भाषा

ENहिગુ
ग्रंथ पाठ

अवदानशतक · अध्याय 83

83.1

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि एकनवते कल्पे विपश्यी नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* । स बन्धुमतीं राजधानीम् उपनिश्रित्य विहरति । यावद् अन्यतमः सार्तवाहः । तस्य तरुणावस्थायां प्रव्रज्याचित्तम् उत्पन्नम्* । तेन न शकितं प्रव्रजितुम्* । यदा वृद्धो भूतस् तदा तस्य विप्रतिसारो जातः: न मे शोभनं कृतं यद् अहं भगवच्छासने न प्रव्रजित इति । ततस् तेन केशनखनस्तूपे सुमनःपुष्पारोपणं कृतम्*, विपश्यी च सम्यक्संबुद्धः सश्रावकसंघः पिण्डकेन प्रतिपादितः । ततः तेन पादयोर् निपत्य प्रणिधानं कृतम्*: अनेनाहं कुशलमूलेम चित्तोत्पादेन देयधर्मपरित्यागेन च अनागतान् सम्यक्संबुद्धानाम् आरागयेयम्* । यस्य च शासने प्रव्रजेयम्*, तत्र दहरावस्थायाम् आर्यधर्मान् अधिगच्छेयम् इति । भूयः काश्यपे भगवति प्रव्रजितो बभूव । तत्रानेन दश वर्षसहस्राणि ब्रह्मचर्यावासः परिपालितः । तेनेदानीम् अर्हत्वं साक्षात्कृतम्* । इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_83 हिरण्यपाणिः । (एद्. स्पेयेर्, वोल्. इइ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । श्रावस्त्याम् अन्यतमो गृहपतिर् आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो
-------------------- वैद्य, प्. 206 --------------------
वैश्रवणधनप्रतिस्पर्धी । न चास्य पुत्रो न दुहिता । स करे कपोलं दत्वा चिन्तापरो व्यवस्थितः: अनेकधनसमुदितं मे गृहम्*, न मे पुत्रो न दुहिता । ममात्ययात् सर्वस्वापतेयम् अपुत्रकम् इति कृत्वा राजविधेयं भविष्यतीति । स श्रमणब्राह्मणसुहृत्संबन्धिबान्धवैर् उच्यते: देवताराधनं कुरुष्वेति । अस्ति चैष लोके प्रवादो यदायाचनहेतोः पुत्रा जायन्ते दुहितरश् चेति । तच् च नैवम्* । यद्य् एवम् अभविष्यत्*, एकैकस्य पुत्रसहस्रम् अभविष्यत् तद्यथा राज्ञश् चक्रवर्तिनः । अपि तु त्रयाणां स्थानानां संमुखीभावात् पुत्रा जायन्ते दुहितरश् च । कतमेषां त्रयाणाम्* । मातापितराउ रक्तौ भवतः संनिपतितौ, माता कल्या भवति ऋतुमती, गन्धर्वश् च प्रत्युपस्थितो भवति । एतेषां त्रयाणां स्थानानां संमुखीभावात् पुत्रा जायन्ते दुहितरश् च । स चैवम् आयाचनपरस् तिष्ठति ॥
अन्यतमश् च सत्वो ऽन्यतमस्माद् देवनिकायाच् च्युत्वा तस्य प्रजापत्याः कुक्षिम् अवक्रान्तः । पञ्चावेणिका धर्मा एकत्ये पण्डितजातीये मातृग्रामे । कतमे पञ्च । रक्तं पुरुषं जानाति, विरक्तं पुरुषं जानाति । कालं जानाति ऋतुं जानाति । गर्भम् अवक्रान्तं जानाति । यस्य सकाशाद् गर्भो ऽवक्रामति तं जानाति । दारकं जानाति । दारिकां जानाति । सचेद् दारको भवति दक्षिणं कुक्षिं निश्रित्य तिष्ठति । {सचेद् दारिका भवति वामं कुक्षिं निश्रित्य तिष्ठति ।} सा आत्तमनाः स्वामिन आरोचयति: दिष्ट्या आर्यपुत्र वर्धसे । आपन्नसत्वास्मि संवृत्ता । यथा च मे दक्षिणं कुक्षिं निश्रित्य तिष्ठति नियतं दारको भविष्यतीति । सो ऽप्य् आत्तमनाः पूर्वकायम् अभ्युन्नमय्य (स्पेयेर्: अत्युन्नमय्य) दक्षिणं बाहुम् अभिप्रसार्य उदानम् उदानयति: अप्य् एवाहं चिरकालाभिलषितं पुत्रमुखं पश्येयम्* । जातो मे स्यान् नावजातः । कृत्यानि मे कुर्वीत । भृतः प्रतिबिभृयात् । दायाद् यं प्रतिपद्येत । कुलवंशो मे चिरस्थितिकः स्यात्* । अस्माकं चाप्य् अतीतकालगतानाम् अल्पं वा प्रभूतं वा दानानि दत्वा पुण्यानि कृत्वा अस्माकं नाम्ना दक्षिणाम् आदेक्ष्यति: इदं तयोर् यत्रतत्रोपपन्नयोर् गच्छतोर् अनुगच्छत्व् इति । आपन्नसत्वां चैनां विदित्वोपरिप्रासादतलगताम् अयन्त्रितां धारयति, शीते शीतोपकरणैर् उष्णे उष्णोपकरणैर् वैद्यप्रज्ञप्तैर् आहारैर् नातितिक्तैर् नात्यम्लैर् नातिलवणैर् नातिमधुरैर् नातिकटुकैर् नातिकषायैस् तिक्ताम्ललवणमधुरकटुककषायविवर्जितैर् आहारैः । हारार्धहारविभूषितगात्रीम् अप्सरसम् इव नन्दनवनविचारिणीं मञ्चान् मञ्चं पीठात् पीठम् अनवतरन्तीम् अधरां भूमिम्* । न चास्याः किंचिद् अमनोज्ञशब्दश्रवणं यावद् एव गर्भस्य परिपाकाय ॥
सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता । दारको जातो ऽभिरूपो दर्शनीयः प्रासादिकः सर्वाङ्गप्रत्यङ्गोपेतः । पाणिद्वये चास्य लक्षणाहतं कर्मविपाकजं दीनारद्वयम्* । यदा तद् अपनीतं भवति तदा अन्यत् प्रादुर्भवति । तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते: किं भवतु दारकस्य नामेति । ज्ञातयः ऊचुः: यस्माद् अस्य जातमात्रस्य पाणिद्वये लक्षणाहतं कर्मविपाकजं दीनारद्वयं प्रादुर्भूतम्*, तस्माद् भवतु दारकस्य हिरण्यपाणिर् इति नामेति । हिरण्यपाणिर् दारको ऽष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्* । सो ऽष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैः । आशु वर्धते ह्रदस्थम् इव पङ्कजम्* । स श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको
-------------------- वैद्य, प्. 207 --------------------
महात्मा धर्मकामः प्रजावत्सलः । य यदा वीथीम् अवतीर्णो भवति, तदा श्रमणब्राह्मणकृपणवनीपकान् दृष्ट्वा पाणिद्वयं प्रसारयति । ततो लक्षणाहतस्य हिरण्यसुवर्णस्य राशिः प्रादुर्भवति, येन तान् संतर्पयति । तस्य यशसा सर्वा श्रावस्ती आपूर्णा ॥

यावद् हिरण्यपाणिर् दारको ऽपरेण समयेन जेतवनं निर्गतः । अथासौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* । सहदर्शनाच् चानेन भगवतो ऽन्तिके चित्ते प्रसादितम्* । प्रसादजातश् च भगवतः पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णो धर्मश्रवणाय । ततो ऽस्य भगवता धर्मो देशितः । स आयुष्मन्तम् आनन्दम् इदम् अवोचत्*: इच्छाम्य् अहम् आचार्य भगवतः सश्रावकसंघस्य भक्तं कर्तुम् इति । स्थविरानन्देनोक्तः: वत्स कार्षापणैः प्रयोजनम् इति । ततो हिरण्यपाणिना बुद्धप्रमुखस्य भिक्षुसंघस्य पुरस्तात् स्थित्वा पाणिद्वयं प्रसार्य हिरण्यसुवर्णस्य महान् राशिः स्थापितः, यं दृष्ट्वा संघस्थविरो ऽन्ये च भिक्षवः स्थविरानन्दश् च परं विस्मयम् आपन्नाः । ततो हिरण्यपाणिर् दारको बुद्धप्रमुखं भिक्षुसंघं भोजयित्वा भगवतः पुरस्तान् निषण्णो धर्मश्रवणाय । तस्य भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा हिरण्यपाणिदारिकेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतापत्तिफलं साक्षात्कृतम्* । दृष्टसत्यो ज्ञातीनां भागसंविभागं कृत्वा श्रमणब्राह्मण्कृपणनीपकान् संतर्प्य मातापितराव् अनुज्ञाप्य भगवच्छासने प्रव्रजितः । तेन युज्यमानेन घटमानेन व्यायच्छमानेन इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । अर्हन् संवृत्तः त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः ॥
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त हिरण्यपाणिना कर्माणि कृतानि, येनास्य पाणिद्वये लक्षनाहतं दीनारद्वयं जातम्*, प्रव्रज्य चार्हत्वं साक्षात्कृतम् इति । भगवान् आह: हिरण्यपाणिनैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । हिरण्यपाणिना कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च:
न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि ।
सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्*

मूल पाठ: Avadānaśataka · Edition: the following editions: (1) Ed. P.L. Vaidya, Darbhanga 1958 (Buddhist Sanskrit Texts ; 19) and (2) Ed. J.S. Speyer, St. Petersbourg, 2 vols., 1906-1909 (Bibliotheca Buddhica ; 3) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc