भाषा

ENहिગુ
ग्रंथ पाठ

अवदानशतक · अध्याय 75

75.1

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि अस्मिन्न् एव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* । स वाराणसीं नगरीम् उपनिश्रित्य विहरति ऋषिपतने मृगदावे । यावद् अन्यतरा ब्राह्मणदारिका भगवतः कास्यपस्य शासने प्रव्रजिता । तया तत्रोद्दिष्टं पठितं स्कन्धकौशलं प्रतीत्यसमुत्पादकौशलं स्थानास्थानकौशलं च कृतम्* । न तु शक्तितं नैष्ठिकं ज्ञानम् उत्पादयितुम्* । यस्याश् चोपाध्यायिकायाः सकाशे प्रव्रजितासीत्*, सा भगवता काश्यपेन श्रुतधरीणाम् अग्रा निर्दिष्टा । ततः सोमया भिक्षुण्या मरणकाले प्रणिधानं कृतम्*: यथा मे उपाध्यायिका श्रुतधरीणाम् अग्रा निर्दिष्टा, एवम् अहम् अप्य् अनागते ऽध्वनि यो ऽसौ भगवता काश्यपेनोत्तरो नाम माणवो व्याकृतः: भविष्यसि त्वं माणव वर्षशतायुषि प्रजायां शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्ध इति, तस्य शासने प्रव्रजिता भगवता शाक्यमुनिना श्रुतिधरीणाम् अग्रा निर्दिश्येय ॥
किं मन्यध्वे भिक्षवो यासौ ब्राह्मणदारिका आसीत्*, इयं सा सोमा भिक्षुणी । यद् अनया प्रणिधानं कृतम्*, तेन श्रुतिधरीणाम् अग्रा निर्दिष्टा । यद् अनया तस्योद्दिष्टं पठितं स्वाध्यायितम्*, तेनेदानीम् अर्हत्वं साक्षात्कृतम्* । इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
-------------------- वैद्य, प्. 185 --------------------
अव्श्_75 कुवलया । (एद्. स्पेयेर्, वोल्. इइ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो राजगृहम् उपनिश्रित्य विहरति वेणुवने कलन्दकनिवापे । तेन खलु समयेन राजगृहे नगरे गिरिवल्गुसमागमो नाम पर्व प्रत्युपस्थितम्* । तत्र सर्वेभ्यः षड्भ्यो महानगरेभ्यो जनकायः संनिपतति । यावद् दक्षिणापथान् नटाचार्य आगतः । तस्य दुहिता कुवलया नाम अभिरूपा दर्शनीया प्रासादिका सर्वाङ्गप्रत्यङ्गोपेता । सा रूपयौवनारोग्यमदमत्ता । यदा रङ्गमध्यम् अवतरति, तदा सर्वप्रेक्षकैः सोत्कण्ठैर् उद्वीक्ष्यते । ये चाप्रतिसंख्यानबहुलास् तेषां मनांस्याकर्षति । तत्र यदा पर्व प्रत्युपस्थितं भवति, तदा पूरणप्रभृतयः सपर्षत्का उपसंक्रामन्ति । ततः कुवलया दारिका जनकायम् उवाच: अस्ति भवन्तो राजगृहे नगरे कश्चिन् मनुष्यभूतो यो मे रूपेण समो विशिष्टतरो वेति । जनकायेनोक्ता: अस्ति श्रमणो गौतमः सपरिवार इति । कुवलयोवाच: किम् असौ मनुष्यभूतो ऽथ देव इति । मनुष्यभूतः स तु सर्वज्ञ इति ॥
ततस् तद्वचनम् उपश्रुत्य कुवलया सर्वालंकारभूषिता भगवत्सकाशम् उपसंक्रान्ता । उपसंक्रम्य भगवतः पुरस्तात् स्थित्वा नृत्यति गायति वादयते स्त्रीलिङ्गानि स्त्रीचिह्नानि स्त्रीनिमित्तानि चोपदर्शयति । ये सरागा भिक्षवस् ते तया संभ्रामिताः । ततो भगवान् रागबहुलानां भिक्षूणां विनयनार्थं कुवलयायाश् च रूपयौवनमदापनयनार्थं तद्रूपान् ऋद्ध्यभिसंकारान् अभिसंकृतवान्*, येन कुवलया जीर्णा वृद्धा पलितशिरस्का खण्डदन्ता कुब्जगोपानसीवक्त्रा निर्मिता । तत्कालसमनन्तरम् एव कुवलाया आत्मानं बीभत्सम् अभिवीक्ष्य यो ऽसौ रूपयौवनमदः स प्रतिविगतः । रागबहुलाश् च भिक्षवः संविग्नाः । ततः कुवलया अपगतमदा भगवतः पादौ शिरसा वन्दित्वा भगवन्तं विज्ञापितवती: साधु मे भगवांस् तथा धर्मं देशयतु, यथाहम् अस्मात् पूतिकलेवराद् (स्पेयेर्: पूतिकडेवराद्) अल्पकृच्छ्रेण परिमुच्येयेति । अथ भगवान् कुवलायास् तेषां चावीतरागाणां भिक्षूणाम् आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा ताथविधां धर्मदेशनां कृतवान्*, यां श्रुत्वा कैश्चिद् विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतापत्तिफलं साक्षात्कृतम्*, कैश्चित् सकृदागामिफलम्*, कैश्चिद् अनागामिफल्म्*, कैश्चित् प्रव्रज्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । कुवलयापि लब्धप्रसादा भगवत्सकाशे प्रव्रजिता । तया युज्यमानया घटमानया व्यायच्छमानया इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । अर्हन्ती संवृत्ता त्रैधातुकवीतरागा समलोष्टकाञ्चना आकाशपाणितलसमचित्ता वासीचन्दनकल्पा विद्याविदारिताण्डकोशा विद्याभिज्ञाप्रतिसंवित्प्राप्ता
-------------------- वैद्य, प्. 186 --------------------
भवलाभलोभसत्कारपराङ्मुखा । सेन्द्रोपेन्द्राणां देवानां पूज्या मान्या अभिवाद्या च संवृत्ता । तैर् अपि नटैस् तेन संवेगेन सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* ॥
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: आश्चर्यं भदन्त यद् भगवता कुवलया नटदारिका रूपयौवनमदमत्ता जरया संवेज्य यावद् अत्यन्तनिष्ठे निर्वाणे प्रतिष्ठापिता इति । भगवान् आह: किम् अत्र भिक्षव आश्चर्यं यद् इदानीं मया विगतरागेण विगतद्वेषेण विगतमोहेन परिमुक्तेन जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैः सर्वज्ञेन सर्वाकारज्ञेन सर्वज्ञानज्ञेयवशिप्राप्तेन कुवलया दारिका रूपयौवनमदमत्ता जरया संवेज्य यावद् अत्यन्तनिष्ठे निर्वाणे प्रतिष्ठापिता । यत् तु मया अतीते ऽध्वनि सरागेण सद्वेषेण समोहेनापरिमुक्तेन जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैः कुवलया दारिका संवेज्य पञ्चसु व्रतप्रदेशेषु प्रतिष्ठापिता । तच् छृणुत, साधु च सुष्ठु च मनसि कुरुत, भाषिष्ये ॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नम्* । प्रियम् इवैकपुत्रकं राज्यं कारयति । यावद् असौ राजा देव्या सह क्रीडति रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतः कालान्तरेण देवी आपन्नसत्वा संवृत्ता । सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता । दारिको जातो अभिरूपो दर्शनीयो प्रासादिको गौरः कनकवर्णश् छत्राकारशिराः प्रलम्बबाहुर् विस्तीर्णललाट उच्चघोषणः संगतब्रूस् तुङ्गनासः सर्वाङ्गप्रत्यङ्गोपेतः । तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते: किं भवतु दारिकस्य नामेति । ज्ञातय ऊचुः: यस्माद् अस्य पिता काशिराजः, अयं चाभिरूपो दर्शनियः प्रासादिकः, तस्माद् भवतु दारिकस्य काशिसुन्दर इति नाम । काशिसुन्दरो दारकः अष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्* । सो ऽष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैः । आशु वर्धते ह्रदस्थम् इव पङ्कजम्* । यदा महावृत्तस् तदा यौवराज्ये ऽभिषिक्तः । सो ऽनेकदोषदुष्टम् अनर्थमूलं राजत्वं विदित्वा ऋइषिषु प्रव्रजितः । स च हिमवत्कन्दरे प्रतिवसति फलमूलांबुभक्तो ऽजिनवल्कलधारी अग्निहोत्रिकः । यावद् अपरेण समयेन फलानाम् अर्थम् अन्यतरं पर्वतकन्दरम् अनुप्रवृत्तः । यावत् तत्र किन्नरदारिका । ऋइषिकुमारं दृष्ट्वा संरक्ता नृत्यति गायति वादयति स्त्रीचिह्नानि स्त्रीनिमित्तानि स्त्रीविक्रीडितान्य् उपदर्शयति । यावत् काशिसुन्दरेण ऋषिणा तस्या दारिकाया धर्मदेशना दत्ता । जीर्णासि भगिनि, प्रथमस् ते स्वरो मधुरः स्निग्धश् च, पश्चिमस् ते जर्जरीभूत इति । ततस् तेन तस्या धर्मदेशना कृता, यां श्रुत्वा किन्नरकन्याया यो ऽभूद् रूपमदः
-------------------- वैद्य, प्. 187 --------------------
स प्रतिविगतः । तया प्रसादजातया प्रणिधानं कृतम्*: यस्मिन् समये ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येथाः, तदा ते ऽहं श्राविका स्याम् इति ॥
भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन ऋषिकुमारो बभूव, अहं सः । किन्नरकन्या इमम् एव कुवलया । भिक्षवो बुद्धं भगवन्तं पृच्छन्ति: कानि भदन्त कुवलयया कर्माणि कृतान्य् उपचितानि, येनाभिरूपा दर्शनीया प्रासादिका संवृत्ता, कानि कर्मणि कृतानि येनार्हत्वं साक्षात्कृतम् अपि । भगवान् आह: कुवलययैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । कुवलयया कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च:
न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि ।
सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्*

मूल पाठ: Avadānaśataka · Edition: the following editions: (1) Ed. P.L. Vaidya, Darbhanga 1958 (Buddhist Sanskrit Texts ; 19) and (2) Ed. J.S. Speyer, St. Petersbourg, 2 vols., 1906-1909 (Bibliotheca Buddhica ; 3) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc