भाषा

ENहिગુ
ग्रंथ पाठ

अवदानशतक · अध्याय 81

81.1

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्याम् अन्यतमा श्रेष्ठिभार्या चण्डा रभसा कर्कशा । असति बुद्धानाम् उत्पादे प्रत्येकबुद्धा लोक उत्पद्यन्ते हीनदीनानुकम्पकाः प्रान्तशयनासनभक्ता एकदक्षिणीया लोकस्य । यावद् अन्यतरः प्रत्येकबुद्धस् तद् गृहं प्रविष्टो विरूपः । स तया बहु परिभाष्य गृहान् निष्कासितः: केनायं विरूपो मम गृहे प्रवेशित इति । ततः प्रत्येकबुद्धस् तस्या अनुग्रहार्थं विततपक्ष इव हंसराजो गगनतलम् अभ्युद्गम्य विचित्राणि प्रातिहार्याणि विदर्शयितुम् आरब्धः । ततः श्रेष्ठिभार्यया विप्रतिसारजातया ### {क्षमस्वेत्य् उक्तः} । यावद् असौ क्षमितः पिण्डकेन प्रतिपादितश् च । प्रणिधानं च कृतम्*: यन् मया प्रत्येकबुद्धः परिभाषितः, मा अस्य कर्मणो विपाकम् अनुभवेयम्*, एवंविधानां च धर्माणां लाभिनी स्यां*, प्रतिविशिष्टतरं च शास्तारम् आरागयेयम् इति ॥
-------------------- वैद्य, प्. 200 --------------------
किं मन्यध्वे भिक्षवो यासौ श्रेष्ठिभार्या, इयम् असौ गङ्गरस्था । यद् अनया प्रत्येकबुद्धः पिण्डकेन प्रतिपादितः, तस्य कर्मणो विपाकेनाढ्ये राजकुले प्रत्यागता । यद् विरूपाववादेन समुदाचर्य गृहान् निष्कासितः, तेन विरूपा संवृत्ता । भूयः काश्यपे भगवति प्रव्रजिता आसीत्* । तत्रानया पठितं स्वाध्यायितं स्कन्धकौशलम् आयतनकौशलं प्रतीत्यसमुत्पादकौशलं स्थानास्थानकौशलं कृतम्*, ब्रह्मचर्यवासश् च परिपालितः, तेनेदानीम् अर्हत्वं साक्षात्कृतम्* । इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
-------------------- वैद्य, प्. 201 --------------------
नवमो वर्गः ।
तस्योद्दानम्*.
समुद्रः सुमनाश् चैव हिरण्यपाणिस् त्रिपिटेन च ।
यशोमित्रोपपादौ च शोभितः कप्फिणस् तथा ।
भद्रिको राष्ट्रपालश् च वर्गो भवति समुद्दितः ॥
अव्श्_81 समुद्रः । (एद्. स्पेयेर्, वोल्. इइ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । श्रावस्त्याम् अन्यतमः सार्थवाहः । तेन सदृशात् कुलात् कलत्रम् आनीतम्* । स तया सार्धं क्रीडति रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतो बुद्धिर् उत्पन्ना: यावद् अहं युवा, तावद् धनसंचयं करोमि । पश्चाद् वृद्धावस्थायां सुखं परिमोक्ष्ये इति । ततः सार्थवाहः पञ्चवणिक्छतपरिवारो *{वैद्य: श्वणिक्शतश्}* यानपात्रम् आदाय भार्यासहायो महासमुद्रम् अवतीर्णः । यावद् प्रजावती आपन्नसत्वा जाता । यावत् तरैव समुद्रमध्ये प्रसूता । दारको जातो ऽभिरूपो दर्शनीयः प्रासादिकः । तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थापितम्*: यस्मात् समुद्रमध्ये जातस् तस्मात् समुद्र इति नाम् । यावद् असौ सार्थवाहः स्वस्तिक्षेमाभ्यां संसिध्हयानपात्रो महासमुद्रात् प्रत्यागतः ॥
यदा समुद्रो दरको महान् संवृत्तस् तदा पित्रा सार्थवाहत्वे प्रतिष्ठाप्य पञ्चवणिक्छतपरिवारो *{वैद्य: श्वणिक्शतश्}* महासमुद्रं संप्रेषितः । सो ऽनुपूर्वेण चञ्चूर्यमाणो ग्रामनगरनिगमराष्ट्रराजधानीपट्टनान्य् अवलोकयन् समुद्रतीरम् अनुप्राप्तः । स प्ञ्चभिः पुराणशतैर् वहनं भृत्वा पञ्च पौरुषेयान्* गृहीत्वा आहारं नाविकं कैवर्तं कर्णधारं च त्रिर् अपि घण्टावघोषणं कृत्वा महासमुद्रम् अवतीर्णः । ततस् तेषां समुद्रमध्यगतानां कालिकावातेन तद् वहनम् इतश् चामुतश् च परिभ्राम्यते । समुद्रश् च सार्थवाहस् तीर्थिकाभिप्रसन्नः । सो ऽकालमृत्युभयभीतः षट् शास्तॄन् आयाचितुं प्रवृत्तः । तथापि तद् वहनं वायुना भ्राम्यत एव । यावद् अन्ये वणिजो देवतासहस्राण्य् आयाचितुं प्रवृत्ताः । आहुश् च:
शिववरुणकुबेरा वायुर् अग्नि महेन्द्रो
भुवि च तुविमघो यो विश्वदेवो महर्षिः ।
वयम् इह मरणार्ता वः प्रपन्नाः स्म शीघ्रं
व्यसनम् इदम् उपेतं त्रातुम् इच्छन्तु सार्थम्* ॥
-------------------- वैद्य, प्. 202 --------------------
ततस् तेषाम् एवम् अपि परिदेवमानानां नास्ति कश्चित् त्राता । यावत् तत्रान्यतम उपासकः समारूढः । स उवाच: किं वो भवन्तः षट् शास्तार अन्ये च देवताः करिष्यन्ति? बुद्धं भगवन्तं प्रत्यक्षदेवतं भावेन शरणं प्रपद्यध्वम्* । स वस् त्राता भविष्यतीति । ततः समुद्रप्रमुखानि पञ्च वणिक्छतानि एकस्वरेण भगवन्तं शरणं प्रपन्नानि ॥
अत्रान्तरे नास्ति किंचिद् बुद्धानां भगवताम् अज्ञातम् अदृष्टम् अविदितम् अविज्ञातम्* । धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां लोकानुग्रहप्रवृत्तानाम् एकारक्षाणाम् शमथविपश्यनाविहारिणां त्रिदमथवस्तुकुशलानां चतुरोघोत्तीर्णानां चतुरृद्धिपादचरणतलसुप्रतिष्ठितानां पञ्चाङ्गविप्रहीणानां पञ्चगतिसमतिक्रान्तानां षडङ्गसमन्वागतानां षट्पारमितापरिपूर्णानां सप्तबोध्यङ्गकुसुमाढ्यानाम् अष्टाङ्गमार्गदेशिकानां नवानुपूर्वविहारसमापत्तिकुशलानां दशबलबलिनां दशदिक्समापूर्णयशसां दशशतवशवर्तिप्रतिविशिष्टानां त्री रात्रेस् त्रिर् दिवसस्य बुद्धचक्षुषा लोकं व्यवलोक्य ज्ञानदर्शनं प्रवर्तते: को हीयते को वर्धते कः कृच्छ्रप्राप्तः कः संकटप्राप्तः कः संबाधप्राप्तः कः कृच्छ्रसंकटसंबाधप्राप्तः, को ऽपायनिम्नः को ऽपायप्रवणः को ऽपायप्राग्भारः । कम् अहम् अपायाद् उद्धृत्य स्वर्गे मोक्षे च प्रतिष्ठापयेयम्*, कस्यानवरोपितानि कुशलमुलान्य् अवरोपयेयम्*, कस्यावरोपितानि परिपाचयेयम्*, कस्य परिपक्वानि विमोचयेयम्* । आह च:
अप्य् एवातिक्रमेद् वेलां सागरो मकरालयः ।
न तु वैनेयवत्सानां बुद्धो वेलाम् अतिक्रमेत्

81.2

यावद् भगवता जेतवनावस्थितेन सूर्यसहस्रातिरेकप्रभाः कनकवर्णा मरीचय उत्सृष्टाः, यैस् ते वणिजः समन्ताद् अवभासिताः । कल्पसहस्रपरिभाविताश् चांशव उत्सृष्टाः, यैः प्रह्लादिताः । कालिकावातश् च प्रत्यागतः ॥
यावत् समुद्रः स्वस्तिक्षेमाभ्यां संसिद्धयानपात्रः प्रत्यागतस् तेनैव मरणसंवेगेन दानप्रदानानि दत्वा बन्धुजनं समाश्वास्य श्रमणब्राह्मणकृपणवनीपकान् संतर्प्य पञ्चवणिक्छतपरिवारो भगवच्छासने प्रव्रजितः । तेन युज्यमानेन घटमानेन व्यायच्छमानेन इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । अर्हन् संवृत्तः त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः ॥
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: आश्चर्यं भदन्त यद् भगवता इमानि समुद्रप्रमुखानि पञ्च वणिक्छतानि इष्टेन जीवितेनाच्छादितानि, व्यसनात् परित्रातानि, अत्यन्तनिष्टे च निर्वाणे प्रतिष्ठापितानीति । भगवान् आह: किम् अत्र भिक्षव आश्चर्यं यद् इदानीं मया विगतरागेण विगतद्वेषेण विगतमोहेन परिमुक्तेन जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैः इमानि समुद्रप्रमुखानि पञ्च वणिक्छतानि इष्टेन जीवितेनाच्छादितानि,
-------------------- वैद्य, प्. 203 --------------------
व्यसनात् परित्रातानि, अत्यन्तनिष्टे च निर्वाणे प्रतिष्ठापितानीति । यत् तु मया अतीते ऽध्वनि सरागेण सद्वेषेण समोहेनापरिमुक्तेन जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैः इमे वणिजः परित्राताः । तच् छृणुत, साधु च सुष्ठु च मनसि कुरुत, भाषिष्ये ॥
भूतपूर्वं भिक्षवो ऽतीते ऽध्वन्य् अन्यतरस्मिन् समुद्रतीरे पञ्चाभिज्ञः ऋषिः प्रतिवसति, कष्टतया मूलफलाम्बुभक्तो ऽजिनवल्कलवासी अग्निहोत्रिकः (स्पेयेर्: अग्निहोत्रकः) । स च कारुणिको महात्मा धर्मकामः प्रजावत्सलो व्यसनगतानां परित्राता । यावद् वाराणस्यां पञ्चवणिक्छतानि समुद्रम् अवतर्तुकामानि । तान्य् अनुपूर्वेण चञ्चूर्यमाणानि समुद्रतीरम् अनुप्रातानि । तम् ऋषिं दृष्ट्वा प्रसादजातानि पादयोर् निपत्य विज्ञापयितुम् आरब्धानि: यद्य् अस्माकं भगवन् समुद्रमध्यगतानां किंचिद् व्यसनम् उत्पद्यते, भगवता तावद् एते परित्रातव्या इति । तेनाधिवासितम्*: एवं भवत्व् इति । ततस् ते वणिजो रत्नान्य् आदाय जम्बुद्वीपाभिमुखाः संप्रस्थिताः । यावत् कालिकया राक्षस्या संत्रासितुम् आरब्धाः । ततस् तेन ऋषिणा परित्राराः । ततः संसिद्धयानपात्राः प्रत्यागता ऋषिसमीपम् उपगम्योचुः: भो महर्षे अनेन दुष्करेण व्यवसायेन कारुण्यभावाच् च किं प्रार्थयस इति । तेनोक्तम्*: अन्धे लोके ऽनायके बुद्धो भूयासम् अतीर्णानां सत्वानां तारयिता, अमुक्तानां मोचयिता, अनाश्वस्तानाम् आश्वासयिता, अपरिनिर्वृतानां परिनिर्वापयितेति । तैर् उक्तम्*: यदा त्वं बुद्धो भवेस् तदा अस्मान् अपि समन्वाहरेथा इति । ऋषिर् आह: एवम् अस्त्व् इति ॥
किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन ऋषिर् आसीत्*, अहं सः । ये ते वणिजः, इमे ते समुद्रप्रमुखास् तदाप्य् एते मया परित्राताः । भूयः काश्यपे भगवति प्रव्रजिता बभूवुः । तत्रैभिर् इन्द्रयपरिपाकः कृतः । तेनेदानीम् अर्हत्वं साक्षात्कृतम्* । इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_82 सुमनाः । (एद्. स्पेयेर्, वोल्. इइ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । श्रावस्त्याम् अन्यतमो गृहपतिर् आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तेन सदृशात् कुलात् कलत्रम् आनीतम्* । स तया सार्धं क्रीडति
-------------------- वैद्य, प्. 204 --------------------
रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतः पुत्राः प्रजायन्ते च म्रियन्ते च । तस्मिंश् च गृहे स्थविरो ऽनिरुद्धः कुलोपगतः । ततो गृहपतेर् इयं बुद्धिर् उत्पन्ना: अयं स्थविरानिरुद्धो विपाकमहेशाख्यः, एतं तावद् आयाचिष्ये: यदि मे पुत्रो जायते, अस्य पश्चाच्छ्रमणं दस्यामीति । ततो गृहपतिना स्थविरानिरुद्धो ऽन्तर्गृहे भक्तेनोपनिमन्त्रितः । ततः पिण्डकेन प्रतिपाद्यायाचितः: यदि मे पुत्रो जातो जीवति, स्थविरस्य पश्चाच्छ्रमणं दस्यामीति । स्थविरानिरुद्धेनोक्तम्*: एवम् अस्तु, किं तु स्मर्तव्या ते प्रतिज्ञेति ॥
यावद् अपरेण समयेन पत्न्या सार्धं क्रीडति रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्वा संवृत्ता । तस्याः कायात् सुरभिर् गन्धः प्रवाति । यावन् नवानां मासानाम् अत्ययात् प्रसूता । दारको जातः अभिरूपो दर्शनीयः प्रासादिको दिव्यसुमनःकञ्चिकया प्रावृतः । तस्य जातौ जातिमहं कृत्वा सुमना इति नामधेयं व्यवस्थापितम्* । ततः स्थविरानिरुद्धम् अन्तर्गृहे भक्तेनोपनिमन्त्र्य स दारको निर्यातितः । ततः स्थविरानिरुद्धेनास्मै काषायाणि दत्तानि, आशीर् वादश् च: दीर्घायुर् भवत्व् इति ॥
यदा सप्तवर्षो जातस् तदा मातापितृभ्यां स्थविराय दत्तः । ततः स्थविरानिरुद्धेन प्रव्राज्य मनसिकारो दत्तः । तेन युज्यमानेन घटमानेन व्यायच्छमानेन इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । अर्हन् संवृत्तः त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः । स च तीक्ष्णेन्द्रियः । यदा पांसुकूलं प्रतिसंस्करोति, तदा एकैकस्मिन्* सूचीप्रदेशे अष्टौ विमोक्षान् समापद्यते च व्युत्तिष्ठते च ॥

यावद् अपरेण समयेन स्थविरानिरुद्धेनोक्तः: गच्छ पुत्रक, नद्या अजिरवत्या उदकम् आनयेति । ततः सुमनाः श्रमणोद्देशो घटम् आदायाजिरवतीम् अवतीर्णः । तत्र स्नात्वा उदकस्य घटं पूरयित्वा विहायसं प्रस्थितः । अग्रतो घटो गच्छति, ततः सुमनाः श्रमणोद्देशः । तस्मिंश् च समये भगवान् प्रतिसंलयनाद् व्युत्थाय चतसृणां पर्षदां धर्मं देशयति । तत्र भगवान् आयुष्मन्तं शारिपुत्रम् आमन्त्रयते: इमं पश्य शारिपुत्र श्रमणोद्देशम् आगच्छन्तम् उदकस्य घटं पूरयित्वा स्मृतिमन्तं सुसमाहितेन्द्रियम्* ।
हित्वा रागं च द्वेषं च अभिध्यां च विरागयन्* ।
संघारयन्न् इमं देहं शोभते उदहारकः ॥
-------------------- वैद्य, प्. 205 --------------------
यदा भगवता सुमनाः श्रमणोद्देशो भिक्षुसंघस्य पुरस्तात् स्तुतः प्रशस्तश् च, तदा भिक्षूणां संदेहो जातः । कानि भदन्त सुमनसा कर्माणि कृतान्य् उपचितानि, येनाभिरूपो दर्शनीयः प्रासादिको दिव्यया च सुमनसां कञ्चुकया प्रावृत्तो जातः, तीक्ष्नेन्द्रियः, अर्हत्वं च प्राप्तम् इति । सुमनसैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । सुमनसा तानि कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च:
न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि ।
सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्*

मूल पाठ: Avadānaśataka · Edition: the following editions: (1) Ed. P.L. Vaidya, Darbhanga 1958 (Buddhist Sanskrit Texts ; 19) and (2) Ed. J.S. Speyer, St. Petersbourg, 2 vols., 1906-1909 (Bibliotheca Buddhica ; 3) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc