, येन काषायवस्त्रप्रावृतो जातः श्रमणवेषधारी जातिस्मरः । प्रव्रज्य चार्हत्वं साक्षात्कृतम् इति । भगवान् आह: त्रिपिटेनैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । त्रिपिटेन कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च:
न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि ।
सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्*

मूल पाठ: Avadānaśataka · Edition: the following editions: (1) Ed. P.L. Vaidya, Darbhanga 1958 (Buddhist Sanskrit Texts ; 19) and (2) Ed. J.S. Speyer, St. Petersbourg, 2 vols., 1906-1909 (Bibliotheca Buddhica ; 3) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc