अवदानशतक · अध्याय 80
भूतपूर्वं भिक्षवो ऽतीते ऽध्वन्य् अस्मिन्न् एव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* । स वाराणसीं नगरीम् उपनिश्रित्य विहरति ऋषिपतने मृगदावे । यावत् तत्रान्यतरा श्रेष्ठिदुहिता भगवतः कास्यपस्य शासने प्रव्रजिता । तया भगवतः काश्यपस्य शासने दानप्रदानानि दत्तानि, द्वादश वर्षसहस्राणि च ब्रह्मचर्यवासः परिपालितः, न च कश्चिद् गुणगणो ऽधिगतः, यस्यास् तूपाध्यायिकायाः सकाशे प्रव्रजिता आसीत्*, सा भगवता काश्यपेन प्रज्ञावतीनाम् अग्रा निर्दिष्टा । ततस् तया प्रणिधानं कृतम्*: यथैषा उपाध्यायिका प्रज्ञावतीनाम् अग्रा निर्दिष्टा, एवम् अहम् अप्य् अनागते ऽध्वनि यो ऽसौ भगवता काश्यपेन उत्तरो नाम माणवो व्याकृतः: भविष्यसि त्वं माणव वर्षशतायुषि प्रजायां शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्ध इति, तस्याहं शासने प्रव्रजित्वा प्रज्ञावतीनाम् अग्रा भवेयम् इति ॥
भगवान् आह: किं मन्यध्वे भिक्षवो यासौ तेन कालेन तेन समयेन श्रेष्ठिदुहिता, इयं सा क्षेमा भिक्षुणी । यत् तया दानानि प्रदत्तानि, तेनाढ्ये कुले प्रत्याजाता । यत् तया द्वादश वर्षसहस्राणि ब्रह्मचर्यवासः परिपालितः, तेनेदानीम् अर्हत्वं साक्षात्कृतम्* । इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
-------------------- वैद्य, प्. 197 --------------------
अव्श्_80 विरूपा । (एद्. स्पेयेर्, वोल्. इइ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । तेन खलु समयेन प्रसेनजित् कौशलो राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नम्* । प्रियम् इवैकपुत्रकं राज्यं पालयति । यावत् स राजा अन्यतमया देव्या सह क्रीडति रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्वा संवृत्ता । सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता । दारिका जाता अष्टादशभिर् दौर्वर्णिकैर् अङ्गैः समन्वागता । तस्या जातौ जातिमहं कृत्वा विरूपेति नामधेयं व्यवस्थाप्यते । यदा क्रमेण महती संवृत्ता, तदा यस्मै प्रदीयते, स तां विरूपेति कृत्वा न प्रतिगृह्णाति ॥
यावद् दक्षिणापथाद् गङ्गो नाम सार्थवाहो ऽभ्यागतो विस्तीर्णविभवः । ततो राज्ञः प्रसेनजितो बुद्धिर् उत्पन्ना: अयं गङ्गसार्थवाह एतस्या दोषेष्व् अनभिज्ञः । यन्व् अहम् अस्मै दास्यामीति । ततो राज्ञा रात्रौ संप्राप्तायां भग्नचक्षुष्पथे (स्पेयेर्: भग्ने चक्षुष्पथे) गङ्गं दूतेनाह्वाप्य सा दारिका सर्वालंकारविभूषिता भार्यार्थे दत्ता गङ्गाय । ### गङ्गरस्था गङ्गरस्थेति संज्ञा प्रादुर्भूता ॥
यावद् गङ्गेन सार्थवाहेन द्वितीये दिवसे प्रभातायां रजन्यां सा दारिका दृष्टा परमबीभत्सा । यां दृष्ट्वा राजापेक्षया न शक्नोत्य् अवमोक्तुम्* । स्वगृहे धारयति ॥
यावद् गङ्गः सार्थवाहः कस्मिंश्चित् पर्वण्य् उपस्थिते गोष्ठिकानां मध्यं गतः । गोष्ठिकैश् च क्रियाकारः कृतः: सह भार्यया अमुकम् उद्यानं यो नो यास्यति, स गोष्ठिकानां पञ्च पुराणशतानि दण्डम् अनुप्रदास्यतीति । ततो गङ्गः स्वगृहम् आगत्य शोकागारं प्रविश्य करे कपोलं कृत्वा चिन्तापरो व्यवस्थितः । तस्य बुद्धिर् उत्पन्ना: वरम् अहं दण्डं दद्याम्*, न चाहम् एताम् एतेषां दर्शयेयम्* । सहदर्शनाच् चावगीतो भविष्यामीति । अथ गङ्गो द्वारं बद्ध्वा पञ्च पुराणशतानि
-------------------- वैद्य, प्. 198 --------------------
दण्डं गृहीत्वा गोष्ठिकानां मध्यं गतः । ततो दारिकाया महद् दौर्मनस्यम् उत्पन्नम्*: किं ममानेनैवंविधेन जीवितेन, यत्र मे न च स्वामिचित्तं सुखितम्*, न चाहम्* । किम् अत्र प्राप्तकालम्* । आत्मानं घातयिष्यामीति । ततो रज्जुं गृहीत्वा अवरकं प्रविष्टा उद्बन्धनहेतोः ॥
अत्रान्तरे नास्ति किंचिद् बुद्धानां भगवताम् अज्ञातम् अदृष्टम् अविदितम् अविज्ञातम्* । धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां लोकानुग्रहप्रवृत्त्{अक्}आनाम् एकारक्षाणाम् शमथविपश्यनाविहारिणां त्रिदमथवस्तुकुशलानां चतुरोघोत्तीर्णानां चतुरृद्धिपादचरणतलसुप्रतिष्ठितानां पञ्चाङ्गविप्रहीणानां पञ्चगतिसमतिक्रान्तानां षडङ्गसमन्वागतानां षट्पारमितापरिपूर्णानां सप्तबोध्यङ्गकुसुमाढ्यानाम् अष्टाङ्गमार्गदेशिकानां नवानुपूर्वविहारसमापत्तिकुशलानां दशबलबलिनां दशदिक्समापूर्णयशसां दशशतवशवर्तिप्रतिविशिष्टानां त्री रात्रेस् त्रिर् दिवसस्य बुद्धचक्षुषा लोकं व्यवलोक्य ज्ञानदर्शनं प्रवर्तते: को हीयते को वर्धते कः कृच्छ्रप्राप्तः कः संकटप्राप्तः कः संबाधप्राप्तः कः कृच्छ्रसंकटसंबाधप्राप्तः, को ऽपायनिम्नः को ऽपायप्रवणः को ऽपायप्राग्भारः । कम् अहम् अपायाद् उद्धृत्य स्वर्गे मोक्षे च प्रतिष्ठापयेयम्*, कस्यानवरोपितानि कुशलमुलान्य् अवरोपयेयम्*, कस्यावरोपितानि परिपाचयेयम्*, कस्य परिपक्वानि विमोचयेयम्* । आह च:
अप्य् एवातिक्रमेद् वेलां सागरो मकरालयः ।
न तु वैनेयवत्सानां बुद्धो वेलाम् अतिक्रमेत्
ततो भगवता जेतवनावस्थितेन कनकवर्णा प्रभा उत्सृष्टा, यया तद् गृहं सूर्यसहस्रेणेवावभासितम्* । ऋद्ध्या चोपसंक्रम्य तद्गलाद् उद्बन्धनम् अवमुच्य दारिकां समाश्वासितवान्* । षण्णां स्थानानाम् आश्चर्याद्भुतो लोके प्रादुर्भावः । तथागतस्य तथागतप्रवेदितस्य धर्मविनयस्य मनुष्यत्वस्य आर्यायतने प्रत्याजातत्वस्य इन्द्रियैर् अविकलत्वस्य कुशलधर्मच्छन्दकस्य आश्चर्याद्भुतो लोके प्रादुर्भावः । ततो भगवता तस्या दारिकायास् तथाविधा धर्मदेशना कृता, यां श्रुत्वा विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतापत्तिफलं साक्षात्कृतम्* । ततो लब्धप्रसादया भगवान् भक्तेन प्रतिपादितः पटेन चाच्छादितः । ततो दारिकाया अपगता अलक्ष्मीः । लक्ष्मीः प्रादुर्भूता । देवकन्येव चावरकम् अवभासमाना स्थिता । भगवान् अपि प्रक्रान्तः ॥
ततो गोष्ठिकानां बुद्धिर् उत्पन्ना: नूनम् अस्य भार्या परमदर्शनीया संवृत्ता । स एष ईर्ष्याप्रकृतिर् दण्डम् उत्सहते दातुम्*, न च तां दर्शयितुम् इच्छति । यन् नु वयम् एनं विरुद्धैर् मद्यैः पाययित्वा ताडम् आदाय गृहम् अस्य गत्वा भार्यां पश्येमेति । ततस् तैस् तं घनघनेन विरुद्धमद्येन पानेन क्षीबं (स्पेयेर्: क्षीवं) कृत्वा ताडम् अपहृत्य गृहं गत्वा द्वारम् अवमुच्य दारिका दृष्टा । ततो दृष्ट्वा परं विस्मयम् उपगताश् चिन्तयन्ति: स्थाने ऽसौ न दर्शयत्य् अस्माकम् इति । ततस् ते पुनर् आगत्य मद्यवशात् सुप्तम् उत्थाप्य
-------------------- वैद्य, प्. 199 --------------------
ऊचुः: लाभास् ते गङ्ग सुलब्धाः, यस्य ते एवंविधा दर्शनीया दारिकेति । ततो गङ्गो भूयस्या मात्रया दुःखी दुर्मना संवृत्ता । दण्डः स्वयं मया दत्तः, अहं चावगीतो जात इति । ततो दुर्मनाः स्वगृहम् आगतः । द्वारम् अवमुच्य तां भार्यां दृष्टवान् वनदेवताम् इव कुसुमितमध्ये ऽतीव विभ्राजमानाम्* । ततः पृच्छति: भद्रे किम् एतत्*? किं कृतो रूपविशेष इति । ततस् तया यथावृत्तं स्वामिने समाख्यातम्* । श्रुत्वा तेनापि भगवति श्रद्धा प्रतिलब्धा ॥
यावद् असौ दारिका क्रमेण भर्तारम् अनुज्ञाप्य भगवच्छासने प्रव्रजिता । तया युज्यमानया घटमानया व्यायच्छमानया इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । अर्हन्ती संवृत्ता त्रैधातुकवीतरागा समलोष्टकाञ्चना आकाशपाणितलसमचित्ता वासीचन्दनकल्पा विद्याविदारिताण्डकोशा विद्याभिज्ञाप्रतिसंवित्प्राप्ता भवलाभलोभसत्कारपराङ्मुखा । सेन्द्रोपेन्द्राणां देवानां पूज्या मान्या अभिवाद्या च संवृत्ता ॥
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्त गङ्गरस्थया कर्म कृतम्*, येनाढ्ये जाता । किं कर्म कृतं येन विरूपा संवृत्ता, प्रव्रज्य चार्हत्वं साक्षात्कृतम् इति । भगवान् आह: गङ्गरस्थयैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । गङ्गरस्थया कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च:
न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि ।
सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्*
मूल पाठ: Avadānaśataka · Edition: the following editions: (1) Ed. P.L. Vaidya, Darbhanga 1958 (Buddhist Sanskrit Texts ; 19) and (2) Ed. J.S. Speyer, St. Petersbourg, 2 vols., 1906-1909 (Bibliotheca Buddhica ; 3) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0