अवदानशतक · अध्याय 74
भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि अस्मिन्न् एव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* । स वाराणसीं नगरीम् उपनिश्रित्य विहरति ऋषिपतने मृगदावे । यावद् अन्यतरा श्रेष्ठिभार्या श्राद्धा भद्रा कल्याणाशया केनचिद् एव करणीयेन ऋषिपतनं गता । अथासौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* । सहदर्शनाच् च भगवतः पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णा धर्मश्रवणाय । ततो ऽस्या भगवता काश्यपेन धर्मो देशितः । तया लब्धप्रसादया भगवन्तं सश्रावकसंघम् अन्तर्गृहे भोजयित्वा भिक्षुसंघाय कठिनचीवरम् अनुप्रदत्तम्*, क्रमेण च मातापितराव् अनुज्ञाप्य भगवच्छासने प्रव्रजिता ॥
किं मन्यध्वे भिक्षवो यासौ श्रेष्ठिभार्या, एषैवासौ शुक्ला भिक्षुणी । यद् अनया भिक्षुसंघाय कठिनचीवरम् अनुप्रदत्तं तेन शुक्लवस्त्रप्रावृत्ता जाता । यद् ब्रह्मचर्यवासः परिपालितस् तेनेह जन्मन्य् अर्हत्वं साक्षात्कृतम्* । इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_74 सोमा । (एद्. स्पेयेर्, वोल्. इइ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । श्रावस्त्याम् अन्यतमो ब्राह्मण आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी त्रयाणां वेदानां पारगतः सनिघण्टकैटभानां साक्षरप्रभेदानाम् इतिहासपञ्चमानां पदशो व्याकरणः । स पञ्च माणवकशतानि ब्राह्मणकान् मन्त्रान् पाठयति । तेन
-------------------- वैद्य, प्. 183 --------------------
पुत्रहेतोः सदृशात् कुलात् कलत्रम् आनीतम्* । स तया सार्धं क्रीडति रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्वा संवृत्ता । सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता । दारिका जाता अभिरूपा दर्शनीया प्रासादिका सर्वाङ्गप्रत्यङ्गोपेता । तस्या जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते: किं भवतु दारिकाया नामेति । ज्ञातय ऊचुः: प्रायशो ऽस्माकं पुत्रपौत्रिकया सोमनामानि क्रियन्ते । भवतु दारिकायाः सोमेति नामेति । सोमा दारिका उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैः । आशु वर्धते ह्रदस्थम् इव पङ्कजम्* ॥
यदा क्रमेण महती संवृत्ता, सा पण्डिता व्यक्ता मेधाविनी पटुप्रचारा स्मृतिमती श्रुतिधरा च । यावद् अस्याः पिता माणवकान् मन्त्रान् पाठयति, सा श्रुतमात्रेणोद्गृह्णाति । श्रुत्वा च तेषां शास्त्राणां पूर्वापरेण व्याख्यानं करोति । ततो ऽस्या यशसा सर्वा श्रावस्ती स्फुटा संवृत्ता । तीर्थ्याश् चास्या अहन्यहनि दर्शनायोपसंक्रामन्ति, तया च सह विनिश्चयं कुर्वन्ति । यदा भगवान् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धः तदा श्रावस्तीम् आगतः । प्रायेण ये पण्डिताः पण्डितसंख्याताः, ते भगवतो दर्शनायोपसंक्रामन्ति । ततः सा तान् न पश्यन्ती अन्तर्जनम् आमन्त्रयते: को ऽत्र भवन्तो हेतुर् येनैतर्हि शास्त्रविदो नोपसंक्रामन्तीति । ते कथयन्ति: भगवान् सर्वज्ञः शाक्यमुनिर् नामेह संप्राप्तः, सर्वे तत्प्रवणाः संवृत्ता इति । ततो बुद्ध इत्य् अश्रुतपूर्वं घोषं श्रुत्वास्याः सर्वरोमकूपा हृष्टाः (स्पेयेर्: सर्वरोमकूपाहृष्टाः ) । तत्र सोमा दारिका बुद्धशब्दश्रवणाद् भगवत्सकाशम् उपसंक्रान्ता । अथासौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* । सहदर्शनाच् च भगवत्पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णा धर्मश्रवणाय । अथ भगवान् सोमाया दारिकाया आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकीं धर्मदेशनां कृतवान्*, यां श्रुत्वा सोमया विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतापत्तिफलं साक्षात्कृतम्* । सा दृष्टसत्या महाप्रजापत्याः सकाशे प्रव्रजिता । तया युज्यमानया घटमानया व्यायच्छमानया इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । अर्हन्ती संवृत्ता त्रैधातुकवीतरागा समलोष्टकाञ्चना आकाशपाणितलसमचित्ता वासीचन्दनकल्पा विद्याविदारिताण्डकोशा विद्याभिज्ञाप्रतिसंवित्प्राप्ता भवलाभलोभसत्कारपराङ्मुखा । सेन्द्रोपेन्द्राणां
देवानां पूज्या मान्याभिवाद्या च संवृत्ता ॥
यदा भगवता भिक्षुभ्य आज्ञा दत्ता: यूयम् एव भिक्षवो ऽन्वर्धमासं प्रातिमोक्षसूत्रोद्देशम् उद्दिशतेति, तदा महाप्रजापत्या: उद्दिशतु भगवान् प्रातिमोक्षम्*, उद्दिशतु सुगतः प्रातिमोक्षम् इति । भगवान् आह: न हि भिक्षुण्यस् तथागता अर्हन्तः सम्यक्संबुद्धः पदशो धर्मम् उद्दिशन्ति । यदि युष्माकं काचिद् उत्सहते (स्पेयेर्: उच्छहते) सकृदुक्तं धारयितुम्*, एवम् अहम् उद्दिशेयम् इति । तेन खलु समयेन सा भिक्षुणी तस्याम् एव पर्षदि संनिषण्णा संनिपतिता । अथ सा भिक्षुणी उत्थायासनाद् येन भगवांस् तेनाञ्जलिं प्रणमय्य भगवन्तम् एतद् अवोचत्*: उद्दिशतु भगवान् प्रातिमोक्षम्*,
-------------------- वैद्य, प्. 184 --------------------
उद्दिशतु सुगतः प्रातिमोक्षम्* । अहं सकृदुक्तं धारयिष्ये । ततो भगवता विस्तरेणोद्दिष्टः, सोमया सकृदुक्तो धारितः । तत्र भगवान् भिक्षून् आमन्त्रयते स्म: एषा अग्रा मे भिक्षवो भिक्षुणीनां मम श्राविकाणां बहुश्रुतानां श्रुतधरीणां यदुत सोमा भिक्षुणी ॥
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त सोमया बिक्षुण्या कर्माणि कृतान्य् उपचितानि, येनाढ्ये कुले जाता अभिरूपा दर्शनीया प्रासादिका श्रुतिधरा च संवृत्तेति । भगवान् आह: सोमयैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । सोमया कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च:
न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि ।
सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्*
मूल पाठ: Avadānaśataka · Edition: the following editions: (1) Ed. P.L. Vaidya, Darbhanga 1958 (Buddhist Sanskrit Texts ; 19) and (2) Ed. J.S. Speyer, St. Petersbourg, 2 vols., 1906-1909 (Bibliotheca Buddhica ; 3) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0