भाषा

ENहिગુ
ग्रंथ पाठ

अवदानशतक · अध्याय 73

73.1

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि अस्मिन्न् एव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* । स वाराणसीं नगरीम् उपनिश्रित्य विहरति ऋषिपतने मृगदावे । अथ काश्यपः सम्यक्संबुद्धः पुर्वाह्णे निवास्य पात्रचिवरम् आदाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो वाराणसीं नगरीं पिण्डाय प्राविक्षत्* । यावद् अन्यतरः श्रेष्ठी सपरिजन उद्यानं गतः, प्रभूतं च खादनीयं भोजनीयं नीतम्* । यावत् तस्य प्रेष्यदारिकया ### <अचोर्दिन्ग् तो कल्पद्रुमावदान इत् इस्: पेशाम् आदाय पैष्टिकीम्.> । {तया} भगवान् सश्रावकसंघो ऽन्तर्मार्गे दृष्टः । तस्याः प्रसादजाताया बुद्धिर् उत्पन्ना: किं मां स्वामी द्विर् अपि दासीकरिष्यति, यन्व् अहं भगवन्तं भोजयेयम् इति । ततस् तया बन्धनताडनम् अगणयित्वा भक्तपेडाम् उद्धाट्य भगवान् सश्रावकसंघो विचित्रेणाहारेण संतर्पितः । ततः श्रेष्ठिनः सकाशम् उपसंक्रान्ता । यावच् छ्रेष्ठिना उक्ता: दारिके क्व सा भक्तपेडेति । सा कथयति: भगवान् मे काश्यपः सम्यक्संबुद्धाः पिण्डकेन प्रतिपादितः । इति
-------------------- वैद्य, प्. 180 --------------------
श्रुत्वा श्रेष्ठी परं विस्मयम् आपन्नः । ततस् तेन हृष्टतुष्टप्रमुदितेनोक्ता: गच्छ दारिके, अद्याग्रेण त्वम् अदासी भव, या त्वं मम सुप्तस्य जागर्षीति । सा कृतकरपुटा गृहपतिं विज्ञापितवती: अनुजानीहि मं*, भगवच्छासने प्रव्रजिष्यामीति । ततो ऽस्याः श्रेष्ठिना पात्रचीवरं दत्तम्* । सा स्वकेन पात्रचीवरेण भगवच्छासने प्रव्रजिता । भगवतः काश्यपस्य प्रवचने दशवर्षसहस्राणि वैयावृत्यं कृतम्*, भक्तैस् तर्पणैर् यवागूपानैर् नित्यकैर् नैमित्तिकैर् (स्पेयेर्: निमित्तिकैर्) दीपमालाभिः कठिनचीवरैर् दानप्रदानानि दत्वा प्रणिधानं कृतम्*: यन् मया भगवते काश्यपाय कृच्छ्रेण समुदानीय दानप्रदानानि दत्तानि, अनेनाहं कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च भगवतः शाक्यमुनेः प्रव्रज्याहर्त्वं प्राप्नुयाम् इति ॥
भगवान् आह: किं मन्यध्वे भिक्षवो यासौ प्रेष्यदारिका, इयम् असौ सुप्रिया । यद् अनया भगवान् कास्यपः पिण्डकेन प्रतिपादितः, तेन आढ्ये कुले जाता अभिरूपा दर्शनीया प्रासादिका अभिमता सर्वजनस्य । यत् प्रणिधानं कृतं तेनेदानीम् अर्हत्वं साक्षात्कृतम्* । इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_73 शुक्ला । (एद्. स्पेयेर्, वोल्. इइ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः कपिलवस्तुनि विहरति न्यग्रोधारामे । शाक्येषु रोहिणो नाम शाक्यः प्रतिवसति आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तेन सदृशात् कुलात् कलत्रम् आनीतम्* । स तया सार्धं क्रीडति रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतः न पुत्रो न दुहिता । स करे कपोलं दत्वा चिन्तापरो व्यवस्थितः: अनेकधनसमुदितं मे गृहम्*, न मे पुत्रो न दुहिता । ममात्ययात् सर्वस्वापतेयम् अपुत्रकम् इति कृत्वा राजविधेयं भविष्यतीति । स श्रमणब्राह्मणनैमित्तिकसुहृत्संबन्धिबान्धवैर् उच्यते: देवताराधनं कुरुष्वेति । सो ऽपुत्रः पुत्राभिनन्दी शिववरुणकुबेरवासवादीन् अन्यांश् च देवताविशेषान् आयाचते । तद्यथा आरामदेवता वनदेवताश् चत्वरदेवताः शृङ्गाटकदेवता बलिप्रतिग्राहिका देवताः । सहजाः सहधार्मिका नित्यानुबद्धा अपि देवता आयाचते स्म । अस्ति चैष लोके प्रवादो यदायाचनहेतोः पुत्रा जायन्ते दुहितरश् चेति । तच् च नैवम्* । यद्य् एवम् अभविष्यत्*, एकैकस्य पुत्रसहस्रम् अभविष्यत् तद्यथा राज्ञश् चक्रवर्तिनः । अपि तु त्रयाणां स्थानानां संमुखीभावात् पुत्रा जायन्ते दुहितरश् च । कतमेषां त्रयाणाम्* । मातापितराउ
-------------------- वैद्य, प्. 181 --------------------
रक्तौ भवतः संनिपतितौ, माता च कल्या भवति ऋतुमती, गन्धर्वश् च प्रत्युपस्थितो भवति । एतेषां त्रयाणां स्थानानां संमुखीभावात् पुत्रा जायन्ते दुहितरश् च ॥
स चैवम् आयाचनपरस् तिष्ठति । अन्यतमा च दारिका अन्यतमस्मात् देवनिकायाच् च्युत्वा तस्य प्रजापत्याः कुक्षिम् अवक्रान्ता । तया स्वामिने निवेदितम्* । ततः स्वामिनोच्यते: भद्रे यदि पुत्रं जनिष्यसीत्य् एवं कुशलम्*, अथ दुहितरम्*, तयैव सह त्वां निष्कासयामीति । यावद् असाव् अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता । दारिका जाता अभिरूपा दर्शनीया प्रासादिका अतिक्रान्ता मानुष्यां वर्णम् असंप्राप्ता च दिव्यं वर्णम्*, शुक्लैर् वस्त्रैः प्रावृता अनुपलिप्तैव गर्भमलेन । यावद् रोहिणेन श्रुतं प्रजाप्ती ते प्रसूता दारिका जातेति, स कुपितः प्रविष्टः । ततो ऽस्य प्रजाप्त्या दिव्यवस्त्रप्रवृता दारिकोपनीता । ततो रोहिणः शाक्यो दारिकां दृष्ट्वा परं विस्मयम् आपन्नः । तस्या जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते: किं भवतु दारिकाया नामेति । ज्ञातय ऊचुः: यस्माद् इयं शुक्लवस्त्रपरिवृता जाता, तस्माद् भवतु दारिकायाः शुक्लेति नामेति । शुक्ला दारिका अष्टाभ्यो धात्रीभ्यो दत्ता द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्* । सा अष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैः । आशु वर्धते ह्रदस्थम् इव पङ्कजम्* । यथा यथा च शुक्ला दारिका वर्धते, तथा तथा तान्य् अपि वस्त्राणि वर्धन्ते न च मलिनीभवन्ति, न चास्याः कायो मलेनाभिभूयते ॥

यदा शुक्ला दारिका क्रमेण महती संवृत्ता, तदास्या बहवो याचनका आगच्छन्ति, राजपुत्रा अमात्यपुत्राश् च । ततस् तैर् उपद्रूयमाणः पिता चास्याः करे कपोलं दत्वा चिन्तापरो व्यवस्थितः: यद्य् एकस्मै दास्यामि, अन्ये मे अमित्रा भविष्यन्तीति । यावद् असौ दारिका पितरं चिन्तापरम् अवेक्ष्योवाच: तात किम् असि चिन्तापर इति । तेन सो ऽर्थो विस्तरेण समाख्यातः । दारिका कथयति: तात न ते शोकः कर्तव्यः, नाहं कामेनार्थिनी, भगवच्छासने प्रव्रजिष्यामि, अनुजानीहि मां तातेति । यावद् असौ मातापितराव् अनुज्ञाप्य भगवच्छासने प्रव्रजिता । येनैव वस्त्रेण प्रावृता जाता, तत एव परिपूर्णं पञ्चचीवरं संपन्नम्* । तया युज्यमानया घटमानया व्यायच्छमानया इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । अर्हन्ती संवृत्ता त्रैधातुकवीतरागा समलोष्टकाञ्चना आकाशपाणितलसमचित्ता वासीचन्दनकल्पा विद्याविदारिताण्डकोशा विद्याभिज्ञाप्रतिसंवित्प्राप्ता भवलाभलोभसत्कारपराङ्मुखा । सेन्द्रोपेन्द्राणां देवानां पूज्या मान्याभिवाद्या च संवृत्ता ॥
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त शुक्लया दारिकया कर्माणि कृतान्य्, येनाढ्ये कुले जाता अभिरूपा दर्शनीया प्रासादिका, शुक्लवस्त्रप्रावृत्ता । प्रव्रज्य चार्हत्वं साक्षात्कृतम् इति । भगवान् आह: शुक्लयैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । शुक्लया
-------------------- वैद्य, प्. 182 --------------------
कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च:
न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि ।
सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्*

मूल पाठ: Avadānaśataka · Edition: the following editions: (1) Ed. P.L. Vaidya, Darbhanga 1958 (Buddhist Sanskrit Texts ; 19) and (2) Ed. J.S. Speyer, St. Petersbourg, 2 vols., 1906-1909 (Bibliotheca Buddhica ; 3) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc