अवदानशतक · अध्याय 76
भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि चत्वारिंशद्वर्षसहस्रायुषि प्रजायां क्रकुच्छन्दो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* । स शोभावतीं राजधानीम् उपनिश्रित्य विहरति । यावद् दक्षिणापथाद् अन्यतरो नटाचार्य आगतः । तत्र शोभनेन (स्पेयेर्: शोभेन) राज्ञा भगवतः सकाशात् सत्यदर्शनं कृत्वा नटाचार्याणाम् आज्ञा दत्ता: बौद्धं नाटकं मम पुरस्तान् नाटयितव्यम् इति । तैर् आज्ञा शिरसि प्रतिगृहीता: एवं भदन्तेति । ततः सर्वनटैर् बौद्धं नाटकं विचार्य मुनिनिर्जितं कृतम्* । यावद् राज्ञो ऽमात्यगणपरिवृतस्य पुरतो नटा नाटयितुम् आरब्धाः । तत्र नटाचार्यः स्वयम् एव बुद्धवेषेणावतीर्णः, परिशिष्टा नटा भिक्षुवेषेण । ततो राज्ञा हृष्टतुष्टप्रमुदितेन नटाचार्यप्रमुखो नटगणो महता धनस्कन्धेनाच्छादितः । ततस् ते भगवच्छासने लब्धप्रसादा दानप्रदानानि दत्वा सम्यक्प्रणिधानं चक्रुः: अनेन वयं कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च अनागतान् बुद्धान् आरागयेम, मा विरागयेमेति ॥
किं मन्यध्वे भिक्षवो ये ते नटाः, इमे ते कुवलयाप्रमुखाः । यद् एभिस् तत्र प्रणिधानं कृतं तेनेदानीम् अर्हत्वं साक्षात्कृतम्* । इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
-------------------- वैद्य, प्. 188 --------------------
अव्श्_76 काशिसुन्दरी । (एद्. स्पेयेर्, वोल्. इइ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो वाराणस्यां विहरति ऋषिपतने मृगदावे । वाराणस्यां नगर्यां राजा ब्रह्मदत्तो राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नम्* । प्रियम् इवैकपुत्रकं राज्यं पालयति । यावद् असौ राजा देव्या सह क्रीडति रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतः कालान्तरेण देवी आपन्नसत्वा संवृत्ता । सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता । दारिका जाता अभिरूपा दर्शनीया प्रासादिका सर्वाङ्गप्रत्यङ्गोपेता । तस्या जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते: किं भवतु दारिकाया नामेति । ज्ञातय ऊचुः: यस्माद् इयं काशिराजस्य दुहिता सुरूपा च, तस्माद् भवतु दारिकायाः काशिसुन्दरीति नामेति । काशिसुन्दरी दारिका अष्टाभ्यो धात्रीभ्यो दत्ता द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्* । सा ऽष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैः । आशु वर्धते ह्रदस्थम् इव पङ्कजम्* ॥
यदा काशिसुन्दरी दारिका क्रमेण महती संवृत्ता, तदा प्रातिसीमैः षड्भिः राजभी राज्ञे ब्रह्मदत्तस्य दूतसंप्रेषणं कृतम्*: श्रुतम् अस्माभिर् यथा तव दुहिता जातेति । तद् अर्हस्य् अस्माकं पुत्राणाम् अन्यतरस्मै अनुप्रदातुम् इति । ततो राजा शोकागारं प्रविश्य करे कपोलं दत्वा चिन्तापरो व्यवस्थितश् चिन्तयति: यद्य् एकस्मै दास्यामि, अपरेण सह मे (स्पेयेर्: मे सह) विरोधो भविष्यतीति । काशिसुन्दरी दारिका सर्वालंकारविभूषिता पितुः सकाशम् उपसंक्रान्ता । तया पिता शोकार्तो दृष्टः पृष्टश् च: तात किमर्थं शोकः क्रियत इति । पित्रा अस्या यथाभूतं समाख्यातम्* । ततः काशिसुन्दरी पितरम् उवाच: क्रियतां तात प्रातिसीमानां राज्ञां दूतसंप्रेषणम्* । सप्तमे दिवसे काशिसुन्दरी दारिका स्वयंवरम् अवतरिष्यति । येन वो यत् करणीयं स तत् करोत्व् इति । यावत् सप्तमे दिवसे षट् प्रातिसीमा राजानः संनिपतिताः । काशिसुन्दर्य् अपि रथम् अभिरुह्य काषायं ध्वजम् उच्छ्राप्य बुद्धपटं हस्तेन गृहीत्वा राजसभां गत्वोवाच: शृण्वन्तु भवन्तः प्रातिसीमा राजानः । नाहं भवतां रूपयौवनकुलभोगैश्वर्यं तुलयामि, अपि तु नाहं कामैर् अर्थिनी । य एष एव मे भगवान् बुद्धः पटे लिखितस् तस्याहं श्राविका । अस्य शासने प्रव्रजिष्यामीति ॥
यावद् ऋषिपतनं गत्वा भगवतः पादाभिवन्दनं कृत्वा भगवन्तम् इदम् अवोचत्*: लभेयाहं भदन्त स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं भिक्षु{णी}भावम्* । चरेयम् अहं भगवतो ऽन्तिके ब्रह्मचर्यम् इति । ततो भगवतो महाप्रजापत्यां संन्यस्ता । ततस् तया प्रव्राजिता उपसंपादिता च । तया युज्यमानया घटमानया व्यायच्छमानया इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं
-------------------- वैद्य, प्. 189 --------------------
विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । अर्हन्ती संवृत्ता त्रैधातुकवीतरागा समलोष्टकाञ्चना आकाशपाणितलसमचित्ता वासीचन्दनकल्पा विद्याविदारिताण्डकोशा विद्याभिज्ञाप्रतिसंवित्प्राप्ता भवलाभलोभसत्कारपराङ्मुखा । सेन्द्रोपेन्द्राणां देवानां पूज्या मान्या अभिवाद्या च संवृत्ता । ततस् ते राजपुत्रास् तस्या रूपयौवनशोभां समनुस्मृत्य रागमदमत्ताः प्रव्रजिताम् अपि प्रार्थयितुं प्रवृत्ताः । सा तैः प्रार्थ्यमाना विततपक्ष इव हंसराजो गगनतलम् (स्पेयेर्: गगणतलम्) अभ्युद्गम्य विचित्राणि प्रातिहार्याणि विदर्शयितुम् आरब्धा । आशु पृथग्जनस्य ऋद्धिर् आवर्जनकरी । ततस् ते रापुत्रा अत्यद्भुतं देवमनुष्यावर्जनकरं प्रातिहार्यं दृष्ट्वा आहृष्टरोमकूपाः पादयोर् निपत्य क्षमापयितुम् आरब्धाः: मर्षय भगिनि । यथैते त्वया धर्माः साक्षात्कृताः, अस्थानम् एतद् यत् त्वं कामान् परिमुञ्जीथा इति । ततः काशिसुन्दरी दारिका गगनतलाद् अवतीर्य जनकायस्य पुरस्तात् स्थित्वा तथाविधां धर्मदेशनां कृतवती, यां श्रुत्वा अनेकैः प्राणिशतसहस्रैर् महान् विशेषो ऽधिगतः ॥
ततो भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त काशिसुन्दर्या कर्माणि कृतानि, येनैवम् आभिरूपा दर्शनीया प्रासादिका । प्रव्रज्य चार्हत्वं साक्षात्कृतम् अपि । भगवान् आह: काशिसुन्दर्यैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । काशिसुन्दर्या कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च:
न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि ।
सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्*
मूल पाठ: Avadānaśataka · Edition: the following editions: (1) Ed. P.L. Vaidya, Darbhanga 1958 (Buddhist Sanskrit Texts ; 19) and (2) Ed. J.S. Speyer, St. Petersbourg, 2 vols., 1906-1909 (Bibliotheca Buddhica ; 3) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0