भाषा

ENहिગુ
ग्रंथ पाठ

अवदानशतक · अध्याय 77

77.1

भूतपूर्वं भिक्षवो ऽतीते ऽध्वन्य् अस्मिन्न् एव भद्रके कल्पे त्रिंशद्वर्षसहस्रायुषि प्रजायां कनकमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* । ### <थे नमे ओf थे प्लचे इस् मिस्सिन्ग्.> । यावत् तत्रान्यतरा राजदुहिता श्राद्धा भद्रा कल्याणाशया आत्महितपरहितप्रतिपन्ना । तया विहारं कारयित्वा सर्वोपकरणैः परिपूर्य भगवते सश्रावकसंघाय प्रतिपादितः । कनकमुनौ च सम्यक्संबुद्धे प्रव्रज्य दशवर्षसहस्राणि मैत्री भविता ॥
किं मन्यध्वे भिक्षवो या सा राजदुहिता, इयं सा काशिसुन्दरी दारिका । यद् अनया विहारः प्रतिपादितस् तेनाभिरूपा दर्शनीया प्रासादिका संवृत्ता । यत् कनकमुनौ भगवति प्रव्रज्य दशवर्षसहस्राणि मैत्री भाविता तेनेदानीम् अर्हत्वं साक्षात्कृतम्* । इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
-------------------- वैद्य, प्. 190 --------------------
अव्श्_77 मुक्ता । (एद्. स्पेयेर्, वोल्. इइ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । श्रावस्त्यां पुष्यो नाम श्रेष्ठी आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तेन सदृशात् कुलात् कलत्रम् आनीतम्* । स तया सार्धं क्रीडति रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतः कालान्तरेण पत्नी आपन्नसत्वा संवृत्ता । सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता । दारिका जाता अभिरूपा दर्शनीया प्रासादिका मुक्तामालया शिरसि बद्धया । तस्या जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते: किं भवतु दारिकाया नामेति । ज्ञातय ऊचुः: यस्माद् अस्या जातमात्राया मुक्तमाला शिरसि प्रादुर्भूतं, तस्माद् भवतु दारिकाया मुक्तेति नामेति । मुक्ता दारिका अष्टाभ्यो धात्रीभ्यो दत्ता द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्* । सा ऽष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैः । आशु वर्धते ह्रदस्थम् इव पङ्कजम्* ॥
यावन् मुक्ता दारिका क्रमेण महती संवृत्ता । तस्याः सा मुक्तामाला अवतारिता पुनः प्रादुर्भवति । ततः सा दारिका कृपणवनीपकान् दृष्ट्वा भागसंविभागं करोति । यदा च प्रदेया संवृत्ता, तदा तस्या बहवो याचनका आगच्छन्ति राजपुत्रा अमात्यपुत्राः श्रेष्ठिपुत्राश् च । ततो ऽस्याः पिता शोकागारं प्रविश्य करे कपोलं दत्वा चिन्तापरो व्यवस्थितश् चिन्तयति: यद्य् एकस्मै दास्यामि, अन्ये मे ऽमित्रा भविष्यन्तीति । ततो ऽसौ दारिका पितरं विज्ञापयामास: तात किमर्थं शोकः क्रियत इति । तेन यथावृत्तं सर्वं तत् समाख्यातम्* । ततो दारिका कथयति: तात नाहं कामैर् अर्थिनी । भगवच्छासने प्रव्रजिष्यामीति । यावद् अनाथपिण्डदस्य सुप्रियो नाम कनीयः पुत्रस् तेन पिता विज्ञप्तः । ममार्थायैतां दारिकां याचस्वेति । ततो ऽनाथपिण्डदेन पुष्यस्य गृहपतेर् दूतसंप्रेषणं कृतम्*: दीयतां मुक्ता दारिका मम पुत्राय । एवं कृतं सांबन्धिकं यावज्जीवसुख्यं कृतं च भविष्यतीति । ततः पुष्येण गृहपतिना स्वस्यां दुहितरि सो ऽर्थो निवेदितः । सा कथयति: समयतो यदीन्द्रियाणां परिपाकान् मया सह भगवच्छासने प्रव्रजति, एवम् अहं तं भर्तारं वरयामीति । तेन तथैव कृतम्* । यावद् उभाव् एव गृहान् निष्क्रम्य भगवच्छासने प्रव्रजितौ । ताभ्यां युज्यमानाभ्यां घटमानाभ्यां व्यायच्छमानाभ्याम् इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । अर्हन्तौ संवृत्तौ त्रैधातुकवीतरागौ समलोष्टकाञ्चनाव् आकाशपाणितलसमचित्तौ वासीचन्दनकल्पौ विद्याविदारिताण्डकोशौ विद्याभिज्ञाप्रतिसंवित्प्राप्तौ भवलाभलोभसत्कारपराङ्मुखौ । सेन्द्रोपेन्द्राणां देवानां पूज्यौ मान्याव् अभिवाद्यौ च संवृत्तौ ॥
-------------------- वैद्य, प्. 191 --------------------
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त मुक्तया कर्माणि कृतानि येन मुक्तामालया शिरस्य् आबद्धया, प्रव्रज्य चार्हत्वं साक्षात्कृतम् इति । भगवान् आह: मुक्तयैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । मुक्तया कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च:
न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि ।
सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्*

मूल पाठ: Avadānaśataka · Edition: the following editions: (1) Ed. P.L. Vaidya, Darbhanga 1958 (Buddhist Sanskrit Texts ; 19) and (2) Ed. J.S. Speyer, St. Petersbourg, 2 vols., 1906-1909 (Bibliotheca Buddhica ; 3) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc