अवदानशतक · अध्याय 78
भूतपूर्वं भिक्षवो ऽतीते ऽध्वन्य् अस्मिन्न् एव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* । स वाराणसीं नगरीम् उपनिश्रित्य विहरति ऋषिपतने मृगदावे । यावद् अन्यतमः सार्थवाहः स महासमुद्रम् अवतीर्णः । ततः स्वस्ति सुसिद्धयानपात्र आगतः । ततस् तेन मुक्ताहारः परमशोभन आनितः । तस्य च भार्या अभिरूपा दर्शनीया प्रासादिका । तेन तस्याः शिरसि बद्धः ॥
वाराणस्याम् अन्यतमो गृहप्तिः श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः । तस्य बुद्धिर् उत्पन्ना: यन्व् अहं छन्दकभिक्षणं कृत्वा भगवतः काश्यपस्य शासने पञ्चवार्षिकं कुर्याम् इति । तेन राज्ञः कृकिणो निवेदितम्*: इच्छाम्य् अहं छन्दकभिक्षणं समादाप्य भगवतः पञ्चवार्षिकं कर्तुम् इति । राज्ञा एवम् अस्त्व् इति समनुज्ञातः । अथासौ गृहपतिर् हस्तिस्कन्धारूढो वाराणास्यां नगर्यां रथ्यावीथीचत्वरशृङ्गाटकेषु च्छन्दकभिक्षणं याचितुं प्रवृत्तः । यावत् सार्थवाहभार्या मुक्ताहारं शिरसो ऽवमुच्य तस्मिंश् छन्दकभिक्षणे दत्तवती । यावत् सार्थवाह आगतस् तं मुक्ताहारं शिरसो ऽपनीतं दृष्ट्वा पृष्टवान्*: भद्रे क्वासौ मुक्ताहार इति । ततस् तयोक्तम्*: आर्यपुत्र प्रीतिं जनय, प्रसादम् उत्पादय, भगवच्छासने छन्दकभिक्षणे दत्त इत् । यावत् सार्थवाहेन पुष्कलेन मूल्येन निष्क्रीय तस्यै पत्न्यै दत्तः । सा नेच्छति पुनस् तं ग्रहीतुम्*, परित्यक्तो (स्पेयेर्: परित्यक्ता) मे इति । स्वामिनोच्यते: भद्रे मया प्रभूतेन हिरण्यसुवर्णेनायं क्रीतः । कस्मान् नेच्छसीति । ततो ऽसौ दारिका तं गृहीत्वा प्रभूतं पुष्पसंग्रहं कृत्वा गन्धमाल्यानि च गृहीत्वा ऋषिपतनं गता । ततो गन्धकुट्यां गन्धप्रलेपं कृत्वा पुष्पैर् आकीर्य मुक्ताहारं भगवतो मूर्ध्नि क्षिप्तवती । स सहसा भगवतः काश्यपस्य मूर्धनि स्थितः । ततः प्रसादजातया प्रणिधानं कृतम्*: अहम् अप्य् एवंविधानां गुणानां लभिनी स्याम्*, एवंविधम् एव शास्तारम् आरागयेयं मा विरागयेयम् इति ॥
किं मन्यध्वे भिक्षवो यासौ तेन कालेन तेन समयेन सार्थवाहभार्या, इयं सा मुक्ता । यद् अनया भगवति काश्यपे काराः कृतास् तेनाभिरूपा दर्शनिया प्रासादिका । मुक्ताहारश् चास्याः
-------------------- वैद्य, प्. 192 --------------------
शिरसि प्रादुर्भूतः । तेनैव हेतुनेदानीम् अर्हत्वं साक्षात्कृतम्* । इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_78 कचङ्गला । (एद्. स्पेयेर्, वोल्. इइ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः कचङ्गलायां विहरति काचङ्गलीये वनषण्डे । तस्यां कचङ्गलायां कचङ्गला नाम वृद्धा । सा घटम् आदाय उदकार्थिनी कूपम् उपसृप्ता । तत्र भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते: गच्छ आनन्द, एतस्यां वृद्धायां कथय: भगवांस् त्र्षितः, पानीयम् अनुप्रयच्छस्वेति । सा आनन्देनोक्ता: अहं स्वयम् एवानेष्यामीति । यावत् कचङ्गला पानीयघटं पूरयित्वा भगवतः सकाशं गता । ददर्श कचङ्गला बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* । सहदर्शनाद् अस्याः पुत्रस्नेहः समुत्पन्नः, स्तनाभ्यां क्षीरधाराः प्रसूताः । सा ऊर्ध्वबाहुः पुत्र पुत्रेति भगवन्तं परिष्वक्तुम् आरब्धा । भिक्षवस् तां वारयन्ति । भगवान् आह: मा यूयं भिक्षव इमां वृद्धां वारयत । तत् कस्य हेतोः:
पञ्च जन्मशतान्य् एषा मम माता आसीन् निरन्तरम्* ।
इयं मे पुत्रस्नेहेन गात्रेषु समश्लिक्षत
सचेद् एषा निवार्येत मम गात्रेषु श्लेषणात्* ।
इदानीं रुधिरं ह्य् उष्णं कण्ठाद् अस्याः स्रवेत् क्षणात्*
कृतज्ञताम् अनुस्मृत्य दृष्ट्वेमां पुत्रलालसाम्* ।
कारुण्याद् गात्रसश्लेषं ददामि अनुकम्प्यया
यावद् असौ पुत्रस्नेहं विनोद्य भगवतः पुरस्तान् निषण्णा धर्मश्रवणाय । भगवान् चास्या आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा कचङ्गलया विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतापत्तिफलं साक्षात्कृतम्* । सा दृष्टसत्या गाथा भाषते:
यत् कर्तव्यं हि पुत्रेण मातुर् दुष्करकरिणा ।
तत् कृतं भवता मह्यं चित्तं मोक्षपरायणम्*
-------------------- वैद्य, प्. 193 --------------------
दुर्गतिभ्यः समुद्धृत्य स्वर्गे मिक्षे च ते अहम्* ।
स्थापिता सर्वयत्नेन विशेषः सुमहान् कृतः
यावद् असौ स्वामिनम् अनुज्ञाप्य भगवच्छासने प्रव्रजिता । तया युज्यमानया घटमानया व्यायच्छमानया इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । अर्हन्ती संवृत्ता त्रैधातुकवीतरागा समलोष्टकाञ्चना आकाशपाणितलसमचित्ता वासीचन्दनकल्पा विद्याविदारिताण्डकोशा विद्याभिज्ञाप्रतिसंवित्प्राप्ता भवलाभलोभसत्कारपराङ्मुखा । सेन्द्रोपेन्द्राणां देवानां पूज्या मान्या अभिवाद्या च संवृत्ता । यदा भगवान् भिक्षुणीनां संक्षेपेणोद्दिश्य प्रतिसंलयनाय प्रविशति, तदा कचङ्गला भिक्षुणीनां व्याकरोति । तत्र भगवान् भिक्षून् आमन्त्रयते स्म: एषाग्र मे भिक्षवो भिक्षुणीनां मम श्राविकाणां सूत्रान्तविभागकर्त्रीणां यदुत कचङ्गला भिक्षुणीति ॥
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त कचङ्गलया कर्म कृतं येन वृद्धा प्रव्रजिता, किं कर्म कृतं येन भगवान् पश्चिमगर्भवासेन *{स्: पश्चिमगर्भवासेन}* धारितः, प्रव्रज्य चार्हत्वं साक्षात्कृतम्*, सूत्रान्तविभागकर्त्रीणां चाग्रा निर्दिष्टा इति । भगवान् आह: कचङ्गलयैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । कचङ्गलया कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च:
न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि ।
सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्*
मूल पाठ: Avadānaśataka · Edition: the following editions: (1) Ed. P.L. Vaidya, Darbhanga 1958 (Buddhist Sanskrit Texts ; 19) and (2) Ed. J.S. Speyer, St. Petersbourg, 2 vols., 1906-1909 (Bibliotheca Buddhica ; 3) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0