भाषा

ENहिગુ
ग्रंथ पाठ

अवदानशतक · अध्याय 79

79.1

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि बोधिसत्वचर्यायां वर्तमानस्यैषा मे पञ्च जन्मशतानि माता आसीत्* । निरन्तरं यदाहं प्रव्रजितुम् इच्छामि, तदा माम् एषा वारयति । तस्य कर्मणो विपाकेन वृद्धा प्रव्रजिता । दानं ददतो मे दानान्तरायो ऽनया कृतः । तेन दरिद्रा संवृत्ता । किं त्व् अनया नैवंविधानि महेशाख्यसंवर्तनीयानि कर्माणि कृतानि, यथा महामाया कृतवती । तेनाहम् अनया पश्चिमे न धारितः । भूयः काश्यपे भगवति प्रव्रजिता आसीत्* । तत्रानया शैक्षाशैक्षा भिक्षुण्यो दासीवादेन समुदाचीर्णाः । तेन दासी संवृत्ता । यत् तत्रानया पठितं स्वाध्यायितं स्कन्धकौशलं प्रतीत्यसमुत्पादकौशलं स्थानास्थनकौशलं च कृतम्*, तेनेदानीम् अर्हत्वं साक्षात्कृतम्*, सूत्रन्तविभाकर्त्रीणां चाग्रतायां निर्दिष्टा । इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
-------------------- वैद्य, प्. 194 --------------------
अव्श्_79 क्षेमा । (एद्. स्पेयेर्, वोल्. इइ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । तेन खलु समयेन राजा प्रसेनजित् कौशलो राजा च ब्राह्मदत्त उभाव् अप्य् एतौ परस्परविरुद्धौ । यावद् राजा प्रसेनजित् कौशलः स्वविषयपर्यन्तं गत्वा काष्ठवाटं बद्ध्वावस्थितः, राजा ब्रह्मदत्तश् च चतुरङ्गबलकायं संनाह्य हस्तिकायम् अश्वकायं रथकायं पत्तिकायं नद्याः कूले काष्ठवाटं बद्ध्वावस्थितः । यावद् राज्ञा प्रसेनजित्कौशलेन तत्रैवाग्रमहिषी नीता । स तया सार्धं क्रीडति रमते परिचारयति । ब्रह्मदत्तो ऽपि देव्या सह क्रीडति रमते परिचारयति । येनैकदिवस एव राज्ञः प्रसेनजित्कौशलस्य दुहिता जाता, ब्रह्मदत्तस्य पुत्रः ॥ यावद् उभयोर् अपि स्कन्धावारे ### ब्रह्मदत्तस्य स्कन्धावारे प्रवर्तते येनायम् एवंविध उत्सव इति । तैर् आख्यातम्*: राज्ञो ब्रह्मदत्तस्य पुत्रो जात इति । ब्रह्मदत्तेनापि तथैव पृष्टम्* । कथयन्ति: राज्ञः प्रसेनजितो दुहिता जातेति । ततो राज्ञा ब्रह्मदत्तेन राज्ञः प्रसेनजितो दूतसंप्रेषणं कृतम्*: श्रुतं मया यथा तव दुहिता जातेति । दिष्ट्या वर्धसे । अस्माकम् अपि पुत्रो जातः । किं तु दीयताम् एषा दारिका मम पुत्राय । एवं कृते सांबन्धिके यावज्जीवं वैरोत्सर्गः कृतो भविष्यतीति । राज्ञा प्रसेनजिता प्रतिज्ञातम्*: एवम् भवत्व् इति । ततस् ताभ्यां परस्परं प्रीतौ कृतायां क्षेमे जाते राज्ञा ब्रह्मदत्तेन दारकस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थापितं क्षेमंकर इति । राज्ञा प्रसेनजिता कौशलेन दारिकाया जाताया जातिमहं कृत्वा क्षेमेति नामधेयं कृतम्* । ताव् उभाव् अप्य् उन्नीतौ वर्धितौ । यावत् क्रमेण महान्तौ संवृत्तौ ॥
अथ स दारको दारिकाया हारार्धहारमालां बध्नन् कण्ठेमणीन् प्रेषयति । यदासौ दारिका महती संवृत्ता, तया ते पृष्टाः: कुत एतानि प्राभृतान्य् आगच्छन्ति? प्रेष्यैर् विस्तरेण स वृतान्त (स्पेयेर्: वृत्तान्त) आवेदितः । श्रुत्वा च पितरं विज्ञापयामास: तात नाहं कामैर् अर्थिनी, भगवच्छासने प्रव्रजिष्यामि, अनुजानीहि मां तातेति । राजा कथयति: नैतद् दारिके शक्यं मया कर्तुम्*, यस्मात् तव जन्मनि मम क्षेमं जातम् इति । ततो राज्ञा प्रसेनजिता कौशलेन राज्ञो ब्रह्मदत्तस्य दूतसंप्रेषणं कृतम्*: एषा मे दारिका प्रव्रजितुम् इच्छति । आगत्यैनां गृहाणेति । यावद् राज्ञा ब्रह्मदत्तेन दिवसः प्रतिगृहीतः: सप्तमे ऽहनि आगच्छामीति । यत् ते कृत्यं वा करणीयं वा तत् कुरुष्वेति । एष वृत्तान्तः क्षेमया दारिकया श्रुतः: सप्तमे दिवसे विवाहो भविष्यतीति । ततः क्षेमा भीता त्रस्ता संविग्ना आहृष्टरोमकूपा शरणपृष्ठम् अभिरुह्य जेतवनाभिमुखी बुद्धं भगवन्तम् आयाचितुं प्रवृत्ता । आह च:
-------------------- वैद्य, प्. 195 --------------------
कृपकरुणविहारो ध्यायमानो महर्षिः
प्रशमदमविधिज्ञः पापहः शान्तचित्तः ।
मम विधिवदपायान् मोचय त्वं हि नाथः
शरणम् उपगताहं लोकनाथं ह्य् अनाथा
अत्रान्तरे नास्ति किंचिद् बुद्धानां भगवताम् अज्ञातम् अदृष्टम् अविदितम् अविज्ञातम्* । धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां लोकानुग्रहप्रवृत्त्{अक्}आनाम् एकारक्षाणाम् एकवीराणाम् अद्वितीयानाम् अद्वयवादिनां शमथविपश्यनाविहारिणां त्रिदमथवस्तुकुशलानां चतुरोघोत्तीर्णानां चतुरृद्धिपादचरणतलसुप्रतिष्ठितानां पञ्चाङ्गविप्रहीणानां पञ्चगतिसमतिक्रान्तानां षडङ्गसमन्वागतानां षट्पारमितापरिपूर्णानां सप्तबोध्यङ्गकुसुमाढ्यानाम् अष्टाङ्गमार्गदेशिकानां नवानुपूर्वविहारसमापत्तिकुशलानां दशदिक्समापूर्णयशसां दशशतवशवर्तिप्रतिविशिष्टानां त्री रात्रेस् त्रिर् दिवसस्य बुद्धचक्षुषा लोकं व्यवलोक्य ज्ञानदर्शनं प्रवर्तते: को हीयते को वर्धते कः कृच्छ्रप्राप्तः कः संकटप्राप्तः कः संबाधप्राप्तः को ऽपायप्रवणः को ऽपायप्राग्भारः । कम् अहम् अपायाद् उद्धृत्य स्वर्गे मोक्षे च प्रतिष्ठापयेयम्*, कस्यानवरोपितानि कुशलमुलान्य् अवरोपयेयम्*, कस्यावरोपितानि परिपाचयेयम्*, कस्य परिपक्वानि विमोचयेयम्* । आह च:
अप्य् एवातिक्रमेद् वेलां सागरो मकरालयः ।
न तु वैनेयवत्सानां बुद्धो वेलाम् अतिक्रमेत्
अथ भगवान् क्षेमाया विनयकालम् अवेक्ष्य ऋद्ध्या उपसंक्रान्तः । उपसंक्रम्य तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा क्षेमया अनागामिफलं प्राप्तम् अभिज्ञानिर्हारश् च । अथ क्षेमा अतिक्रान्तकामधातौ लब्धप्रतिष्ठा ॥

यावत् सप्तमे दिवसे विवाहकाले संप्राप्ते प्रत्युपस्थिते राजकुमारे अनेकजनशतसहाये वेदीमध्यगतायां ब्राह्मणेन पुरोहितेन लाजा घृतसर्पिषानुप्रदत्ता । ततो दारकदारिकाहस्तसंश्लेषणे क्रियमाणे क्षेमा पश्यताम् अनेकेषां प्राणिशतसहस्राणां विततपक्ष इव हंसराजो गगनतलम् अभिरुह्य विचित्राणि प्रातिहार्याणि विदर्शयितुम् आरब्धा । ततो राजा प्रसेनजित् कौशलो राजा च ब्रह्मदत्तः क्षेमंकरश् च राजकुमारो ऽन्ये च कुतूहलाभ्यागताः सत्वा विस्मयम् उपगताः पादयोर् निपत्य विज्ञापयितुम् आरब्धाः: मर्षय भगिनि य एते त्वया धर्माः साक्षात्कृताः, अस्थानम् एतद् यत् त्वं कामान् परिमुञ्जीथा इति । अथ क्षेमा गगनतलाद् अवतीर्य जनकायस्य पुरः स्थित्वा तथाविधां धर्मदेशनां कृतवती, यां श्रुत्वा अनेकैः प्राणिशतसहस्रैः सत्यदर्शनं कृतम्* । ततः क्षेमा दारिका पितरम् अनुज्ञाप्य भगवत्सकाशम् उपसंक्रान्ता । भगवता च महाप्रजापत्याः संन्यस्ता । ततस् तया प्रव्राजिता उपसंपादिता च । तया युज्यमानया घटमानया व्यायच्छमानया इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । अर्हन्ती
-------------------- वैद्य, प्. 196 --------------------
संवृत्ता त्रैधातुकवीतरागा समलोष्टकाञ्चना आकाशपाणितलसमचित्ता वासीचन्दनकल्पा विद्याविदारिताण्डकोशा विद्याभिज्ञाप्रतिसंवित्प्राप्ता भवलाभलोभसत्कारपराङ्मुखा । सेन्द्रोपेन्द्राणां देवानां पूज्या मान्या अभिवाद्या च संवृत्ता । यदा भगवान् भिक्षून् आमन्त्रयते स्म: एषा अग्रा मे भिक्षवो भिक्षुणीनां मम श्राविकाणां महाप्राज्ञानां महाप्रतिभानां यदुत क्षेमा भिक्षुणीति ॥
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त क्षेमया कर्माणि कृतानि येन महाप्राज्ञानां महाप्रतिभानाम् अग्रा निर्दिष्टा । भगवान् आह: क्षेमयैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । क्षेमया कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च:
न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि ।
सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्*

मूल पाठ: Avadānaśataka · Edition: the following editions: (1) Ed. P.L. Vaidya, Darbhanga 1958 (Buddhist Sanskrit Texts ; 19) and (2) Ed. J.S. Speyer, St. Petersbourg, 2 vols., 1906-1909 (Bibliotheca Buddhica ; 3) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc